Header Ads

Shubhapallaba online English Portal
  • Latest Post

    प्रेमदिवसः


    यस्य प्रेम विफलं सः इमान् भावान् अनुभवेत्
    द्रवीभवद्धस्तगतं विलोक्य पयोहिम त्वां दयितोपभुङ्क्ते।
    द्रवीभवन्मे हृदयं कुतः सा न पश्यति प्रेमदिनेऽपि हन्त॥
    एकेन चैव बहुना तनुना गुणेन युक्तं स्वकीयहृदये धरतीह हारम्।
    प्रीत्यादरादिबहुभिर्गुणराशिभिर्यो युक्तोऽस्त्ययं धरति तं न तदस्ति चित्रम्॥
    पृष्ठे गतान्मुहुरपि स्वकरेण केशानाकृष्य या स्वहृदये विनिवेष्टुकामा।
    योऽयं पुरः प्रतिदिनं चरतीह तं सा दूरीकरोति सततं खलु चित्रमेतत्॥

    यस्य च प्रेम सफलं स इत्थं चिन्तयेत्
    शिवध्यानं कुर्वन्तः जागरणं जनाः कुर्वन्ति। तद्विषये श्लोकः
    शम्भौ भक्त्या निशि सुविहिता जागरेत्येष कोपा
    न्मन्ये तीक्ष्णैः प्रहरति भृशं त्र्यम्बकारिः स्वबाणैः।
    नैतद्युक्तं कुसुमशर तान् सायकान् संहर त्वं
    प्रत्यासन्ने मदनदिवसे प्रेमिणां क्वास्ति निद्रा॥

    मन्मथः पञ्चभिर्बाणैर्हृदयं मम विध्यति।
    हृदयस्था प्रिया भीरुस्तथापि न पलायते॥
    तथापि मनसः खेदः कुतो मे वर्धते वृथा।
    मन्ये स्मरः प्रियायाश्च हृदयं विध्यतीति सः॥
    प्रेयसीहृदये वासात्स्मरबाणाः स्पृशन्ति माम्।
    तां च मद्धृदये वासाद् विशिष्टं कामखेलनम्॥

    - सूर्य हेब्बारः,
    परियोजनासहायकः,
    संस्कृतभारती, बेङ्गलूरुः

    1 comment:

    1. Casino Hotel & RV Park Information - MapyRO
      Casino Hotel 정읍 출장마사지 & 용인 출장마사지 RV Park Overview, Map & Floor Plans, Deals 논산 출장안마 & Reviews on Casino Hotel & 아산 출장안마 RV Park in WYNN 통영 출장샵 LAS VEGAS.

      ReplyDelete

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal