Header Ads

Shubhapallaba online English Portal
  • Latest Post

    वाल्मीकिरामायणम् - बालकाण्डम्


    श्रीमद्वाल्मीकियरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥

    तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
    नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम् ॥१-१-१॥

    कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान् ।
    धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥

    चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
    विद्वान् कः कः समर्थश्च कश्च एक प्रियदर्शनः ॥१-१-३॥

    आत्मवान् को जित क्रोधो द्युतिमान् कः अनसूयकः ।
    कस्य बिभ्यति देवाः च जात रोषस्य संयुगे ॥१-१-४॥

    एतत् इच्छामि अहम् श्रोतुम् परम् कौतूहलम् हि मे ।
    महर्षे त्वम् समर्थोऽसि ज्ञातुम् एवम् विधम् नरम् ॥१-१-५॥

    श्रुत्वा च एतत् त्रिलोकज्ञो वाल्मीकेः नारदो वचः ।
    श्रूयताम् इति च आमंत्र्य प्रहृष्टो वाक्यम् अब्रवीत् ॥१-१-६॥

    बहवो दुर्लभाः च एव ये त्वया कीर्तिता गुणाः ।
    मुने वक्ष्ष्यामि अहम् बुद्ध्वा तैः उक्तः श्रूयताम् नरः ॥१-१-७॥

    इक्ष्वाकु वंश प्रभवो रामो नाम जनैः श्रुतः ।
    नियत आत्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥१-१-८॥

    बुद्धिमान् नीतिमान् वाङ्ग्मी श्रीमान् शत्रु निबर्हणः ।
    विपुलांसो महाबाहुः कंबु ग्रीवो महाहनुः ॥१-१-९॥

    महोरस्को महेष्वासो गूढ जत्रुः अरिन्दमः ।
    आजानु बाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥

    समः सम विभक्त अंगः स्निग्ध वर्णः प्रतापवान् ।
    पीन वक्षा विशालाक्षो लक्ष्मीवान् शुभ लक्षणः ॥१-१-११॥

    धर्मज्ञः सत्यसन्धः च प्रजानाम् च हिते रतः ।
    यशस्वी ज्ञानसंपन्नः शुचिः वश्यः समाधिमान् ॥१-१-१२॥

    प्रजापति समः श्रीमान् धता रिपु निषूदनः ।
    रक्षिता जीवलोकस्य धर्मस्य परि रक्षिता॥१-१-१३॥

    रक्षिता स्वस्य धर्मस्य स्व जनस्य च रक्षिता ।
    वेद वेदाङ्ग तत्त्वज्ञो धनुर् वेदे च निष्ठितः ॥१-१-१४॥

    सर्व शास्त्र अर्थ तत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।
    सर्वलोक प्रियः साधुः अदीनाअत्मा विचक्षणः ॥१-१-१५॥

    सर्वदा अभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
    अर्यः सर्वसमः च एव सदैव प्रिय दर्शनः ॥१-१-१६॥

    स च सर्व गुणोपेतः कौसल्य आनंद वर्धनः ।
    समुद्र इव गाम्भीर्ये धैर्येण हिमवान् इव ॥१-१-१७॥

    विष्णुना सदृशो वीर्ये सोमवत् प्रिय दर्शनः ।
    काल अग्नि सदृशः क्रोधे क्षमया पृथ्वी समः ॥१-१-१८॥

    धनदेन समः त्यागे सत्ये धर्म इव अपरः ।
    तम् एवम् गुण संपन्नम् रामम् सत्य पराक्रमम् ॥१-१-१९॥

    ज्येष्टम् श्रेष्ट गुणैः युक्तम् प्रियम् दशरथः सुतम् ।
    प्रकृतीनाम् हितैः युक्तम् प्रकृति प्रिय काम्यया ॥१-१-२०॥

    यौव राज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः ।
    तस्य अभिषेक संभारान् दृष्ट्वा भार्या अथ कैकयी ॥१-१-२१॥

    पूर्वम् दत्त वरा देवी वरम् एनम् अयाचत ।
    विवासनम् च रामस्य भरतस्य अभिषेचनम् ॥१-१-२२॥

    स सत्य वचनात् राजा धर्म पाशेन संयतः ।
    विवासयामास सुतम् रामम् दशरथः प्रियम् ॥१-१-२३॥

    स जगाम वनम् वीरः प्रतिज्ञाम् अनुपालयन् ।
    पितुर् वचन निर्देशात् कैकेय्याः प्रिय कारणात् ॥१-१-२४॥

    तम् व्रजंतम् प्रियो भ्राता लक्ष्मणः अनुजगाम ह ।
    स्नेहात् विनय संपन्नः सुमित्र आनंद वर्धनः ॥१-१-२५॥

    भ्रातरम् दयितो भ्रातुः सौभ्रात्रम् अनु दर्शयन् ।
    रामस्य दयिता भार्या नित्यम् प्राण समा हिता ॥१-१-२६॥

    जनकस्य कुले जाता देव मायेव निर्मिता ।
    सर्व लक्षण संपन्ना नारीणाम् उत्तमा वधूः ॥१-१-२७॥

    सीताप्य अनुगता रामम् शशिनम् रोहिणी यथा ।
    पौरैः अनुगतो दूरम् पित्रा दशरथेन च ॥१-१-२८॥

    शृन्गिबेर पुरे सूतम् गंगा कूले व्यसर्जयत् ।
    गुहम् आसाद्य धर्मात्मा निषाद अधिपतिम् प्रियम् ॥१-१-२९॥

    गुहेअन सहितो रामो लक्ष्मणेन च सीतया ।
    ते वनेन वनम् गत्वा नदीः तीर्त्वा बहु उदकाः ॥१-१-३०॥

    चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् ।
    रम्यम् आवसथम् कृत्वा रममाणा वने त्रयः ॥१-१-३१॥

    देव गन्धर्व संकाशाः तत्र ते न्यवसन् सुखम् ।
    चित्रकूटम् गते रामे पुत्र शोक आतुरः तथा ॥१-१-३२॥

    राजा दशरथः स्वर्गम् जगाम विलपन् सुतम् ।
    गते तु तस्मिन् भरतो वसिष्ठ प्रमुखैः द्विजैः ॥१-१-३३॥

    नियुज्यमानो राज्याय न इच्छत् राज्यम् महाबलः ।
    स जगाम वनम् वीरो राम पाद प्रसादकः ॥१-१-३४॥

    गत्वा तु स महात्मानम् रामम् सत्य पराक्रमम् ।
    अयाचत् भ्रातरम् रामम् आर्य भाव पुरस्कृतः ॥१-१-३५॥

    त्वम् एव राजा धर्मज्ञ इति रामम् वचः अब्रवीत् ।
    रामोऽपि परमोदारः सुमुखः सुमहायशाः ॥१-१-३६॥

    न च इच्छत् पितुर् आदेशात् राज्यम् रामो महाबलः ।
    पादुके च अस्य राज्याय न्यासम् दत्त्वा पुनः पुनः ॥१-१-३७॥

    निवर्तयामास ततो भरतम् भरत अग्रजः ।
    स कामम् अनवाप्य एव राम पादा उपस्पृशन् ॥१-१-३८॥

    नन्दि ग्रामे अकरोत् राज्यम् राम आगमन कांक्षया ।
    गते तु भरते श्रीमान् सत्य सन्धो जितेन्द्रियः ॥१-१-३९॥

    रामः तु पुनः आलक्ष्य नागरस्य जनस्य च ।
    तत्र आगमनम् एकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥

    प्रविश्य तु महाअरण्यम् रामो राजीव लोचनः ।
    विराधम् राक्षसम् हत्वा शरभंगम् ददर्श ह ॥१-१-४१॥

    सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य भ्रातरम् तथा ।
    अगस्त्य वचनात् च एव जग्राह ऐन्द्रम् शरासनम् ॥१-१-४२॥

    खड्गम् च परम प्रीतः तूणी च अक्षय सायकौ ।
    वसतः तस्य रामस्य वने वन चरैः सह ॥१-१-४३॥

    ऋषयः अभ्यागमन् सर्वे वधाय असुर रक्षसाम् ।
    स तेषाम् प्रति शुश्राव राक्षसानाम् तथा वने ॥१-१-४४॥

    प्रतिज्ञातः च रामेण वधः संयति रक्षसाम् ।
    ऋषीणाम् अग्नि कल्पानाम् दंडकारण्य वासीनाम् ॥१-१-४५॥

    तेन तत्र एव वसता जनस्थान निवासिनी ।
    विरूपिता शूर्पणखा राक्षसी काम रूपिणी ॥१-१-४६॥

    ततः शूर्पणखा वाक्यात् उद्युक्तान् सर्व राक्षसान् ।
    खरम् त्रिशिरसम् च एव दूषणम् च एव राक्षसम् ॥१-१-४७॥

    निजघान रणे रामः तेषाम् च एव पद अनुगान् ।
    वने तस्मिन् निवसता जनस्थान निवासिनाम् ॥१-१-४८॥

    रक्षसाम् निहतानि असन् सहस्राणि चतुर् दश ।
    ततो ज्ञाति वधम् श्रुत्वा रावणः क्रोध मूर्छितः ॥१-१-४९॥

    सहायम् वरयामास मारीचम् नाम राक्षसम् ।
    वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥

    न विरोधो बलवता क्षमो रावण तेन ते ।
    अनादृत्य तु तत् वाक्यम् रावणः काल चोदितः ॥१-१-५१॥

    जगाम सह मारीचः तस्य आश्रम पदम् तदा ।
    तेन मायाविना दूरम् अपवाह्य नृप आत्मजौ ॥१-१-५२॥

    जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम् ।
    गृध्रम् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिलीम् ॥१-१-५३॥

    राघवः शोक संतप्तो विललाप आकुल इन्द्रियः ।
    ततः तेन एव शोकेन गृध्रम् दग्ध्वा जटायुषम् ॥१-१-५४॥

    मार्गमाणो वने सीताम् राक्षसम् संददर्श ह ।
    कबंधम् नाम रूपेण विकृतम् घोर दर्शनम् ॥१-१-५५॥

    तम् निहत्य महाबाहुः ददाह स्वर्गतः च सः ।
    स च अस्य कथयामास शबरीम् धर्म चारिणीम् ॥१-१-५६॥

    श्रमणाम् धर्म निपुणाम् अभिगच्छ इति राघव ।
    सः अभ्य गच्छन् महातेजाः शबरीम् शत्रु सूदनः ॥१-१-५७॥

    शबर्या पूजितः सम्यक् रामो दशरथ आत्मजः ।
    पंपा तीरे हनुमता संगतो वानरेण ह ॥१-१-५८॥

    हनुमत् वचनात् च एव सुग्रीवेण समागतः ।
    सुग्रीवाय च तत् सर्वम् शंसत् रामो महाबलः ॥१-१-५९॥

    आदितः तत् यथा वृत्तम् सीतायाः च विशेषतः ।
    सुग्रीवः च अपि तत् सर्वम् श्रुत्वा रामस्य वानरः ॥१-१-६०॥

    चकार सख्यम् रामेण प्रीतः च एव अग्नि साक्षिकम् ।
    ततो वानर राजेन वैर अनुकथनम् प्रति ॥१-१-६१॥

    रामाय आवेदितम् सर्वम् प्रणयात् दुःखितेन च ।
    प्रतिज्ञातम् च रामेण तदा वालि वधम् प्रति ॥१-१-६२॥

    वालिनः च बलम् तत्र कथयामास वानरः ।
    सुग्रीवः शंकितः च आसीत् नित्यम् वीर्येण राघवे ॥१-१-६३॥

    राघवः प्रत्ययार्थम् तु दुंदुभेः कायम् उत्तमम् ।
    दर्शयामास सुग्रीवः महापर्वत संनिभम् ॥१-१-६४॥

    उत्स्मयित्वा महाबाहुः प्रेक्ष्य च अस्ति महाबलः ।
    पाद अंगुष्टेन चिक्षेप संपूर्णम् दश योजनम् ॥१-१-६५॥

    बिभेद च पुनः सालान् सप्त एकेन महा इषुणा ।
    गिरिम् रसातलम् चैव जनयन् प्रत्ययम् तथा ॥१-१-६६॥

    ततः प्रीत मनाः तेन विश्वस्तः स महाकपिः ।
    किष्किंधाम् राम सहितो जगाम च गुहाम् तदा ॥१-१-६७॥

    ततः अगर्जत् हरिवरः सुग्रीवो हेम पिंगलः ।
    तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥

    अनुमान्य तदा ताराम् सुग्रीवेण समागतः ।
    निजघान च तत्र एनम् शरेण एकेन राघवः ॥१-१-६९॥

    ततः सुग्रीव वचनात् हत्वा वालिनम् आहवे ।
    सुग्रीवम् एव तत् राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥

    स च सर्वान् समानीय वानरान् वानरर्षभः ।
    दिशः प्रस्थापयामास दिदृक्षुः जनक आत्मजाम् ॥१-१-७१॥

    ततो गृध्रस्य वचनात् संपातेः हनुमान् बली ।
    शत योजन विस्तीर्णम् पुप्लुवे लवण अर्णवम् ॥१-१-७२॥

    तत्र लंकाम् समासाद्य पुरीम् रावण पालिताम् ।
    ददर्श सीताम् ध्यायन्तीम् अशोक वनिकाम् गताम् ॥१-१-७३॥

    निवेदयित्वा अभिज्ञानम् प्रवृत्तिम् च निवेद्य च ।
    समाश्वास्य च वैदेहीम् मर्दयामास तोरणम् ॥१-१-७४॥

    पंच सेन अग्रगान् हत्वा सप्त मंत्रि सुतान् अपि ।
    शूरम् अक्षम् च निष्पिष्य ग्रहणम् समुपागमत् ॥१-१-७५॥

    अस्त्रेण उन्मुक्तम् आत्मानम् ज्ञात्वा पैतामहात् वरात् ।
    मर्षयन् राक्षसान् वीरो यन्त्रिणः तान् यदृच्छया ॥१-१-७६॥

    ततो दग्ध्वा पुरीम् लंकाम् ऋते सीताम् च मैथिलीम् ।
    रामाय प्रियम् आख्यातुम् पुनः आयात् महाकपिः ॥१-१-७७॥

    सः अभिगम्य महात्मानम् कृत्वा रामम् प्रदक्षिणम् ।
    न्यवेदयत् अमेयात्मा दृष्टा सीता इति तत्त्वतः ॥१-१-७८॥

    ततः सुग्रीव सहितो गत्वा तीरम् महा उदधेः ।
    समुद्रम् क्षोभयामास शरैः आदित्य सन्निभैः ॥१-१-७९॥

    दर्शयामास च आत्मानम् समुद्रः सरिताम् पतिः ।
    समुद्र वचनात् च एव नलम् सेतुम् अकारयत् ॥१-१-८०॥

    तेन गत्वा पुरीम् लंकाम् हत्वा रावणम् आहवे ।
    रामः सीताम् अनुप्राप्य पराम् व्रीडाम् उपागमत् ॥१-१-८१॥

    ताम् उवाच ततः रामः परुषम् जन संसदि ।
    अमृष्यमाणा सा सीता विवेश ज्वलनम् सती ॥१-१-८२॥

    ततः अग्नि वचनात् सीताम् ज्ञात्वा विगत कल्मषाम् ।
    कर्मणा तेन महता त्रैलोक्यम् स चराचरम् ॥१-१-८३॥

    स देवर्षि गणम् तुष्टम् राघवस्य महात्मनः ॥
    बभौ रामः संप्रहृष्टः पूजितः सर्व देवतैः ॥१-१-८४॥

    अभ्यषिच्य च लंकायाम् राक्षस इन्द्रम् विभीषणम् ।
    कृतकृत्यः तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥

    देवताभ्यो वराम् प्राप्य समुत्थाप्य च वानरान् ।
    अयोध्याम् प्रस्थितः रामः पुष्पकेण सुहृत् वृतः ॥१-१-८६॥

    भरद्वाज आश्रमम् गत्वा रामः सत्यपराक्रमः ।
    भरतस्य अंतिकम् रामो हनूमंतम् व्यसर्जयत् ॥१-१-८७॥

    पुनः आख्यायिकाम् जल्पन् सुग्रीव सहितः तदा ।
    पुष्पकम् तत् समारूह्य नंदिग्रामम् ययौ तदा ॥१-१-८८॥

    नंदिग्रामे जटाम् हित्वा भ्रातृभिः सहितो अनघः ।
    रामः सीताम् अनुप्राप्य राज्यम् पुनः अवाप्तवान् ॥१-१-८९॥

    प्रहृष्टो मुदितो लोकः तुष्टः पुष्टः सुधार्मिकः ।
    निरामयो हि अरोगः च दुर्भिक्ष भय वर्जितः ॥१-१-९०॥

    न पुत्र मरणम् केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।
    नार्यः च अविधवा नित्यम् भविष्यन्ति पति व्रताः ॥१-१-९१॥

    न च अग्निजम् भयम् किन्चित् न अप्सु मज्जन्ति जन्तवः ।
    न वातजम् भयम् किन्चित् न अपि ज्वर कृतम् तथा ॥१-१-९२॥

    न च अपि क्षुत् भयम् तत्र न तस्कर भयम् तथा ।
    नगराणि च राष्ट्राणि धन धान्य युतानि च ॥१-१-९३॥

    नित्यम् प्रमुदिताः सर्वे यथा कृत युगे तथा ।
    अश्वमेध शतैः इष्ट्वा तथा बहु सुवर्णकैः ॥१-१-९४॥

    गवाम् कोट्ययुतम् दत्त्वा विद्वभ्यो विधि पूर्वकम् ।
    असंख्येयम् धनम् दत्त्वा ब्राह्मणेभो महायशाः ॥१-१-९५॥

    राज वंशान् शत गुणान् स्थाप इष्यति राघवः ।
    चातुर् वर्ण्यम् च लोके अस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥

    दश वर्ष सहस्राणि दश वर्ष शतानि च ।
    रामो राज्यम् उपासित्वा ब्रह्म लोकम् प्रयास्यति ॥१-१-९७॥

    इदम् पवित्रम् पापघ्नम् पुण्यम् वेदैः च संमितम् ।
    यः पठेत् राम चरितम् सर्व पापैः प्रमुच्यते ॥१-१-९८॥

    एतत् आख्यानम् आयुष्यम् पठन् रामायणम् नरः ।
    स पुत्र पौत्रः स गणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥

    पठन् द्विजो वाक् ऋषभत्वम् ईयात् ।
    स्यात् क्षत्रियो भूमि पतित्वम् ईयात् ॥
    वणिक् जनः पण्य फलत्वम् ईयात् ।
    जनः च शूद्रो अपि महत्त्वम् ईयात् ॥१-१-१००॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वितीयः सर्गः ॥१-२॥

    नारदस्य तु तद्वाक्यम् श्रुत्वा वाक्य विशारदः ।
    पूजयामास धर्मात्मा सह शिष्यो महामुनिः ॥१-२-१॥

    यथावत् पूजितः तेन देवर्षिः नारदः तथा ।
    आपृच्छैव अभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥

    स मुहूर्तं गते तस्मिन् देवलोकम् मुनिः तदा ।
    जगाम तमसा तीरम् जाह्नव्यात् अविदूरतः ॥१-२-३॥

    स तु तीरम् समासाद्य तमसाया मुनिः तदा ।
    शिष्यम् आह स्थितम् पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम् ॥१-२-४॥

    अकर्दमम् इदम् तीर्थम् भरद्वाज निशामय ।
    रमणीयम् प्रसन्न अम्बु सन् मनुष्य मनो यथा ॥१-२-५॥

    न्यस्यताम् कलशः तात दीयताम् वल्कलम् मम ।
    इदम् एव अवगाहिष्ये तमसा तीर्थम् उत्तमम् ॥१-२-६॥

    एवम् उक्तो भरद्वाजो वाल्मीकेन महात्मना ।
    प्रयच्छत मुनेः तस्य वल्कलम् नियतः गुरोः ॥१-२-७॥

    स शिष्य हस्तात् आदाय वल्कलम् नियतेन्द्रियः ।
    विचचार ह पश्यन् तत् सर्वतो विपुलम् वनम् ॥१-२-८॥

    तस्य अभ्याशे तु मिथुनम् चरन्तम् अनपायिनम् ।
    ददर्श भगवान् तत्र क्रौङ्चयोः चारु निस्वनम् ॥१-२-९॥

    तस्मात् तु मिथुनात् एकम् पुमांसम् पाप निश्चयः ।
    जघान वैरनिलयो निषादः तस्य पश्यतः ॥१-२-१०॥

    तम् शोणित परीताङ्गम् चेष्टमानम् महीतले ।
    भार्या तु निहतम् दृष्ट्वा रुराव करुणाम् गिरम् ॥१-२-११॥

    वियुक्ता पतिना तेन द्विजेन सहचारिणा ।
    ताम्र शीर्षेण मत्तेन पत्रिणा सहितेन वै ॥१-२-१२॥

    तथा विधिम् द्विजम् दृष्ट्वा निषादेन निपातितम् ।
    ऋशेः धर्मात्मानः तस्य कारुण्यम् समपद्यत ॥१-२-१३॥

    ततः करुण वेदित्वात् अधर्मो अयम् इति द्विजः ।
    निशाम्य रुदतीम् क्रौन्चीम् इदम् वचनम् अब्रवीत् ॥१-२-१४॥

    मा निषाद प्रतिष्ठाम् त्वमगमः शाश्वतीः समाः ।
    यत् क्रौङ्च मिथुनात् एकम् अवधीः काममोहितम् ॥१-२-१५॥

    तस्य एवम् ब्रुवतः चिन्ता बभूव हृदि वीक्षतः ।
    शोकार्तेन अस्य शकुनेः किम् इदम् व्याहृतम् मया ॥१-२-१६॥

    चिन्तयन् स महाप्राज्ञः चकार मतिमान् मतिम् ।
    शिश्यम् च एव अब्रवीत् वाक्यम् इदम् स मुनिपुङ्गवः ॥१-२-१७॥

    पादबद्धः अक्षरसमः तन्त्रीलयसमन्वितः ।
    शोकः तस्य प्रवृत्तो मे श्लोको भवतु न अन्यथा ॥१-२-१८॥

    शिष्यः तु तस्य ब्रुवतो मुनेः वाक्यम् अनुत्तमम् ।
    प्रतिजग्राह संतुष्टः तस्य तुष्टः अभवत् मुनिः ॥१-२-१९॥

    सोऽभिषेकम् ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।
    तम् एव चिन्तयन् अर्थम् उपावर्तत वै मुनिः ॥१-२-२०॥

    भरद्वाजः ततः शिष्यो विनीतः श्रुतवान् गुरोः ।
    कलशम् पूर्णमादाय पृष्ठतः अनुजगाम ह ॥१-२-२१॥

    स प्रविश्य आश्रमपदम् शिष्येण सह धर्मवित् ।
    उपविष्टः कथाः च अन्याः चकार ध्यानमास्थितः ॥१-२-२२॥

    आजगाम ततः ब्रह्मो लोककर्ता स्वयम् प्रभुः ।
    चतुर् मुखो महातेजा द्रष्टुम् तम् मुनिपुङ्गवम् ॥१-२-२३॥

    वाल्मीकिः अथ तम् दृष्ट्वा सहसा उत्थाय वाग्यतः ।
    प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥१-२-२४॥

    पूजयामास तम् देवम् पाद्य अर्घ्य आसन वन्दनैः ।
    प्रणम्य विधिवत् च एनम् पृष्ट्वा च एव निरामयम् ॥१-२-२५॥

    अथ उपविश्य भगवान् आसने परम अर्चिते ।
    वाल्मीकये च ऋषये सन्दिदेश आसनम् ततः ॥१-२-२६॥

    ब्रह्मणा समनुज्ञातः सोऽपि उपाविशत् आसने ।
    उपविष्टे तदा तस्मिन् साक्षात् लोकपितामहे ॥१-२-२७॥

    तत् गतेन एव मनसा वाल्मीकिः ध्यानम् आस्थितः ॥
    पापात्मना कृतम् कष्टम् वैर ग्रहण बुद्धिना ॥१-२-२८॥

    यत् तादृशम् चारुरवम् क्रौन्चम् हन्यात् अकारणात् ॥
    शोचन् एव पुनः क्रौन्चीम् उप श्लोकम् इमम् जगौ ॥१-२-२९॥

    पुनर् अन्तर्गत मना भूत्वा शोक परायणः ॥
    तम् उवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम् ॥१-२-३०॥

    श्लोक एवास्त्वयाम् बद्धो न अत्र कार्या विचारणा ॥
    मत् च्छन्दात् एव ते ब्रह्मन् प्रवृत्ते अयम् सरस्वती ॥१-२-३१॥

    रामस्य चरितम् कृत्स्नम् कुरु त्वम् ऋषिसत्तम ।
    धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥

    वृत्तम् कथय धीरस्य यथा ते नारदात् श्रुतम् ।
    रहस्यम् च प्रकाशम् च यद् वृत्तम् तस्य धीमतः ॥१-२-३३॥

    रामस्य सह सौमित्रे राक्षसानाम् च सर्वशः ।
    वैदेह्याः च एव यद् वृत्तम् प्रकाशम् यदि वा रहः ॥१-२-३४॥

    तत् च अपि अविदितम् सर्वम् विदितम् ते भविष्यति ।
    न ते वाक् अनृता काव्ये काचित् अत्र भविष्यति ॥१-२-३५॥

    कुरु रामकथाम् पुण्याम् श्लोक बद्धाम् मनोरमाम् ।
    यावत् स्थास्यन्ति गिरयः सरितः च महीतले ॥१-२-३६॥

    तावत् रामायण कथा लोकेषु प्रचरिष्यति ।
    यावत् रामस्य च कथा त्वत् कृता प्रचरिष्यति ॥१-२-३७॥

    तावत् ऊर्ध्वम् अधः च त्वम् मत् लोकेषु निवत्स्यसि ।
    इति उक्त्वा भगवान् ब्रह्मा तत्र एव अन्तरधीयत ।
    ततः स शिष्यो भगवान् मुनिः विस्मयम् आययौ ॥१-२-३८॥

    तस्य शिष्याः ततः सर्वे जगुः श्लोकम् इमम् पुनः ।
    मुहुर् मुहुः प्रीयमाणाः प्राहुः च भृश विस्मिताः ॥१-२-३९॥

    समाक्षरैः चतुर्भिः यः पादैः गीतो महर्षिणा ।
    सः अनुव्याहरणात् भूयः शोकः श्लोकत्वम् आगतः ॥१-२-४०॥

    तस्य बुद्धिः इयम् जाता महर्षेः भावितात्मनः ।
    कृत्स्नम् रामायणम् काव्यम् ईदृशैः करवाण्यहम् ॥१-२-४१॥

    उदार वृत्त अर्थ पदैः मनोरमैःतदा अस्य रामस्य चकार कीर्तिमान् ।
    सम अक्षरैः श्लोक शतैः यशस्विनोयशस्करम् काव्यम् उदार दर्शनः ॥१-२-४२॥

    तद् उपगत समास सन्धि योगम्सम मधुरोपनत अर्थ वाक्य बद्धम् ।
    रघुवर चरितम् मुनिप्रणीतम्दश शिरसः च वधम् निशामय अध्वम् ॥१-२-४३॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्वितीयः सर्गः ॥१-२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥

    श्रुत्वा वस्तु समग्रम् तत् धर्म अर्ध सहितम् हितम् ।
    व्यक्तम् अन्वेषते भूयो यद्वृत्तम् तस्य धीमतः ॥१-३-१॥

    उपस्पृस्य उदकम् सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।
    प्राचीन अग्रेषु दर्भेषु धर्मेण अन्वेषते गतिम् ॥१-३-२॥

    राम लक्ष्मण सीताभिः राज्ञा दशरथेन च ।
    स भार्येण स राष्ट्रेण यत् प्राप्तम् तत्र तत्त्वतः ॥१-३-३॥

    हसितम् भाषितम् च एव गतिर्यायत् च चेष्टितम् ।
    तत् सर्वम् धर्म वीर्येण यथावत् संप्रपश्यति ॥१-३-४॥

    स्त्री तृतीयेन च तथा यत् प्राप्तम् चरता वने ।
    सत्यसन्धेन रामेण तत्सर्वम् च अन्ववेक्षत ॥१-३-५॥

    ततः पश्यति धर्मात्मा तत् सर्वम् योगमास्थितः ।
    पुरा यत् तत्र निर्वृत्तम् पाणाव आमलकम् यथा ॥१-३-६॥

    तत् सर्वम् तात्त्वतो दृश्ट्वा धर्मेण स महामतिः ।
    अभिरामस्य रामस्य तत् सर्वम् कर्तुम् उद्यतः ॥१-३-७॥

    कामार्थ गुण संयुक्तम् धर्मार्थ गुण विस्तरम् ।
    समुद्रम् इव रत्नाढ्यम् सर्व श्रुति मनोहरम् ॥१-३-८॥

    स यथा कथितम् पूर्वम् नारदेन महात्मना ।
    रघु वंशस्य चरितम् चकार भगवान् मुनिः ॥१-३-९॥

    जन्म रामस्य सुमहद् वीर्यम् सर्वानुकूलताम् ।
    लोकस्य प्रियताम् क्षान्तिम् सौम्यताम् सत्य शीलताम् ॥१-३-१०॥

    नाना चित्र कथाः च अन्याः विश्वामित्र सहायेन ।
    जानक्याः च विवाहम् च धनुषः च विभेदनम् ॥१-३-११॥

    राम राम विवादम् च गुणान् दाशरथेः तथा ।
    तथऽभिषेकम् रामस्य कैकेय्या दुष्ट भावताम् ॥१-३-१२॥

    विघातम् च अभिषेकस्य राघवस्य विवासनम् ।
    राज्ञः शोकम् विलापम् च पर लोकस्य च आश्रयम् ॥१-३-१३॥

    प्रकृतीनाम् विषादम् च प्रकृतीनाम् विसर्जनम् ।
    निषाद अधिप संवादम् सूतोपावर्तनम् तथा ॥१-३-१४॥

    गङ्गायाः च अपि संतारम् भरद्वाजस्य दर्शनम् ।
    भरद्वाज अभ्यनुज्ञात् चित्रकूटस्य दर्शनम् ॥१-३-१५॥

    वास्तु कर्म निवेशम् च भरत अगमनम् तथा ।
    प्रसादनम् च रामस्य पितुः च सलिल क्रियाम् ॥१-३-१६॥

    पादुका अग्र्य अभिषेकम् च नन्दि ग्राम निवासनम् ।
    दण्डकारण्य गमनम् विराधस्य वधम् तथा ॥१-३-१७॥

    दर्शनम् शरभङ्गस्य सुतीक्ष्णेन समागमम् ।
    अनसूया समाख्या च अङ्गराग्स्य च अर्पणम् ॥१-३-१८॥

    दर्शनम् च अपि अगस्त्यस्य धनुषो ग्रहणम् तथा ।
    शूर्पणखाः च संवादम् विरूपकरणम् तथा ॥१-३-१९॥

    वधम् खरः त्रिशिरसः उत्थानम् रावणस्य च ।
    मारीचस्य वधम् च एव वैदेह्या हरणम् तथा ॥१-३-२०॥

    राघवस्य विलापम् च गृध्र राज निबर्हणम् ।
    कबन्ध दर्शनम् च एव पम्पायाः च अपि दर्शनम् ॥१-३-२१॥

    शबरी दर्शनम् च एव फल मूल अशनम् तथा ।
    प्रलापम् च एव पम्पायम् हनुमद् दर्शनम् ॥१-३-२२॥

    ऋष्यमूकस्य गमनम् सुग्रीवेण समागमम् ।
    प्रत्ययोत्पादनम् सख्यम् वालि सुग्रीव विग्रहम् ॥१-३-२३॥

    वालि प्रमथनम् च एव सुगीव प्रतिपादनम् ।
    तारा विलापम् समयम् वर्ष रात्र निवासनम् ॥१-३-२४॥

    कोपम् राघव सिंहस्य बलानाम् उपसंग्रहम् ।
    दिशः प्रस्थापनम् च एव पृथिव्याः च निवेदनम् ॥१-३-२५॥

    अङ्गुलीयक दानम् च ऋक्ष्स्य बिल दर्शनम् ।
    प्रायोपवेशनम् च अपि संपातेः च अपि दर्शनम् ॥१-३-२६॥

    पर्वत आरोहणम् च अपि सागर्स्य अपि लङ्घनम् ।
    समुद्र वचनात् च एव मैनाकस्य च दर्शनम् ॥१-३-२७॥

    राक्षसी तर्जनम् च एव छाया ग्राहस्य दर्शनम् ।
    सिंहिकायाः च निधनम् लङ्का मलय दर्शनम् ॥१-३-२८॥

    रात्रौ लंका प्रवेशम् च एकस्य अपि विचिंतनम् ।
    आपान भूमि गमनम् अवरोधस्य दर्शनम् ॥१-३-२९॥

    दर्शनम् रावणस्य अपि पुष्पकस्य च दर्शनम् ।
    अशोक वनिकायानम् सीतायाः च अपि दर्शनम् ॥१-३-३०॥

    अभिज्ञन प्रदानम् च सीतायाः च अपि भाषणम् ।
    राक्षसी तर्जनम् च एव त्रिजटा स्वप्न दर्शनम् ॥१-३-३१॥

    मणि प्रदानम् सीतायाः वृक्ष भंगम् तथ एव च ।
    राक्षसी विद्रवम् चैव किंकराणाम् निबर्हणम् ॥१-३-३२॥

    ग्रहणम् वायु सूनोश्च लंका दाह अभिगर्जनम् ।
    प्रति प्लवनम् एव अथ मधूनाम् हरणम् तथा ॥१-३-३३॥

    राघव आस्वासनम् चैव मणि निर्यातनम् तथा ।
    संगमम् च समुद्रेण नल सेतोः च बन्धनम् ॥१-३-३४॥

    प्रतारम् च समुद्रस्य रात्रौ लंका अवरोधनम् ।
    विभीषणेन संसर्गम् वधोपाय निवेदनम् ॥१-३-३५॥

    कुम्भकर्णस्य निधनम् मेघनाद निबर्हणम् ।
    रावणस्य विनाशम् च सीतावाप्तिम् अरेः पुरे ॥१-३-३६॥

    विभीषण अभिषेकम् च पुष्पकस्य च दर्शनम् ।
    अयोध्यायाः च गमनम् भरद्वाज समागमम् ॥१-३-३७॥

    प्रेषणम् वायु पुत्रस्य भरतेन समागमम् ।
    राम अभिषेक अभ्युदयम् सर्व सैन्य विसर्जनम् ।
    स्व राष्ट्र रंजनम् च एव वैदेह्याः च विसर्जनम् ॥१-३-३८॥

    अनागतम् च यत् किंचिद् रामस्य वसुधा तले ।
    तत् चकार उत्तरे काव्ये वाल्मीकिः भगवान् ऋषिः ॥१-३-३९॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे तृतीयः सर्गः ॥१-३॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्थः सर्गः ॥१-४॥

    प्राप्त राज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः ।
    चकार चरितम् कृत्स्नम् विचित्र पदम् अर्थवत् ॥१-४-१॥

    चतुर्विंशत् सहस्राणि श्लोकानाम् उक्तवान् ऋषिः ।
    तथा सर्ग शतान् पंच षट् काण्डानि तथा उत्तरम् ॥१-४-२॥

    कृत्वा तु तन् महाप्राज्ञः स भविष्यम् सह उत्तरम् ।
    चिन्तयामास कोन्वेतत् प्रयुंजीयाद् इति प्रभुः ॥१-४-३॥

    तस्य चिन्तयामानस्य महर्षेर् भावितात्मनः ।
    अगृह्णीताम् ततः पादौ मुनि वेषौ कुशी लवौ ॥१-४-४॥

    कुशी लवौ तु धर्मज्ञौ राज पुत्रौ यशश्विनौ ।
    भ्रातरौ स्वर संपन्नौ ददर्श आश्रम वासिनौ ॥१-४-५॥

    स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्टितौ ।
    वेदोपबृंहणार्थाय तौ अग्राहयत प्रभुः ॥१-४-६॥

    काव्यम् रामायणम् कृत्स्नम् सीतायाः चरितम् महत् ।
    पौलस्त्य वधम् इति एवम् चकार चरित व्रतः ॥१-४-७॥

    पाठ्ये गेये च मथुरम् प्रमाणैः त्रिभिर् अन्वितम् ।
    जातिभिः सप्तभिः युक्तम् तन्त्री लय समन्वितम् ॥१-४-८॥

    रसैः शृंगार करुण हास्य रौद्र भयानकैः ।
    विरादिभी रसैर् युक्तम् काव्यम् एतत् अगायताम् ॥१-४-९॥

    तौ तु गान्धर्व तत्त्वज्ञौ स्थान मूर्च्छन कोविदौ ।
    भ्रातरौ स्वर संपन्नौ गन्धर्वाः इव रूपिणौ ॥१-४-१०॥

    रूप लक्षण संपन्नौ मधुर स्वर भाषिणौ ।
    बिंबात् इव उथीतौ बिंबौ राम देहात् तथा अपरौ ॥१-४-११॥

    तौ राज पुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् ।
    वाचो विधेयम् तत् सर्वम् कृत्वा काव्यम् अनिन्दितौ ॥१-४-१२॥

    ऋषीणाम् च द्विजातीनाम् साधूनाम् च समागमे ।
    यथा उपदेशम् तत्त्वज्ञौ जगतुः तौ समाहितौ ॥१-४-१३॥

    महात्मनौ महाभागौ सर्व लक्ष्ण लक्षितौ ।
    तौ कदाचित् समेतानाम् ऋषीणाम् भवित आत्मनाम् ॥१-४-१४॥

    मध्ये सभम् समीपस्थौ इदम् काव्यम् अगायताम् ।
    तत् श्रुत्वा मुनयः सर्वे बाष्प पर्याकुलेक्षणाः ॥१-४-१५॥

    साधु साध्विति ता ऊचुः परम् विस्मयम् आगताः ।
    ते प्रीत मनसः सर्वे मुनयो धर्म वत्सलाः ॥१-४-१६॥

    प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशी लवौ ।
    अहो गीतस्य माधुर्यम् श्लोकानाम् च विशेषतः ॥१-४-१७॥

    चिरनिर्वृत्तम् अपि एतत् प्रत्यक्षम् इव दर्शितम् ।
    प्रविश्य ता उभौ सुष्ठु तथा भावम् अगायताम् ॥१-४-१८॥

    सहितौ मधुरम् रक्तम् संपन्नम् स्वर संपदा ।
    एवम् प्रशस्यमानौ तौ तपः श्लाघ्यैः महर्षिभिः ॥१-४-१९॥

    संरक्ततरम् अत्यर्थम् मधुरम् तौ अगायताम् ।
    प्रीतः कश्चिन् मुनिः ताभ्याम् संस्थितः कलशम् ददौ ॥१-४-२०॥

    प्रसन्नो वल्कलम् कश्चिद् ददौ ताभ्याम् महायशाः ।
    अन्यः कृष्णाजिनम् अदद् यज्ञ सूत्रम् तथा अपरः ॥१-४-२१॥

    कश्चित् कमण्डलुम् प्रदान् मौञ्जीम् अन्यो महामुनिः ।
    ब्रुसीमन्यः तदा प्रादत् कौपीनम् अपरो मुनिः ॥१-४-२२॥

    ताभ्याम् ददौ तदा हृष्टः कुठारम् अपरो मुनिः ।
    काषायम् अपरो वस्त्रम् चीरम् अन्यो ददौ मुनिः ॥१-४-२३॥

    जटाबन्धनम् अन्यः तु काष्ठ रज्जुम् मुदान्वितः ।
    यज्ञ भाण्डम् ऋषिः कश्चित् काष्ठभारम् तथा परः ॥१-४-२४॥

    औदुम्बरीम् ब्रुसीम् अन्यः स्वस्ति केचित् तदा अवदन् ।
    आयुष्यम् अपरे प्राहुर् मुदा तत्र महर्षयः ॥१-४-२५॥

    ददुः च एवम् वरान् सर्वे मुनयः सत्यवादिनः ।
    आश्चर्यम् इदम् आख्यानम् मुनिना संप्रकीर्तितम् ॥१-४-२६॥

    परम् कवीनाम् आधारम् समाप्तम् च यथा क्रमम् ।
    अभिगीतम् इदम् गीतम् सर्व गीतेषु कोविदौ ॥१-४-२७॥

    आयुष्यम् पुष्टि जननम् सर्व श्रुति मनोहरम् ।
    प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥

    रथ्यासु राज मार्गेषु ददर्श भरताग्रजः ।
    स्व वेश्म च आनीय ततो भ्रातरौ स कुशी लवौ ॥१-४-२९॥

    पूजयामास पुज अर्हौ रामः शत्रुनिबर्हणः ।
    आसीनः कांचने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥

    उपोपविष्टैः सचिवैः भ्रातृभिः च समन्वित ।
    दृष्ट्वा तु रूप संपन्नौ विनीतौ भ्रातरौ उभौ ॥१-४-३१॥

    उवाच लक्ष्मणम् रामः शत्रुघ्नम् भरतम् तथा ।
    श्रूयताम् एतद् आख्यानम् अनयोः देव वर्चसोः ॥१-४-३२॥

    विचित्रार्थ पदम् सम्यक् गायकौ समचोदयत् ।
    तौ च अपि मधुरम् रक्तम् स्वचित्तायत निःस्वनम् ॥१-४-३३॥

    तन्त्री लयवत् अत्यर्थम् विश्रुतार्थम् अगायताम् ।
    ह्लादयत् सर्व गात्राणि मनांसि हृदयानि च ।
    श्रोत्राश्रय सुखम् गेयम् तद् बभौ जनसंसदि ॥१-४-३४॥

    इमौ मुनी पार्थिव लक्षणान्वितौ
    कुशी लवौ च एव महातपस्विनौ ।
    ममा अपि तद् भूति करम् प्रचक्षते
    महानुभावम् चरितम् निबोधत ॥१-४-३५॥

    ततः तु तौ राम वचः प्रचोदितौ
    अगायताम् मार्ग विधान संपदा ।
    स च अपि रामः परिषद् गतः शनैर्
    बुभूषय आसक्तमना बभूव ॥१-४-३६॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुर्थः सर्गः ॥१-४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चमः सर्गः ॥१-५॥

    सर्वा पूर्वम् इयम् येषाम् आसीत् कृत्स्ना वसुंधरा ।
    प्रजपतिम् उपादाय नृपाणम् जय शालिनाम् ॥१-५-१॥

    येषाम् स सगरो नाम सागरो येन खानितः ।
    षष्टिः पुत्र सहस्राणि यम् यान्तम् पर्यवारयन् ॥१-५-२॥

    इक्ष्वाकूणाम् इदम् तेषाम् राज्ञाम् वंशे महात्मनाम् ।
    महद् उत्पन्नम् आख्यनम् रामायणम् इति श्रुतम् ॥१-५-३॥

    तदिदम् वर्तयिष्यावः सर्वम् निखिलम् आदितः ।
    धर्म काम अर्थ सहितम् श्रोतव्यम् अनसूयता ॥१-५-४॥

    कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
    निविष्ट सरयू तीरे प्रभूत धन धान्यवान् ॥१-५-५॥

    अयोध्या नाम नगरी तत्र आसीत् लोक विश्रुता ।
    मनुना मानव इन्द्रेण या पुरी निर्मिता स्वयम् ॥१-५-६॥

    आयता दश च द्वे च योजनानि महापुरी ।
    श्रीमती त्रीणि विस्तीर्णा सु विभक्ता महापथा ॥१-५-७॥

    राज मार्गेण महता सुविभक्तेन शोभिता ।
    मुक्ता पुष्प अवकीर्णेन जल सिक्तेन नित्यशः ॥१-५-८॥

    ताम् तु राजा दशरथो महाराष्ट्र विवर्धनः ।
    पुरीम् आवासयामास दिवि देवपतिः यथा ॥१-५-९॥

    कपाट तोरणवर्ती सु विभक्त अन्तरापणाम् ।
    सर्व यंत्र अयुधवतीम् उषिताम् सर्व शिल्पिभिः ॥१-५-१०॥

    सूत मागध संबाधाम् श्रीमतीम् अतुल प्रभाम् ।
    उच्चाट्टाल ध्वजवतीम् शतघ्नी शत संकुलाम् ॥१-५-११॥

    वधू नाटक सन्घैः च संयुक्ताम् सर्वतः पुरीम् ।
    उद्यान आम्र वणोपेताम् महतीम् साल मेखलाम् ॥१-५-१२॥

    दुर्ग गंभीर परिखाम् दुर्गाम् अन्यैः दुरासदम् ।
    वाजीवारण संपूर्णाम् गोभिः उष्ट्रैः खरैः तथा ॥१-५-१३॥

    सामंत राज सन्घैः च बलि कर्मभिः आवृतम् ।
    नाना देश निवासैः च वणिग्भिः उपशोभिताम् ॥१-५-१४॥

    प्रासादै रत्न विकृतैः पर्वतैः इव शोभिताम् ।
    कूटागारैः च संपूर्णाम् इन्द्रस्य इव अमरावतीम् ॥१-५-१५॥

    चित्रम् अष्टापद आकाराम् वर नारी गणैर् युताम् ।
    सर्व रत्न समाकीर्णाम् विमान गृह शोभिताम् ॥१-५-१६॥

    गृह गाढाम् अविच्छिद्राम् सम भूमौ निवेशिताम् ।
    शालि तण्डुल संपूर्णाम् इक्षु काण्ड रसः उदकाम् ॥१-५-१७॥

    दुन्दुभीभिः मृदन्गैः च वीणाभिः पणवैः तथा ।
    नादिताम् भृशम् अत्यर्थम् पृथिव्याम् ताम् अनुत्तमाम् ॥१-५-१८॥

    विमानम् इव सिद्धानाम् तपस अधिगतम् दिवि ।
    सु निवेशित वेश्मान्ताम् नरोत्तम समावृताम् ॥१-५-१९॥

    ये च बाणैः न विध्यन्ति विविक्तम् अपरा परम् ।
    शब्द वेध्यम् च विततम् लघु हस्ता विशारदाः ॥१-५-२०॥

    सिंह व्याघ्र वराहाणाम् मत्तानाम् नदताम् वने ।
    हन्तारो निशितैः शस्त्रैः बलात् बाहु बलैर् अपि ॥१-५-२१॥

    तादृशानाम् सहस्रैः ताम् अभि पूर्णाम् महारथैः ।
    पुरीम् आवसयमास राजा दशरथः तदा ॥१-५-२२॥

    ताम् अग्निमद्भिः गुणवद्भिः आवृताम्द्विजोत्तमैः वेद षडङ्ग पारगैः ।
    सहस्रदैः सत्य रतैः महात्मभिःमहर्षि कल्पैः ऋषिभिः च केवलैः ॥१-५-२३॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चमः सर्गः ॥१-५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥

    तस्याम् पुर्याम् अयोध्यायाम् वेदवित् सर्व संग्रहः ।
    दीर्घदर्शी महातेजाः पौर जानपद प्रियः ॥१-६-१॥

    इक्ष्वाकूणम् अतिरथो यज्वा धर्मपरो वशी ।
    महर्षिकल्पो राजर्षिः त्रिषु लोकेषु विश्रुतः ॥१-६-२॥

    बलवान् निहत अमित्रो मित्रवान् विजित इन्द्रियः ।
    धनैः च संचयैः च अन्यैः शक्र वैश्रवण उपमः ॥१-६-३॥

    यथा मनुर् महातेजा लोकस्य परिरक्षिता ।
    तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥

    तेन सत्याभिसंधेन त्रिवर्गम् अनुष्टिता ।
    पालिता सा पुरी श्रेष्टा इन्द्रेण इव अमरावती ॥१-६-५॥

    तस्मिन् पुरवरे हृष्टा धर्मात्मनो बहुश्रुताः ।
    नराः तुष्ठाः धनैः स्वैः स्वैः अलुब्धाः सत्यवादिनः ॥१-६-६॥

    न अल्प संनिचयः कश्चिद् आसीत् तस्मिन् पुरोत्तमे ।
    कुटुंबी यो हि असिद्धर्थः अगवा अश्व धन धान्यवान् ॥१-६-७॥

    कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
    द्रष्टुम् शक्यम् अयोध्यायाम् न अविद्वान् न च नास्तिकः ॥१-६-८॥

    सर्वे नराः च नार्यः च धर्मशीलाः सु संयताः ।
    मुदिताः शील वृत्ताभ्याम् महर्षय इव अमलाः ॥१-६-९॥

    न अकुण्डली न अमुकुटी न अस्रग्वी न अल्पभोगवान् ।
    न अमृष्टो न अलिप्ताङ्गो न असुगन्धः च विद्यते ॥१-६-१०॥

    न अमृष्ट भोजी न अदाता न अपि अनङ्दनिष्कधृक् ।
    न अहस्ताभरणो वा अपि दृश्यते न अपि अनात्मवान् ॥१-६-११॥

    न अनाहित अग्नीः न अयज्वा न क्षुद्रो वा न तस्करः ।
    कश्चित् असीत् अयोध्यायाम् न च आवृत्तो न संकरः ॥१-६-१२॥

    स्व कर्म निरता नित्यम् ब्राह्मणा विजितेन्द्रियाः ।
    दान अध्यन शीलाः च संयताः च प्रतिग्रहे ॥१-६-१३॥

    नास्तिको न अनृती वा अपि न कश्चित् अबहुश्रुतः ।
    न असूयको न च अशक्तो न अविद्वान् विद्यते क्वचित् ॥१-६-१४॥

    न अषडंग वित् न अस्ति न अव्रतो न असहस्रदः ।
    न दीनः क्षिप्त चित्तओ वा व्यथितो वा अपि कश्चन ॥१-६-१५॥

    कश्चिन् नरो वा नारी वा न अश्रीमान् न अपि अरूपवान् ।
    द्रष्टुम् शक्यम् अयोध्यायाम् न अपि राजन्य अभक्तिमान् ॥१-६-१६॥

    वर्णेषु अग्र्य चतुर्थेषु देवता अतिथि पूजकाः ।
    कृतज्ञाः च वदान्यः च शूरा विक्रम संयुताः ॥१-६-१७॥

    दीर्घ आयुषो नराः सर्वे धर्मम् सत्यम् च संश्रिताः ।
    सहिताः पुत्र पौत्रैः च नित्यम् स्त्रीभिः पुरोत्तमे ॥१-६-१८॥

    क्षत्रम् ब्रह्ममुखम् च आसीत् वैश्याः क्षत्रम् अनुव्रताः ।
    शूद्राः स्व धर्म निरताः त्रीन् वर्णान् उपचारिणः ॥१-६-१९॥

    सा तेन इक्ष्वाकु नाथेन पुरी सु परिरक्षिता ।
    यथा पुरस्तात् मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥

    योधानाम् अग्नि कल्पानाम् पेशलानाम् अमर्षिणाम् ।
    संपूर्णा कृत विद्यानाम् गुहा केसरिणाम् इव ॥१-६-२१॥

    कांभोज विषये जातैः बाह्लिकैः च हय उत्तमैः ।
    वनायुजैः नदीजैः च पूर्णा हरिहय उत्तमैः ॥१-६-२२॥

    विंध्य पर्वतजैः मत्तैः पूर्णा हैमवतैः अपि ।
    मदान्वितैः अतिबलैः मातङ्गैः पर्वतोउपमैः ॥१-६-२३॥

    इरावत कुलीनैः च महापद्म कुलैः तथा ।
    अंजनादपि निष्क्रान्तैः वामनादपि च द्विपैः ॥१-६-२४॥

    भद्रैः मन्द्रैः मृगैः च एव भद्र मन्द्र मृगैः थथा ।
    भद्र मन्द्रैः भद्र मृगैः मृग मन्द्रैः च सा पुरी ॥१-६-२५॥
    नित्य मत्तैः सदा पूर्णा नागैः अचल सन्निभैः ।

    सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।
    यस्याम् दशरथो राजा वसन् जगत् अपालयत् ॥१-६-२६॥

    ताम् पुरीम् स महातेजा राजा दशरथो महान् ।
    शशास शमित अमित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥

    ताम् सत्य नामाम् दृढ तोरण अर्गलाम्गृहैः विचित्रैः उपशोभिताम् शिवाम् ।
    पुरीम् अयोध्याम् नृ सहस्र संकुलाम्शशास वै शक्र समो महीपतिः ॥१-६-२८॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षष्ठः सर्गः ॥१-६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥

    तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।
    मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः ॥१-७-१॥

    अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।
    शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः ॥१-७-२॥

    धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।
    अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित् ॥१-७-३॥

    ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।
    वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे ॥१-७-४॥

    सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।
    मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः ॥१-७-५॥

    एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।
    विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥१-७-६॥

    श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।
    कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः ॥१-७-७॥

    तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।
    क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः ॥१-७-८॥

    तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।
    क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१-७-९॥

    कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।
    प्राप्त कालम् यथा दण्डम् धारयेयुः सुतेषु अपि ॥१-७-१०॥

    कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।
    अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम् ॥१-७-११॥

    वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।
    शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम् ॥१-७-१२॥

    ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।
    सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥

    शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।
    न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित् ॥१-७-१४॥

    कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।
    प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत् ॥१-७-१५॥

    सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।
    हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा ॥१-७-१६॥

    गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।
    विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः ॥१-७-१७॥

    अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।
    सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः ॥१-७-१८॥

    मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
    नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः ॥१-७-१९॥

    ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।
    उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम् ॥१-७-२०॥

    अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।
    प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१-७-२१॥

    विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।
    स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम् ॥१-७-२२॥

    न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।
    मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।
    स शशास जगत् राजा दिवि देव पतिर् यथा ॥१-७-२३॥

    तैः मंत्रिभिः मंत्र हितेः निविष्टैःवृतोऽनुरक्तैः कुशलैः समर्थैः ।
    स पार्थिवो दीप्तिम् अवाप युक्तःतेजोमयैः गोभिः इव उदितः अर्कः ॥१-७-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टमः सर्गः ॥१-८॥

    तस्य च एवम् प्रभावस्य धर्मज्ञस्य महात्मनः ।
    सुतार्थम् तप्य मानस्य न असीत् वंशकरः सुतः ॥१-८-१॥

    चिन्तयानस्य तस्य एवम् बुद्धिः आसीन् महात्मनः ।
    सुतार्थम् वाजिमेधेन किम् अर्थम् न यजामि अहम् ॥१-८-२॥

    स निश्चिताम् मतिम् कृत्वा यष्टव्यम् इति बुद्धिमान् ।
    मंत्रिभिः सह धर्मात्मा सर्वैः अपि कृत आत्मभिः ॥१-८-३॥

    ततोऽब्रवीत् महातेजाः सुमंत्रम् मंत्रि सत्तमम् ।
    शीघ्रम् आनय मे सर्वान् गुरून् तान् स पुरोहितान् ॥१-८-४॥

    ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः ।
    सम् आनयत् स तान् सर्वान् समस्तान् वेद पारगान् ॥१-८-५॥

    सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ।
    पुरोहितम् वशिष्ठम् च ये च अपि अन्ये द्विजोत्तमाः ॥१-८-६॥

    तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा ।
    इदम् धर्म अर्थ सहितम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-८-७॥

    मम लालस्य मानस्य सुतार्थम् नास्ति वै सुखम् ।
    तदर्थम् हयमेधेन यक्ष्ह्यामि इति मतिर् मम ॥१-८-८॥

    तत् अहम् यष्टुम् इच्छमि शास्त्र दृष्टेन कर्मणा ।
    कथम् प्राप्स्यामि अहम् कामम् बुद्धिः अत्र विचिन्त्यताम् ॥१-८-९॥

    ततः साधु इति तद्वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ।
    वशिष्ठ प्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१-८-१०॥

    ऊचुः च परम प्रीताः सर्वे दशरथम् वचः ।
    संभाराः संभ्रियंताम् ते तुरगः च विमुच्यताम् ॥१-८-११॥

    सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ।
    सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतान् च पार्थिव ॥१-८-१२॥

    यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ।
    ततः तुष्टोऽभवत् राजा श्रुत्वा तद् द्विज भाषितम् ॥१-८-१३॥

    अमात्यान् अब्रवीत् राजा हर्ष पर्याकुल लोचन ।
    संभाराः संभ्रियंताम् मे गुरूणाम् वचनात् इह ॥१-८-१४॥

    समर्थ अधिष्ठितः च अश्वः सः उपाध्यायो विमुच्यताम् ।
    सरय्वाः च उत्तरे तीरे यज्ञ भूमिर् विधीयताम् ॥१-८-१५॥

    शान्तयः च अपि वर्धन्ताम् यथा कल्पम् यथा विधि ।
    शक्यः प्राप्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ॥१-८-१६॥

    न अपराथो भवेत् कष्टो यदि अस्मिन् क्रतु सत्तमे ।
    च्छिद्रम् हि मृगयन्ते स्म विद्वांसो ब्रह्म राक्षसाः ॥१-८-१७॥

    विधि हीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।
    तद्यथा विधि पूर्वम् मे क्रतुरेष समाप्यते ॥१-८-१८॥

    तथा विधानम् क्रियताम् समर्थाः साधनेषु इति ।
    तथा इति च अब्रुवन् सर्वे मंत्रिणः प्रतिपूजिता ॥१-८-१९॥

    पार्थिवेन्द्रस्य तद् वाक्यम् यथा पूर्वम् निशम्य ते ।
    तथा द्विजाः ते धर्मज्ञा वर्थयतो नृपोत्तमम् ॥१-८-२०॥

    अनुज्ञाताः ततः सर्वे पुनर् जग्मुर् यथा आगतम् ।
    विसर्जयित्वा तान् विप्रान् सचिवान् इदम् अब्रवीत् ॥१-८-२१॥

    ऋत्विग्भिः उपसंदिष्टो यथावत् क्रतुर् आप्यताम् ।
    इति उक्त्वा नृप शार्दूलः सचिवान् समुपस्थितान् ॥१-८-२२॥

    विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ।
    ततः स गत्वा ताः पत्नीर् नरेन्द्रो हृदयंगमाः ॥१-८-२३॥

    उवाच दीक्षाम् विशत यक्षेऽहम् सुत कारणात् ।
    तासाम् तेन अति कान्तेन वचनेन सुवर्चसाम् ।
    मुख पद्मान् अशोभन्त पद्मानीव हिमात्यये ॥१-८-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टमः सर्गः ॥१-८॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे नवमः सर्गः ॥१-९॥


    एतत् श्रुत्वा रहः सूतो राजानम् इदम् अब्रवीत् ।
    श्रूयताम् तत् पुरा वृत्तम् पुराणे च मया श्रुतम् ॥१-९-१॥

    ऋत्विग्भिः उपदिष्टोऽयम् पुरा वृत्तो मया श्रुतः ।
    सनत्कुमारो भगवान् पूर्वम् कथितवान् कथाम् ॥१-९-२॥

    ऋषीणाम् सन्निधौ राजन् तव पुत्राअगमम् प्रति ।
    काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥

    ऋष्यशृङ्ग इति ख्यातः तस्य पुत्रो भविष्यति ।
    स वने नित्य संवृद्धो मुनिर् वनचरः सदा ॥१-९-४॥

    न अन्यम् जानाति विप्रेन्द्रो नित्यम् पित्र अनुवर्तनात् ।
    द्वैविध्यम् ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥

    लोकेषु प्रथितम् राजन् विप्रैः च कथितम् सदा ।
    तस्य एवम् वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥

    अग्निम् शुश्रूषमाणस्य पितरम् च यशस्विनम् ।
    एतस्मिन् एव काले तु रोमपादः प्रतापवान् ॥१-९-७॥

    आङ्गेषु प्रथितो राजा भविष्यति महाबलः ।
    तस्य व्यतिक्रमात् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥

    अनावृष्टिः सुघोरा वै सर्वलोक भयाअवहा ।
    अनावृष्ट्याम् तु वृत्तायाम् राजा दुःख समन्वितः ॥१-९-९॥

    ब्राह्मणान् श्रुत संवृद्धान् च समानीय प्रवक्ष्यति ।
    भवन्तः श्रुत कर्माणो लोक चारित्र वेदिनः ॥१-९-१०॥

    समादिशन्तु नियमम् प्रायश्चित्तम् यथा भवेत् ।
    इति उक्ताः ते ततो राज्ञा सर्वे ब्राह्मण सत्तमाः ॥१-९-११॥

    वक्ष्यन्ति ते महीपालम् ब्राह्मणा वेद पारगाः ।
    विभाण्डक सुतम् राजन् सर्व उपायैः इह आनय ॥१-९-१२॥

    आनाय्य तु महीपाल ऋश्यशृङ्गम् सुसत्कृतम् ।
    विभाण्डक सुतम् राजन् ब्राह्मणम् वेद पारगम् ।
    प्रयच्छ कन्याम् शान्ताम् वै विधिना सुसमाहितः॥१-९-१३॥

    तेषाम् तु वचनम् श्रुत्वा राजा चिन्ताम् प्रपत्स्यते ।
    केन उपायेन वै शक्यम् इह आनेतुम् स वीर्यवान् ॥१-९-१४॥

    ततो राजा विनिश्चित्य सह मंत्रिभिः आत्मवान् ।
    पुरोहितम् अमात्याम् च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥

    ते तु राज्ञो वचः श्रुत्वा व्यथिता विनत आननाः ।
    न गच्छेम ऋषेः भीता अनुनेष्यन्ति तम् नृपम् ॥१-९-१६॥

    वक्ष्ष्यन्ति चिंतयित्वा ते तस्य उपायाम् च तान् क्षमान् ।
    आनेष्यामो वयम् विप्रम् न च दोषो भविष्यति ॥१-९-१७॥

    एवम् अङ्गाधिपेन एव गणिकाभिः ऋषेः सुतः ।
    आनीतोऽवर्षयत् देव शान्ता च अस्मै प्रदीयते ॥१-९-१८॥

    ऋष्यशृङ्गः तु जामाता पुत्रान् तव विधास्यति ।
    सनत्कुमार कथितम् एतावत् व्याहृतम् मया ॥१-९-१९॥

    अथ हृष्टो दशरथः सुमंत्रम् प्रत्यभाषत ।
    यथा ऋष्यशृङ्गः तु आनीतो येन उपायेन स उच्चताम् ॥१-९-२०॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे नवमः सर्गः ॥१-९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥

    सुमंत्रः चोदितो राज्ञा प्रोवाच इदम् वचः तदा ।
    यथा ऋष्यशृङ्गः तु आनीतो येन उपायेन मंत्रिभिःतन्मे निगदितम् सर्वम् शृणु मे मंत्रिभिः सह ॥१-१०-१॥

    रोमपादम् उवाच इदम् सह अमात्यः पुरोहितः ।
    उपायो निरपायो अयम् अस्माभिः अभिचिन्तितः ॥१-१०-२॥

    ऋष्यशृङ्गो वनचरः तपः स्वाध्याय संयुतः ।
    अनभिज्ञः तु नारीणाम् विषयाणाम् सुखस्य च ॥१-१०-३॥

    इन्द्रियार्थैः अभिमतैः नरचित्त प्रमाथिभि ।
    पुरम् आनाययिष्यामः क्षिप्रम् च अध्यवसीयताम् ॥१-१०-४॥

    गणिकाः तत्र गच्छन्तु रूपवत्यः स्वलंकृताः ।
    प्रलोभ्य विविध उपायैः आनेष्यन्ति इह सत्कृताः ॥१-१०-५॥

    श्रुत्वा तथा इति राजा च प्रत्युवाच पुरोहितम् ।
    पुरोहितो मंत्रिणः च तथा चक्रुः च ते तथा ॥१-१०-६॥

    वारमुख्याः तु तत् श्रुत्वा वनम् प्रविविशुः महत् ।
    आश्रमस्य अविदूरे अस्मिन् यत्नम् कुर्वन्ति दर्शने ॥१-१०-७॥

    ऋषेः पुत्रस्य धीरस्य नित्यम् आश्रम वासिनः ।
    पितुः स नित्य संतुष्टो न अतिचक्राम च आश्रमात् ॥१-१०-८॥

    न तेन जन्म प्रभृति दृष्ट पूर्वम् तपस्विना ।
    स्त्री वा पुमान् वा यच्च अन्यत् सत्त्वम् नगर राष्ट्रजम् ॥१-१०-९॥

    ततः कदाचित् तम् देशम् आजगाम यदृच्छया ।
    विभाण्डक सुतः तत्र ताः च अपश्यत् वरांगनाः ॥१-१०-१०॥

    ताः चित्र वेषाः प्रमदा गायंत्यो मधुर स्वरम् ।
    ऋषि पुत्रम् उपागम्य सर्वा वचनम् अब्रुवन् ॥१-१०-११॥

    कः त्वम् किम् वर्तसे ब्रह्मन् ज्ञातुम् इच्छामहे वयम् ।
    एकः त्वम् विजने दूरे वने चरसि शंस नः ॥१-१०-१२॥

    अदृष्ट रूपाः ताः तेन काम्य रूपा वने स्त्रियः ।
    हार्दात् तस्य मतिः जाता अख्यातुम् पितरम् स्वकम् ॥१-१०-१३॥

    पिता विभाण्डको अस्माकम् तस्य अहम् सुत औरसः ।
    ऋष्यशृङ्ग इति ख्यातम् नाम कर्म च मे भुवि ॥१-१०-१४॥

    इह आश्रम पदोऽस्माकम् समीपे शुभ दर्शनाः ।
    करिष्ये वोऽत्र पूजाम् वै सर्वेषाम् विधि पूर्वकम् ॥१-१०-१५॥

    ऋषि पुत्र वचः श्रुत्वा सर्वासाम् मतिरास वै ।
    तत् आश्रम पदम् द्रष्टुम् जग्मुः सर्वाः ततो अंगनः ॥१-१०-१६॥

    गतानाम् तु ततः पूजाम् ऋषि पुत्रः चकार ह ।
    इदम् अर्घ्यम् इदम् पाद्यम् इदम् मूलम् फलम् च नः ॥१-१०-१७॥

    प्रतिगृह्य तु ताम् पूजाम् सर्वा एव समुत्सुकाः ।
    ऋषेर् भीताः च शीघ्रम् तु गमनाय मतिम् दधुः ॥१-१०-१८॥

    अस्माकम् अपि मुख्यानि फलानि इमानि हे द्विज ।
    गृहाण विप्र भद्रम् ते भक्षयस्व च मा अचिरम् ॥१-१०-१९॥

    ततः ताः तम् समालिंग्य सर्वा हर्ष समन्विताः ।
    मोदकान् प्रददुः तस्मै भक्ष्याम् च विविधान् शुभान् ॥१-१०-२०॥

    तानि च आस्वाद्य तेजस्वी फलानि इति स्म मन्यते ।
    अनास्वादित पूर्वाणि वने नित्य निवासिनाम् ॥१-१०-२१॥

    आपृच्छ्य च तदा विप्रम् व्रत चर्याम् निवेद्य च ।
    गच्छन्ति स्म अपदेशात् ता भीताः तस्य पितुः स्त्रियः ॥१-१०-२२॥

    गतासु तासु सर्वासु काश्यपस्य आत्मजो द्विजः ।
    अस्वस्थ हृदयः च आसीत् दुःखात् च परिवर्तते ॥१-१०-२३॥

    ततोऽपरे द्युः तम् देशम् आजगाम स वीर्यवान् ।
    विभाण्डक सुतः श्रीमान् मनसा विचिन्तयन् मुहुः ॥१-१०-२४॥

    मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः ।
    दृष्ट्वा एव च ततो विप्रम् आयान्तम् हृष्ट मानसाः ॥१-१०-२५॥

    उपसृत्य ततः सर्वाः ताः तम् ऊचुर् इदम् वचः ।
    एहि आश्रम पदम् सौम्य अस्माकम् इति च अब्रुवन् ॥१-१०-२६॥

    चित्राणि अत्र बहूनि स्युः मूलानि च फलनि च ।
    तत्र अपि एष विशेषेण विधिः हि भविता ध्रुवम् ॥१-१०-२७॥

    श्रुत्वा तु वचनम् तासाम् सर्वासाम् हृदयम् गमम् ।
    गमनाय मतिम् चक्रे तम् च निन्युः तथा स्त्रियः ॥१-१०-२८॥

    तत्र च आनीयमाने तु विप्रे तस्मिन् महात्मनि ।
    ववर्ष सहसा देवो जगत् प्रह्लादयन् तदा ॥१-१०-२९॥

    वर्षेण एव आगतम् विप्रम् तापसम् स नराधिपः ।
    प्रति उद्गम्य मुनिम् प्रह्वः शिरसा च महीम् गतः ॥१-१०-३०॥

    अर्घ्यम् च प्रददौ तस्मै न्यायतः सुसमाहितः ।
    वव्रे प्रसादम् विप्रेइन्द्रात् मा विप्रम् मन्युः आविशेत् ॥१-१०-३१॥

    अन्तःपुरम् प्रवेश्य अस्मै कन्याम् दत्त्वा यथाविधि ।
    शांताम् शान्तेन मनसा राजा हर्षम् अवाप सः ॥१-१०-३२॥

    एवम् स न्यवसत् तत्र सर्व कामैः सुपूजितः ।
    ऋष्यश्ङ्गो महातेजा शन्ताया सह भार्यया ॥१-१०-३३॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकादशः सर्गः ॥१-११॥

    भूय एव हि राजेन्द्र शृणु मे वचनम् हितम् ।
    यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥

    इक्ष्वाकूणाम् कुले जातो भविष्यति सुधार्मिकः ।
    नाम्ना दशरथो राजा श्रीमान् सत्य प्रतिश्रवः ॥१-११-२॥

    अङ्ग राजेन सख्यम् च तस्य राज्ञो भविष्यति ।
    कन्या च अस्य महाभागा शांता नाम भविष्यति ॥१-११-३॥

    पुत्रस्तुः अङ्गस्य राज्ञः तु रोमपाद इति श्रुतः ।
    तम् स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥

    अनपत्योऽस्मि धर्मात्मन् शांता भर्ता मम क्रतुम् ।
    आहरेत त्वया आज्ञप्तः संतानार्थम् कुलस्य च ॥१-११-५॥

    श्रुत्वा राज्ञोऽथ तत् वाक्यम् मनसा स विचिंत्य च ।
    प्रदास्यते पुत्रवन्तम् शांता भर्तारम् आत्मवान् ॥१-११-६॥

    प्रतिगृह्यम् च तम् विप्रम् स राजा विगत ज्वरः ।
    आहरिष्यति तम् यज्ञम् प्रहृष्टेन अंतरात्मना ॥१-११-७॥

    तम् च राजा दशरथो यशस् कामः कृतांलिः ।
    ऋष्यशृङ्गम् द्विज श्रेष्ठम् वरयिष्यति धर्मवित् ॥१-११-८॥

    यज्ञार्थम् प्रसवार्थम् च स्वर्गार्थम् च नरेश्वरः ।
    लभते च स तम् कामम् द्विज मुख्यात् विशांपतिः ॥१-११-९॥

    पुत्राः च अस्य भविष्यन्ति चत्वारो अमित विक्रमाः ।
    वंश प्रतिष्ठानकराः सर्व भूतेषु विश्रुताः ॥१-११-१०॥

    एवम् स देव प्रवरः पूर्वम् कथितवान् कथाम् ।
    सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥

    स त्वम् पुरुष शार्दूल समानय सुसत्कृतम् ।
    स्वयम् एव महाराज गत्वा स बल वाहनः ॥१-११-१२॥

    सुमंत्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।
    अनुमान्य वसिष्ठम् च सूतवाक्यम् निशाम्य च ॥१-११-१३॥

    स अन्तःपुरः सह अमात्यः प्रययौ यत्र स द्विजः ।
    वनानि सरितः च एव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥

    अभिचक्राम तम् देशम् यत्र वै मुनिपुंगवः ।
    आसाद्य तम् द्विज श्रेष्ठम् रोमपाद समीपगम् ॥१-११-१५॥

    ऋषिपुत्रम् ददर्श अथो दीप्यमानम् इव अनलम् ।
    ततो राजा यथा योग्यम् पूजाम् चक्रे विशेषतः ॥१-११-१६॥

    सखित्वात् तस्य वै राज्ञः प्रहृष्टेन अंतरात्मना ।
    रोमपादेन च आख्यातम् ऋषिपुत्राय धीमते ॥१-११-१७॥

    सख्यम् संबन्धकम् चैव तदा तम् प्रत्यपूजयत् ।
    एवम् सुसत्कृतः तेन सहोषित्वा नरर्षभः ॥१-११-१८॥

    सप्ताष्ट दिवसान् राजा राजानम् इदम् अब्रवीत् ।
    शांता तव सुता राजन् सह भर्त्रा विशाम् पते ॥१-११-१९॥

    मदीयम् नगरम् यातु कार्यम् हि महदुद्यतम् ।
    तथा इति राजा संश्रुत्य गमनम् तस्य धीमतः ॥१-११-२०॥

    उवाच वचनम् विप्रम् गच्छ त्वम् सह भार्यया ।
    ऋषिपुत्रः प्रतिश्रुत्य तथा इति आहः नृपम् तदा ॥१-११-२१॥

    स नृपेण अभ्यनुज्ञातः प्रययौ सह भार्यया ।
    ताव अन्योन्य अंजलिम् कृत्वा स्नेहात् संश्लिष्य च उरसा ॥१-११-२२॥

    ननंदतुः दशरथो रोमपादः च वीर्यवान् ।
    ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥

    पौरेषु प्रेषयामास दूतान् वै शीघ्र गामिनः ।
    क्रियताम् नगरम् सर्वम् क्षिप्रम् एव स्वलंकृतम् ॥१-११-२४॥

    धूपितम् सिक्त सम्मृष्टम् पताकाभिः अलंकृतम् ।
    ततः प्रहृष्टाः पौराः ते श्रुत्वा राजानम् आगतम् ॥१-११-२५॥

    तथा चक्रुः च तत् सर्वम् राज्ञा यत् प्रेषितम् तदा ।
    ततः स्वलंकृतम् राजा नगरम् प्रविवेश ह ॥१-११-२६॥

    शङ्ख दुन्दुभि निह्रार्दैः पुरस्कृत्वा द्विजर्षभम् ।
    ततः प्रमुदिताः सर्वे दृष्ट्वा तम् नागरा द्विजम् ॥१-११-२७॥

    प्रवेश्यमानम् सत्कृत्य नरेन्द्रेण इन्द्र कर्मणा ।
    यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥

    अन्तःपुरम् प्रवेश्य एनम् पूजाम् कृत्वा च शास्त्रतः ।
    कृतकृत्यम् तदा आत्मानम् मेने तस्य उपवाहनात् ॥१-११-२९॥

    अन्तःपुराणि सर्वाणि शांताम् दृष्ट्वा तथा आगताम् ।
    सह भर्त्रा विशालाक्षीम् प्रीत्या आनंदम् उपागमन् ॥१-११-३०॥

    पूज्यमाना तु ताभिः सा राज्ञा च एव विशेषतः ।
    उवास तत्र सुखिता कन्चित् कालम् सह द्विजा ॥१-११-३१॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकादशः सर्गः ॥१-११॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वादशः सर्गः ॥१-१२॥

    ततः काले बहु तिथे कस्मिन् चित् सुमनोहरे ।
    वसन्ते समनुप्राप्ते राज्ञो यष्टुम् मनोऽभवत् ॥१-१२-१॥

    ततः प्रणम्य शिरसा तम् विप्रम् देव वर्णिनम् ।
    यज्ञाय वरयामास संतानार्थम् कुलस्य च ॥१-१२-२॥

    तथेइति च स राजानम् उवाच वसुधाधिपम् ।
    संभाराः संभ्रियन्ताम् ते तुरगश्च विमुच्यताम् ॥१-१२-३॥

    सरव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ।
    ततो अब्रवीत् नृपः वाक्यम् ब्राह्मणान् वेद पारगान् ॥१-१२-४॥

    सुमंत्र आवाहय क्ष्षिप्रम् ऋत्विजो ब्रह्म वादिनः ।
    सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ॥१-१२-५॥

    पुरोहितम् वसिष्ठम् च ये च अन्ये द्विज सत्तमाः ।
    ततः सुमंत्रः त्वरितम् गत्वा त्वरित विक्रमः ॥१-१२-६॥

    समानयत् स तान् सर्वान् समस्तान् वेद पारगान् ।
    तान् पूजयित्वा धर्मात्मा राजा दशरथः तदा ॥१-१२-७॥

    धर्मार्थ सहितम् युक्तम् श्लक्ष्णम् वचनम् अब्रवीत् ।
    मम तातप्य मानस्य पुत्रार्थम् नास्ति वै सुखम् ॥१-१२-८॥

    पुत्रार्थम् हयमेधेन यक्षयामि इति मतिर्मम ।
    तदहम् यष्टुम् इच्छामि हयमेधेन कर्मणा ॥१-१२-९॥

    ऋषिपुत्र प्रभावेण कामान् प्राप्स्यामि च अपि अहम् ।
    ततः साधु इति तद् वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥

    वसिष्ठ प्रमुखाः सर्वे पार्थिवस्य मुखात् च्युतम् ।
    ऋष्यशृङ्ग पुरोगाः च प्रति ऊचुः नृपतिम् तदा ॥१-१२-११॥

    संभाराः संभ्रियम्ताम् ते तुरगः च विमुच्यताम् ।
    सरव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ॥१-१२-१२॥

    सर्वथा प्राप्यसे पुत्राम् चतुरो अमित विक्रमान् ।
    यस्य ते धर्मिकी बुद्धिः इयम् पुत्रार्थम् आगता ॥१-१२-१३॥

    ततः प्रीतोऽभवत् राजा श्रुत्वा तु द्विज भाषितम् ।
    अमात्यान् अब्रवीत् राजा हर्षेण इदम् शुभ अक्षरम् ॥१-१२-१४॥

    गुरूणाम् वचनात् शीघ्रम् संभाराः संभ्रियन्तु मे ।
    समर्थ अधिष्टितः च अश्वः सः उपाध्यायो विमुच्यताम् ॥१-१२-१५॥

    सरयव्याः च उत्तरे तीरे यज्ञ भूमिः विधीयताम् ।
    शांतयः च अभिवर्थन्ताम् यथा कल्पम् यथा विधि ॥१-१२-१६॥

    शक्यः कर्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता ।
    न अपराथो भवेत् कष्टो यद्य अस्मिन् क्रतु सत्तमे ॥१-१२-१७॥

    छिद्रम् हि मृगयन्त एते विद्वान्सो ब्रह्म राक्षसाः ।
    विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥

    तद् यथा विधि पूर्वम् क्रतुः एष समाप्यते ।
    तथा विधानम् क्रियताम् समर्थाः करणेषु इह ॥१-१२-१९॥

    तथा इति च ततः सर्वे मंत्रिणः प्रत्यपूजयन् ।
    पार्थिव इन्द्रस्य तत् वाक्यम् यथा आज्ञप्तम् अकुर्वत ॥१-१२-२०॥

    ततो द्विजाः ते धर्मज्ञम् अस्तुवन् पार्थिवर्षभम् ।
    अनुज्ञाताः ततः सर्वे पुनः जग्मुः यथा आगतम् ॥१-१२-२१॥

    गतेषु तेषु विप्रेषु मंत्रिणः तान् नराधिपः ।
    विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ॥१-१२-२२॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्वादशः सर्गः ॥१-१२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥

    पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
    प्रसवार्थम् गतो यष्टुम् हयमेधेन वीर्यवान् ॥१-१३-१॥

    अभिवाद्य वसिष्ठम् च न्यायतः प्रतिपूज्य च ।
    अब्रवीत् प्रश्रितम् वाक्यम् प्रसवार्थम् द्विजोत्तमम् ॥१-१३-२॥

    यज्ञो मे क्रियताम् ब्रह्मन् यथोक्तम् मुनिपुङ्गव ।
    यथा न विघ्नाः क्रियन्ते यज्ञांगेषु विधीयताम् ॥१-१३-३॥

    भवान् स्निग्धः सुहृन् मह्यम् गुरुः च परमो महान् ।
    वोढव्यो भवता च एव भारो यज्ञस्य च उद्यतः ॥१-१३-४॥

    तथा इति च स राजानम् अब्रवीत् द्विजसत्तमः ।
    करिष्ये सर्वम् एव एतत् भवता यत् समर्थितम् ॥१-१३-५॥

    ततोऽब्रवीत् द्विजान् वृद्धान् यज्ञ कर्मसु निष्ठितान् ।
    स्थापत्ये निष्ठिताम् च एव वृद्धान् परम धार्मिकान् ॥१-१३-६॥

    कर्म अन्तिकान् शिल्पकारान् वर्धकीन् खनकान् अपि ।
    गणकान् शिल्पिनः च एव तथा एव नट नर्तकान् ॥१-१३-७॥

    तथा शुचीन् शास्त्र विदः पुरुषान् सु बहु श्रुतान् ।
    यज्ञ कर्म समीहन्ताम् भवन्तो राज शासनात् ॥१-१३-८॥

    इष्टका बहु साहस्री शीघ्रम् आनीयताम् इति ।
    उपकार्याः क्रियन्ताम् च राज्ञो बहु गुणान्विताः ॥१-१३-९॥

    ब्राह्मण आवसथाः चैव कर्तव्याः शतशः शुभाः ।
    भक्ष्य अन्न पानैः बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥

    तथा पौर जनस्य अपि कर्तव्याः च सुविस्तराः ।
    आगतानाम् सुदूरात् च पार्थिवानाम् पृथक् पृथक् ॥१-१३-११॥

    वाजिवारण शलाः च तथा शय्या गृहाणि च ।
    भटानाम् महदावासम् वैदेशिक निवासिनाम् ॥१-१३-१२॥

    आवासा बहु भक्ष्या वै सर्व कामैः उपस्थिताः ।
    तथा पौरजन्स्य अपि जनस्य बहु शोभनम् ॥१-१३-१३॥

    दातव्यम् अन्नम् विधिवत् सत्कृत्य न तु लीलया ।
    सर्वे वर्णा यथा पूजाम् प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥

    न च अवज्ञा प्रयोक्तव्या काम क्रोध वशात् अपि ।
    यज्ञ कर्मसु ये व्यग्राः पुरुषाः शिल्पिनः तथा ॥१-१३-१५॥

    तेषाम् अपि विशेषेण पूजा कार्या यथा क्रमम् ।
    ये स्युः संपूजिता सर्वे वसुभिः भोजनेन च ॥१-१३-१६॥

    यथा सर्वम् सुविहितम् न किंचित् परिहीयते ।
    तथा भवन्तः कुर्वन्तु प्रीति युक्तेन चेतसा ॥१-१३-१७॥

    ततः सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् ।
    यथेष्टम् तत् सुविहितम् न किंचित् परिहीयते ॥१-१३-१८॥

    यथोक्तम् तत् करिष्यामो न किंचित् परिहीयते ।
    ततः सुमंत्रम् आहूय वसिष्ठो वाक्यम् अब्रवीत् ॥१-१३-१९॥

    निमंत्रयस्व नृपतीन् पृथिव्याम् ये च धार्मिकाः ।
    ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्राम् च एव सहस्रशः ॥१-१३-२०॥

    समानयस्व सत्कृत्य सर्व देशेषु मानवान् ।
    मिथिलाधिपतिम् शूरम् जनकम् सत्य वादिनम् ॥१-१३-२१॥

    तम् आनय महाभागम् स्वयम् एव सुसत्कृतम् ।
    पूर्व संबन्धिनम् ज्ञात्वा ततः पूर्वम् ब्रवीमि ते ॥१-१३-२२॥

    तथा काशी पतिम् स्निग्धम् सततम् प्रिय वादिनम् ।
    सद् वृत्तम् देवसंकाशम् स्वयम् एव अनयस्व ह ॥१-१३-२३॥

    तथा केकय राजानम् वृद्धम् परम धार्मिकम् ।
    श्वशुरम् राज सिंहस्य सपुत्रम् त्वम् इह आनय ॥१-१३-२४॥

    अङ्गेश्वरम् महेष्वासम् रोमपादम् सु सत्कृतम् ।
    वयस्यम् राज सिंहस्य सपुत्रम् तम् इह आनय ॥१-१३-२५॥

    तथा कोसल राजानम् भानुमंतम् सुसत्कृतम् ।
    मगध अधिपतिम् शूरम् सर्व शास्त्र विशारदम् ॥१-१३-२६॥

    प्राप्तिज्ञम् परमोदारम् सुसत्कृतम् पुरुषर्षभम् ।
    राज्ञः शासनम् आदाय चोदयस्व नृपर्षभान् ।
    प्राचीनान् सिन्धु सौवीरान् सौराष्ठ्रेयाम् च पार्थिवान् ॥१-१३-२७॥

    दाक्षिणात्यान् नरेन्द्राम् च समस्तान् आनयस्व ह ।
    सन्ति स्निग्धाः च ये च अन्ये राजानः पृथिवी तले ॥१-१३-२८॥

    तान् आनय यथा क्षिप्रम् स अनुगान् सह बान्धवान् ।
    एतान् दूतैः महाभागैः आनयस्व नृप आज्ञ्या ॥१-१३-२९॥

    वसिष्ठ वाक्यम् तत् श्रुत्वा सुमंत्रः त्वरितः तदा ।
    व्यादिशत् पुरुषान् तत्र राज्ञाम् आनयने शुभान् ॥१-१३-३०॥

    स्वयम् एव हि धर्मात्मा प्रयातो मुनि शासनात् ।
    सुमंत्रः त्वरितो भूत्वा समानेतुम् महामतिः ॥१-१३-३१॥

    ते च कर्मान्तिकाः सर्वे वसिष्ठाय च महर्षये ।
    सर्वम् निवेदयन्ति स्म यज्ञे यत् उपकल्पितम् ॥१-१३-३२॥

    ततः प्रीतो द्विज श्रेष्ठः तान् सर्वान् मुनिर् अब्रवीत् ।
    अवज्ञया न दातव्यम् कस्य चित् लीलया अपि वा ॥१-१३-३३॥

    अवज्ञया कृतम् हन्यात् दातारम् न अत्र संशयः ।
    ततः कैश्चित् अहो रात्रैः उपयाता महीक्षितः ॥१-१३-३४॥

    बहूनि रत्नानि आदाय राज्ञो दशरथस्य ह ।
    ततो वसिष्ठः सुप्रीतो राजानम् इदम् अब्रवीत् ॥१-१३-३५॥

    उपयाता नर व्याघ्र राजानः तव शासनात् ।
    मया अपि सत्कृताः सर्वे यथा अर्हम् राज सत्तम ॥१-१३-३६॥

    यज्ञीयम् च कृतम् सर्वम् पुरुषैः सुसमाहितैः ।
    निर्यातु च भवान् यष्टुम् यज्ञ आयतनम् अन्तिकात् ॥१-१३-३७॥

    सर्वकामैः उपहृतैः उपेतम् वै समन्ततः ।
    द्रष्टुम् अर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥

    तथा वसिष्ठ वचनात् ऋष्यशृन्गस्य च उभयोः ।
    दिवसे शुभ नक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥

    ततो वसिष्ठ प्रमुखाः सर्व एव द्विजोत्तमाः ।
    ऋष्यशृन्गम् पुरस्कृत्य यज्ञ कर्म आरभन् तदा ॥१-१३-४०॥

    यज्ञ वाटम् गताः सर्वे यथा शास्त्रम् यथा विधि ।
    श्रीमान् च सह पत्नीभी राजा दीक्षाम् उपाविशत् ॥१-१३-४१॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥

    अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरंगमे ।
    सरय्वाः च उत्तरे तीरे राज्ञो यज्ञो अभ्यवर्तत ॥१-१४-१॥

    ऋष्यशृंगम् पुरस्कृत्य कर्म चक्रुः द्विजर्षभाः ।
    अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥

    कर्म कुर्वंति विधिवत् याजका वेदपारगाः ।
    यथा विधि यथा न्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥

    प्रवर्ग्यम् शास्त्रतः कृत्वा तथा एव उपसदम् द्विजाः ।
    चक्रुः च विधिवत् सर्वम् अधिकम् कर्म शास्त्रतः ॥१-१४-४॥

    अभिपूज्य तदा हृष्टाः सर्वे चक्रुः यथा विधि ।
    प्रातः सवन पूर्वाणि कर्माणि मुनिपुंगवाः ॥१-१४-५॥

    ऐन्द्रश्च विधिवत् दत्तो राजा च अभिषुतोऽनघः ।
    मध्यंदिनम् च सवनम् प्रावर्तत यथा क्रमम् ॥१-१४-६॥

    तृतीय सवनम् चैव राज्ञोऽस्य सुमहात्मनः ।
    चक्रुः ते शाश्त्रतो दृष्ट्वा तथा ब्राह्मण पुंगवाः ॥१-१४-७॥

    आह्वान् चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।
    ऋष्यशृङ्गाअदौ मन्त्रैः शिक्षाक्षर समन्वितौ ॥१-१४-८॥

    गीतिभिः मधुरैः स्निग्धैः मन्त्र आह्वानैः यथार्हतः ।
    होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥

    न च अहुतं आभूत् तत्र स्खलितम् वा न किंचन ।
    दृश्यते ब्रह्मवत् सर्वम् क्षेमयुक्तम् हि चक्रिरे ॥१-१४-१०॥

    न तेषु अहस्सु श्रान्तो वा क्षुधितो वा न दृश्यते ।
    न अविद्वान् ब्राह्मणः कश्चिन् न अशत अनुचरः तथा ॥१-१४-११॥

    ब्राह्मणा भुंजते नित्यम् नाथवन्तः च भुंजते ।
    तापसा भुंजते च अपि श्रमणाः चैव भुंजते ॥१-१४-१२॥

    वृद्धाः च व्याधिताः च एव स्त्री बालाः तथा एव च ।
    अनिशं भुंजमानानां न तृप्तिः उपलभ्यते ॥१-१४-१३॥

    दीयताम् दीयताम् अन्नम् वासांसि विविधानि च ।
    इति संचोदिताः तत्र तथा चक्रुः अनेकशः ॥१-१४-१४॥

    अन्न कूटाः च दृश्यन्ते बहवः पर्वत उपमाः ।
    दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥

    नाना देशात् अनुप्राप्ताः पुरुषाः स्त्री गणाः तथा ।
    अन्न पानैः सुविहिताः तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥

    अन्नम् हि विधिवत् स्वादु प्रशन्सन्ति द्विजर्षभाः ।
    अहो तृप्ताः स्म भद्रम् ते इति शुश्राव राघवः ॥१-१४-१७॥

    स्वलंकृताः च पुरुषा ब्राह्मणान् पर्यवेषयन् ।
    उपासन्ते च तान् अन्ये सुमृष्ट मणि कुण्डलाः ॥१-१४-१८॥

    कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।
    प्राहुः सुवाग्मिनो धीराः परस्पर जिगीषया ॥१-१४-१९॥

    दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।
    सर्व कर्माणि चक्रुः ते यथा शास्त्रं प्रचोदिताः ॥१-१४-२०॥

    न अषडङ्ग वित् अत्र आसीत् न अव्रतो न अबहुश्रुतः ।
    सदस्यः तस्य वै राज्ञो न अवाद कुशला द्विजाः ॥१-१४-२१॥

    प्राप्ते यूपः उच्छ्रये तस्मिन् षड् बैल्वाः खादिराः तथा ।
    तावन्तो बिल्व सहिताः पर्णिनः च तथा अपरे ॥१-१४-२२॥

    श्लेष्मातकमयः दिष्टो देवदारुमयः तथा ।
    द्वावेव तत्र विहितौ बाहु व्यस्त परिग्रहौ ॥१-१४-२३॥

    कारिताः सर्व एवैते शास्त्रज्ञैः यज्ञकोविदैः ।
    शोभाअर्थम् तस्य यज्ञस्य कांचन अलंकृत अभवन् ॥१-१४-२४॥

    एक विंशति यूपाः ते एक विंशत् अरत्नयः ।
    वासोभिः एक विंशद्भिः एकैकम् समलंकृताः ॥१-१४-२५॥

    विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।
    अष्ट आस्रयः सर्व एव श्लक्ष्ण रूप समन्विताः ॥१-१४-२६॥

    आच्छादिताः ते वासोभिः पुष्पैः गन्धैः च पूजिताः ।
    सप्त ऋषयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥

    इष्टकाः च यथा न्यायम् कारिताः च प्रमाणतः ।
    चितोऽग्निः ब्राह्मणैः तत्र कुशलैः शिप्लकर्मणि ॥१-१४-२८॥

    सचित्यो राज सिंहस्य संचितः कुशलैः द्विजैः ।
    गरुडो रुक्मपक्षो वै त्रिगुणो अष्टा दशात्मकः ॥१-१४-२९॥

    नियुक्ताः तत्र पशवः तत् तत् उद्दिश्य दैवतम् ।
    उरगाः पक्षिणः च एव यथा शास्त्रम् प्रचोदिताः ॥१-१४-३०॥

    शामित्रे तु हयः तत्र तथा जलचराः च ये ।
    ऋषिभिः सर्वम् एवै तन् नियुक्तम् शास्त्रतः तदा ॥१-१४-३१॥

    पशूनाम् त्रिशतम् तत्र यूपेषु नियतम् तदा ।
    अश्व रत्नः उत्तमम् तस्य राज्ञो दशरथस्य ह ॥१-१४-३२॥

    कौसल्या तम् हयम् तत्र परिचर्य समंततः ।
    कृपाणैः विशशासः एनम् त्रिभिः परमया मुदा ॥१-१४-३३॥

    पतत्रिणा तदा सार्धम् सुस्थितेन च चेतसा ।
    अवसत् रजनीम् एकाम् कौसल्या धर्म काम्यया ॥१-१४-३४॥

    होता अध्वर्युः तथ उद्गाता हस्तेन समयोजयन् ।
    महिष्या परिवृत्त्या अथ वावाताम् अपराम् तथा ॥१-१४-३५॥

    पतत्रिणः तस्य वपाम् उद्धृत्य नियतेइन्द्रियः ।
    ऋत्विक् परम संपन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥

    धूम गन्धम् वपायाः तु जिघ्रति स्म नराधिपः ।
    यथा कालम् यथा न्यायम् निर्णुदन् पापम् आत्मनः ॥१-१४-३७॥

    हयस्य यानि च अंगानि तानि सर्वाणि ब्राह्मणाः ।
    अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडश ऋत्विजः ॥१-१४-३८॥

    प्लक्ष शाखासु यज्ञानाम् अन्येषाम् क्रियते हविः ।
    अश्व मेधस्य यज्ञस्य वैतसो भागः इष्यते ॥१-१४-३९॥

    त्र्यहोऽश्व मेधः संख्यातः कल्प सूत्रेण ब्राह्मणैः ।
    चतुष्टोमम् अहः तस्य प्रथमम् परिकल्पितम् ॥१-१४-४०॥

    उक्थ्यम् द्वितीयम् संख्यातम् अतिरात्रम् तथोत्तरम् ।
    कारिताः तत्र बहवो विहिताः शास्त्र दर्शनात् ॥१-१४-४१॥

    ज्योतिष्टोम आयुषी च एवम् अतिरात्रौ विनिर्मितौ ।
    अभिजित् विश्वजित् च एवम् अप्तोर्यामो महाक्रतुः ॥१-१४-४२॥

    प्राचीम् होत्रे ददौ राजा दिशम् स्वकुल वर्धनःअध्वर्यवे प्रतीचीम् तु ब्रह्मणे दक्षिणाम् दिशम् ॥१-१४-४३॥

    उद्गात्रे च तथा उदीचीम् दक्षिणैएषा विनिर्मिता ।
    अश्वमेधे महायज्ञे स्वयंभु विहिते पुरा ॥१-१४-४४॥

    क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।
    ऋत्विग्भ्यो हि ददौ राजा धराम् ताम् कुलवर्धनः ॥१-१४-४५॥

    एवम् दत्त्वा प्रहृष्टो अभूत् श्रीमान् इक्ष्वाकु नन्दन ।
    ऋत्विजः तु अब्रुवन् सर्वे राजानम् गत किल्बिषम् ॥१-१४-४६॥

    भवान् एव महीम् कृत्स्नाम् एको रक्षितुम् अर्हति ।
    न भूम्या कार्यम् अस्माकम् न हि शक्ताः स्म पालने ॥१-१४-४७॥

    रताः स्वाध्याय करणे वयम् नित्यम् हि भूमिप ।
    निष्क्रयम् किंचित् एव इह प्रयच्छतु भवान् इति ॥१-१४-४८॥

    मणि रत्नम् सुवर्णम् वा गावो यद् वा समुद्यतम् ।
    तत् प्रयच्छ नरश्रेष्ट धरण्या न प्रयोजनम् ॥१-१४-४९॥

    एवम् उक्तो नरपतिः ब्राह्मणैः वेद पारगैः ।
    गवाम् शत सहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥

    दश कोटि सुवर्णस्य रजतस्य चतुर् गुणम् ।
    ऋत्विजः च ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥

    ऋष्यशृन्गाय मुनये वसिष्ठाय च धीमते ।
    ततः ते न्यायतः कृत्वा प्रविभागम् द्विजोत्तमाः ॥१-१४-५२॥

    सुप्रीत मनसः सर्वे प्रत्यूचुः मुदिता भृशम् ।
    ततः प्रसर्पकेभ्यस्तु हिरण्यम् सुसमाहितः ॥१-१४-५३॥

    जांबूनदम् कोओटि संख्यम् ब्राह्मणेभ्यो ददौ तदा ।
    दरिद्राय द्विजाय अथ हस्त आभरणम् उत्तमम् ॥१-१४-५४॥

    कस्मै चित् याचमानाय ददौ राघव नंदनः ।
    ततः प्रीतेषु विधिवत् द्विजेषु द्विज वत्सलः ॥१-१४-५५॥

    प्रणामम् अकरोत् तेषाम् हर्ष व्याकुलित इन्द्रियः ।
    तस्य आशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥

    उदारस्य नृवीरस्य धरण्याम् पतितस्य च ।
    ततः प्रीत मना रजाअ प्राप्य यज्ञम् अनुत्तमम् ॥१-१४-५७॥

    पाप अपहम् स्वर् नयनम् दुस्तरम् पार्थिवर्षभैः ।
    ततोऽब्रवीत् ऋश्य्शृंगम् राजा दशरथः तदा ॥१-१४-५८॥

    कुलस्य वर्धनम् त्वम् तु कर्तुम् अर्हसि सुव्रत ।
    तथेति च स राजानम् उवाच द्विजसत्तमः ।
    भविष्यन्ति सुता राजन् चत्वारः ते कुलोद्वहाः ॥१-१४-५९॥

    स तस्य वाक्यम् मधुरम् निशम्यप्रणम्य तस्मै प्रयतो नृपेन्द्र ।
    जगाम हर्षम् परमम् महात्मातम् ऋष्यश्R^ङ्गम् पुनरपि उवाच ॥१-१४-६०॥

    इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे चतुर्दशः सर्गः ॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चदशः सर्गः ॥१-१५॥

    मेधावी तु ततो ध्यात्वा स किङ्चित् इदम् उत्तरम् ।
    लब्ध सङ्ज्ञः ततः तम् तु वेदज्ञो नृपम् अब्रवीत् ॥१-१५-१॥

    इष्टिम् तेऽहम् करिष्यामि पुत्रीयाम् पुत्र कारणात् ।
    अथर्व सिरसि प्रोक्तैः मन्त्रैः सिद्धाम् विधानतः ॥१-१५-२॥

    ततः प्राक्रमत् इदम् इष्टिम् ताम् पुत्रीयाम् पुत्र कारणात् ।
    जुहाव अग्नौ च तेजस्वी मन्त्र दृष्टेन कर्मणा ॥१-१५-३॥

    ततो देवाः स गन्धर्वाः सिद्धाः च परम ऋषयः ।
    भाग प्रतिग्रहार्थम् वै समवेता यथाविधि ॥१-१५-४॥

    ताः समेत्य यथा न्यायम् तस्मिन् सदसि देवताः ।
    अब्रुवन् लोक कर्तारम् ब्रह्माणम् वचनम् ततः ॥१-१५-५॥

    भगवन् त्वत् प्रसादेन रावणो नाम राक्षसः ।
    सर्वान् नो बाधते वीर्यात् शासितुम् तम् न शक्नुमः ॥१-१५-६॥

    त्वया तस्मै वरो दत्तः प्रीतेन भगवन् तदा ।
    मानयन्तः च तम् नित्यम् सर्वम् तस्य क्षमामहे ॥१-१५-७॥

    उद्वेजयति लोकान् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः ।
    शक्रम् त्रिदश राजानम् प्रधर्षयितुम् इच्छति ॥१-१५-८॥

    ऋषीन् यक्षान् स गन्धर्वान् असुरान् ब्राह्मणान् तथा ।
    अतिक्रामति दुर्धर्षो वर दानेन मोहितः ॥१-१५-९॥

    नैनम् सूर्यः प्रतपति पार्श्वे वाति न मारुतः ।
    चलोर्मिमाली तम् दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-१०॥

    तन् महन्नो भयम् तस्मात् राक्षसात् घोर दर्शनात् ।
    वधार्थम् तस्य भगवन् उपायम् कर्तुम् अर्हसि ॥१-१५-११॥

    एवम् उक्तः सुरैः सर्वैः चिन्तयित्वा ततोऽब्रवीत् ।
    हन्ता अयम् विदितः तस्य वधोपायो दुरात्मनः ॥१-१५-१२॥

    तेन गन्धर्व यक्षाणाम् देवतानाम् च रक्षसाम् ।
    अवध्योऽस्मि इति वागुक्ता तथेति उक्तम् च तन् मया ॥१-१५-१३॥

    न अकीर्तयत् अवज्ञानात् तत् रक्षो मानुषाम् तदा ।
    तस्मात् स मानुषात् वध्यो मृत्युः न अन्योऽस्य विद्यते ॥१-१५-१४॥

    एतत् श्रुत्वा प्रियम् वाक्यम् ब्रह्मणा समुदाहृतम् ।
    देवा महर्षयः सर्वे प्रहृष्टाः ते अभवन् तदा ॥१-१५-१५॥

    एतस्मिन् अनन्तरे विष्णुः उपयातो महाद्युतिः ।
    श्ङ्ख चक्र गदा पाणिः पीत वासा जगत्पतिः ॥१-१५-१६॥

    वैनतेयम् समारूह्य भास्कर तोयदम् यथा ।
    तप्त हाटक केयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-१७॥

    ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः ।
    तम् अब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-१८॥

    त्वाम् नियोक्ष्यामहे विष्णो लोकानाम् हित काम्यया ।
    राज्ञो दशरथस्य त्वम् अयोध्य अधिपतेः विभोः ॥१-१५-१९॥

    धर्मज्ञस्य वदान्यस्य महर्षि सम तेजसः ।
    अस्य भार्यासु तिसृषु ह्री श्री कीर्ति उपमासु च ॥१-१५-२०॥

    विष्णो पुत्रत्वम् आगच्छ कृत्वा आत्मानम् चतुर्विधम् ।
    तत्र त्वम् मानुषो भूत्वा प्रवृद्धम् लोक कण्टकम् ॥१-१५-२१॥

    अवध्यम् दैवतैः विष्णो समरे जहि रावणम् ।
    स हि देवान् स गन्धर्वान् सिद्धान् च ऋषि सत्तमान् ॥१-१५-२२॥

    राक्षसो रावणो मूर्खो वीर्य उद्रेकेण बाधते ।
    ऋषयः च ततः तेन गन्धर्वा अप्सरसः तथा ॥१-१५-२३॥

    क्रीडयन्तो नन्दन वने रैउद्रेण विनिपातिताः ।
    वधार्थम् वयम् आयाताः तस्य वै मुनिभिः सह ॥१-१५-२४॥

    सिद्ध गन्धर्व यक्षाः च ततः त्वाम् श्ररणम् गताः ।
    त्वम् गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-२५॥

    वधाय देव शतॄणाम् नृणाम् लोके मनः कुरु ।
    एवम् स्तुतस्तु देवेशो विष्णुः त्रिदशः पुंगवः ॥१-१५-२६॥

    पितामह पुरोगान् तान् सर्व लोक नमस्कृतः
    अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्म संहितान् ॥१-१५-२७॥

    भयम् त्यजत भद्रम् वो हितार्थम् युधि रावणम् ।
    स पुत्र पौत्रम् स अमात्यम् स मित्र ज्ञाति बान्धवम् ॥१-१५-२८॥

    हत्वा क्रूरम् दुराधर्षम् देव ऋषीणाम् भयावहम् ।
    दश वर्ष सहस्राणि दश वर्ष शतानि च ॥१-१५-२९॥

    वत्स्यामि मानुषे लोके पालयन् पृध्वीम् इमाम् ।
    एवम् दत्वा वरम् देवो देवानाम् विष्णुः आत्मवान् ॥१-१५-३०॥

    मानुषे चिन्तयामास जन्मभूमिम् अथ आत्मनः ।
    ततः पद्म पलाशाक्षः कृत्वा आत्मानम् चतुर्विधम् ॥१-१५-३१॥

    पितरम् रोचयामास तदा दशरथम् नृपम् ।
    तदा देव ऋषि गन्धर्वाः स रुद्राः स अप्सरो गणाः ।
    स्तुतिभिः दिव्य रूपाभिः तुष्टुवुः मधुसूदनम् ॥१-१५-३२॥

    तम् उद्धतम् रावणम् उग्र तेजसम्प्रवृद्ध दर्पम् त्रिदशेश्वर वर द्विषम् ।
    विरावणम् साधु तपस्वि कण्टकम्तपस्विनाम् उद्धर तम् भयाअवहम् ॥१-१५-३३॥

    तमेव हत्वा स बलम् स बान्धवम्विरावणम् रावणम् उग्र पौरुषम् ।
    स्वर् लोकम् आगच्छ गत ज्वरः चिरम्सुरेन्द्र गुप्तम् गत दोष कल्मषम् ॥१-१५-३४॥

    इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे पङ्च दशः सर्गः ॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चदशः सर्गः ॥१-१५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥

    ततो नारायणो देवो विषुणुः नियुक्तः सुर सत्तमैः ।
    जानन् अपि सुरान् एवम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-१६-१॥

    उपायः को वधे तस्य राक्ष्साधिपतेः सुराः ।
    यम् अहम् तम् समास्थाय निहन्याम् ऋषि कण्टकम् ॥१-१६-२॥

    एवम् उक्ताः सुराः सर्वे प्रत्यूचुः विष्णुम् अव्ययम् ।
    मानुषम् रूपम् आस्थाय रावणम् जहि संयुगे ॥१-१६-३॥

    स हि तेपे तपः तीव्रम् दीर्घ कालम् अरिंदम ।
    येन तुष्टोऽभवत् ब्रह्मा लोक कृत् लोक पूर्वजः ॥१-१६-४॥

    सन्तुष्टः प्रददौ तस्मै राक्षसाय वरम् प्रभुः ।
    नानाविधेभ्यो भूतेभ्यो भयम् न अन्यत्र मानुषात् ॥१-१६-५॥

    अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।
    एवम् पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥

    उत्सादयति लोकान् त्रीईन् स्त्रियः च अपि अपकर्षति ।
    तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परन्तप ॥१-१६-७॥

    इति एतत् वचनम् श्रुत्वा सुराणाम् विष्णुः आत्मवान् ।
    पितरम् रोचयामास तदा दशरथम् नृपम् ॥१-१६-८॥

    स च अपि अपुत्रो नृपतिः तस्मिन् काले महाद्युतिः ।
    अयजत् पुत्रियाम् इष्टिम् पुत्रेप्सुः अरिसूदनः ॥१-१६-९॥

    स कृत्वा निश्चयम् विष्णुः आमन्त्र्य च पितामहम् ।
    अन्तर्धानम् गतो देवैः पूज्य मानो महर्षिभिः ॥१-१६-१०॥

    ततो वै यजमानस्य पावकात् अतुल प्रभम् ।
    प्रादुर्भूतम् महद्भूतम् महावीर्यम् महाबलम् ॥१-१६-११॥

    कृष्णम् रक्ताम्बर धरम् रक्ताअस्यम् दुन्दुभि स्वनम् ।
    स्निग्ध हर्यक्ष तनुज श्मश्रु प्रवरम् ऊर्धजम् ॥१-१६-१२॥

    शुभ लक्षण संपन्नम् दिव्य आभरण भूषितम् ।
    शैल शृङ्ग समुत्सेधम् दृप्त शार्दूल विक्रमम् ॥१-१६-१३॥

    दिवाकर समाअकारम् दीप्त अनल शिखोपमम् ।
    तप्त जाम्बूनदमयीम् राजतान्त परिच्छदाम् ॥१-१६-१४॥

    दिव्य पायस संपूर्णाम् पात्रीम् पत्नीम् इव प्रियाम् ।
    प्रगृह्य विपुलाम् दोर्भ्याम् स्वयम् मायामयीम् इव ॥१-१६-१५॥

    समवेक्ष्य अब्रवीत् वाक्यम् इदम् दशरथम् नृपम् ।
    प्राजापत्यम् नरम् विद्धि माम् इह अभ्यागतम् नृप ॥१-१६-१६॥

    ततः परम् तदा राजा प्रति उवाच कृत अंजलिः ।
    भगवन् स्वागतम् तेऽस्तु किमहम् करवाणि ते ॥१-१६-१७॥

    अथो पुनः इदम् वाक्यम् प्राजापत्यो नरोऽब्रवीत् ।
    राजन् अर्चयता देवान् अद्य प्राप्तम् इदम् त्वया ॥१-१६-१८॥

    इदम् तु नृप शार्दूल पायसम् देव निर्मितम् ।
    प्रजा करम् गृहाण त्वम् धन्यम् आरोग्य वर्धनम् ॥१-१६-१९॥

    भार्याणाम् अनुरूपाणाम् अश्नीत इति प्रयच्छ वै ।
    तासु त्वम् लप्स्यसे पुत्रान् यदर्थम् यजसे नृप ॥१-१६-२०॥

    तथा इति नृपतिः प्रीतः शिरसा प्रति गृह्य ताम् ।
    पात्रीम् देव अन्न संपूर्णाम् देव दत्ताम् हिरण्मयीम् ॥१-१६-२१॥

    अभिवाद्य च तत् भूतम् अद्भुतम् प्रिय दर्शनम् ।
    मुदा परमया युक्तः चकार अभिप्रदक्षिणम् ॥१-१६-२२॥

    ततो दशरथः प्राप्य पायसम् देव निर्मितम् ।
    बभूव परम प्रीतः प्राप्य वित्तम् इव अधनः ॥१-१६-२३॥

    ततः तत् अद्भुत प्रख्यम् भूतम् परम भास्वरम् ।
    संवर्तयित्वा तत् कर्म तत्र एव अन्तरधीयत ॥१-१६-२४॥

    हर्ष रश्मिभिः उद्द्योतम् तस्य अन्तःपुरम् आबभौ ।
    शारदस्य अभिरामस्य चंद्रस्य इव नभः अंशुभिः ॥१-१६-२५॥

    सः अन्तःपुरम् प्रविश्य एव कौसल्याम् इदम् अब्रवीत् ।
    पायसम् प्रतिगृह्णीष्व पुत्रीयम् तु इदम् आत्मनः ॥१-१६-२६॥

    कौसल्यायै नरपतिः पायस अर्धम् ददौ तदा ।
    अर्धात् अर्धम् ददौ च अपि सुमित्रायै नराधिपः ॥१-१६-२७॥

    कैकेय्यै च अवशिष्ट अर्धम् ददौ पुत्रार्थ कारणात् ।
    प्रददौ च अवशिष्ट अर्धम् पायसस्य अमृत उपमम् ॥१-१६-२८॥

    अनुचिन्त्य सुमित्रायै पुनः एव महीपतिः ।
    एवम् तासाम् ददौ राजा भार्याणाम् पायसम् पृथक् ॥१-१६-२९॥

    ताः च एवम् पायसम् प्राप्य नरेन्द्रस्य उत्तमाः स्त्रियः ।
    सम्मानम् मेनिरे सर्वाः प्रहर्ष उदित चेतसः ॥१-१६-३०॥

    ततस्तु ताः प्राश्य तद् उत्तम स्त्रियोमहीपतेः उत्तम पायसम् पृथक् ।
    हुताशन आदित्य समान तेजसःअचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥

    ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियःप्ररूढ गर्भाः प्रति लब्ध मानसः ।
    बभूव हृष्टः त्रिदिवे यथा हरिःसुरेन्द्र सिद्ध ऋषि गणाभिपूजितः ॥१-१६-३२॥

    इति श्री वाल्मीकि रामायणे आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तदशः सर्गः ॥१-१७॥

    पुत्रत्वम् तु गते विष्णौ राज्ञः तस्य महात्मनः ।
    उवाच देवताः सर्वाः स्वयंभूः भगवान् इदम् ॥१-१७-१॥

    सत्य संधस्य वीरस्य सर्वेषाम् नो हितैषिणः ।
    विष्णोः सहायान् बलिनः सृजध्वम् काम रूपिणः ॥१-१७-२॥

    माया विदः च शूराम् च वायु वेग समान् जवे ।
    नयज्ञान् बुद्धि संपन्नान् विष्णु तुल्य पराक्रमान् ॥१-१७-३॥

    असंहार्यान् उपायज्ञान् दिव्य संहनन अन्वितान् ।
    सर्व अस्त्र गुण संपन्नानन् अमृत प्राशनान् इव ॥१-१७-४॥

    अप्सरस्सु च मुख्यासु गन्धर्वाणाम् तनूषु च ।
    यक्ष पन्नग कन्यासु ऋक्ष विद्याधरीषु च ॥१-१७-५॥

    किंनरीणाम् च गात्रेषु वानरीनाम् तनूसु च ।
    सृजध्वम् हरि रूपेण पुत्रान् तुल्य पराक्रमान् ॥१-१७-६॥

    पूर्वम् एव मया सृष्टो जांबवान् ऋक्ष पुङ्गवः ।
    जृंभमाणस्य सहसा मम वक्रात् अजायत ॥१-१७-७॥

    ते तथा उक्ताः भगवता तत् प्रति श्रुत्य शासनम् ।
    जनयामासुः एवम् ते पुत्रान् वानर रूपिणः ॥१-१७-८॥

    ऋषयः च महात्मानः सिद्ध विद्याधर उरगाः ।
    चारणाः च सुतान् वीरान् ससृजुः वन चारिणः ॥१-१७-९॥

    वानरेन्द्रम् महेन्द्र आभम् इन्द्रः वालिनम् आत्मजम् ।
    सुग्रीवम् जनयामास तपनः तपताम् वरः ॥१-१७-१०॥

    बृहस्पतिः तु अजनयत् तारम् नाम महा कपिम् ।
    सर्व वानर मुख्यानाम् बुद्धिमन्तम् अनुत्तमम् ॥१-१७-११॥

    धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।
    विश्वकर्मा तु अजनयन् नलम् नाम महा कपिम् ॥१-१७-१२॥

    पावकस्य सुतः श्रीमान् नीलः अग्नि सदृश प्रभः ।
    तेजसा यशसा वीर्यात् अत्यरिच्यत वीर्यवान् ॥१-१७-१३॥

    रूप द्रविण संपन्नौ अश्विनौ रूपसंमतौ ।
    मैन्दम् च द्विविदम् च एव जनयामासतुः स्वयम् ॥१-१७-१४॥

    वरुणो जनयामास सुषेणम् नाम वानरम् ।
    शरभम् जनयामास पर्जन्यः तु महाबलः ॥१-१७-१५॥

    मारुतस्य औरसः श्रीमान् हनुमान् नाम वानरः ।
    वज्र संहननोपेतो वैनतेय समः जवे ॥१-१७-१६॥

    सर्व वानर मुख्येषु बुद्धिमान् बलवान् अपि ।
    ते सृष्टा बहु साहस्रा दशग्रीव वधे उद्यताः ॥१-१७-१७॥

    अप्रमेय बला वीरा विक्रान्ताः काम रूपिणः ।
    ते गज अचल संकाशा वपुष्मंतो महाबलाः ॥१-१७-१८॥

    ऋक्ष वानर गोपुच्छाः क्षिप्रम् एव अभिजज्ञिरे ।
    यस्य देवस्य यद् रूपम् वेषो यः च पराक्रमः ॥१-१७-१९॥

    अजायत समम् तेन तस्य तस्य पृथक् पृथक् ।
    गोलान्गूलेषु च उत्पन्नाः किंचिद् उन्नत विक्रमाः ॥१-१७-२०॥

    ऋक्षीषु च तथा जाता वानराः किंनरीषु च ।
    देवा महर्षि गन्धर्वाः तार्क्ष्य यक्षा यशस्विनः ॥१-१७-२१॥

    नागाः किम्पुरुषाः च एव सिद्ध विद्याधर उरगाः ।
    बहवो जनयामासुः हृष्टाः तत्र सहस्रशः ॥१-१७-२२॥

    चारणाः च सुतान् वीरान् ससृजुः वन चारिणः ।
    वानरान् सु महाकायान् सर्वान् वै वन चारिणः ॥१-१७-२३॥

    अप्सरस्सु च मुख्यासु तदा विद्यधरीषु च ।
    नाग कन्यासु च तदा गन्धर्वीणाम् तनूषु च ।
    काम रूप बलोपेता यथा काम विचारिणः ॥१-१७-२४॥

    सिंह शार्दूल सदृशा दर्पेण च बलेन च ।
    शिला प्रहरणाः सर्वे सर्वे पर्वत योधिनः ॥१-१७-२५॥

    नख दन्ष्ट्र आयुधाः सर्वे सर्वे सर्व अस्त्र कोविदाः ।
    विचाल येयुः शैलेन्द्रान् भेद येयुः स्थिरान् द्रुमान् ॥१-१७-२६॥

    क्षोभ येयुः च वेगेन समुद्रम् सरिताम् पतिम् ।
    दार येयुः क्षितिम् पद्भ्याम् आप्लवेयुः महा अर्णवन् ॥१-१७-२७॥

    नभस्थलम् विशेयुर् च गृह्णीयुर् अपि तोयदान् ।
    गृह्णीयुर् अपि मातंगान् मत्तान् प्रव्रजतो वने ॥१-१७-२८॥

    नर्दमानाः च नादेन पात येयुः विहंगमान् ।
    ईदृशानाम् प्रसूतानि हरीणाम् काम रूपिणाम् ॥१-१७-२९॥

    शतम् शत सहस्राणि यूथपानाम् महात्मनाम् ।
    ते प्रधानेषु यूथेषु हरीणाम् हरियूथपाः ॥१-१७-३०॥

    बभूवुर् यूथप श्रेष्ठान् वीराम् च अजनयन् हरीन् ।
    अन्ये ऋक्षवतः प्रस्थान् उपतस्थुः सहस्रशः ॥१-१७-३१॥

    अन्ये नाना विधान् शैलान् काननानि च भेजिरे ।
    सूर्य पुत्रम् च सुग्रीवम् शक्र पुत्रम् च वालिनम् ॥१-१७-३२॥

    भ्रातरौ उपतस्थुः ते सर्वे च हरि यूथपाअः ।
    नलम् नीलम् हनूमन्तम् अन्यांश्च हरि यूथपान् ॥१-१७-३३॥

    ते तार्क्ष्य बल संपन्नाः सर्वे युद्ध विशारदाः ।
    विचरन्तोऽर्दयन् सर्वान् सिंह व्याघ्र महोरगान् ॥१-१७-३४॥

    महाबलो महाबाहुः वाली विपुल विक्रमः ।
    जुगोप भुज वीर्येण ऋक्ष गोपुच्छ वानरान् ॥१-१७-३५॥

    तैः इयम् पृध्वी शूरैः सपर्वत वन अर्णवा ।
    कीर्णा विविध संस्थानैः नाना व्यंजन लक्षणैः ॥१-१७-३६॥

    तैः मेघ बृन्दाचल कूट संनिभैः महाबलैः वानर यूथप अधिपैः ।
    बभूव भूः भीम शरीर रूपैः समावृता राम सहाय हेतोः ॥१-१७-३७॥

    इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे सप्तदशः सर्गः ॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तदशः सर्गः ॥१-१७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-१८॥

    निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
    प्रति गृह्य अमरा भागान् प्रतिजग्मुः यथा आगतम् ॥१-१८-१॥

    समाप्त दीक्षा नियमः पत्नी गण समन्वितः ।
    प्रविवेश पुरीम् राजा स भृत्य बल वाहनः ॥१-१८-२॥

    यथा अर्हम् पूजिताः तेन राज्ञा च पृथिवीश्वराः ।
    मुदिताः प्रययुः देशान् प्रणम्य मुनि पुंगवम् ॥१-१८-३॥

    श्रीमताम् गच्छताम् तेषाम् स्वगृहाणि पुरात् ततः ।
    बलानि राज्ञाम् शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥

    गतेषु पृथिवीशेषु राजा दशरथः पुनः ।
    प्रविवेश पुरीम् श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥

    शांतया प्रययौ सार्धम् ऋष्यशृङ्गः सुपूजितः ।
    अनुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥

    एवम् विसृज्य तान् सर्वान् राजा संपूर्ण मानसः ।
    उवास सुखितः तत्र पुत्र उत्पत्तिम् विचिंतयन् ॥१-१८-७॥

    ततो यज्ञे समाप्ते तु ऋतूनाम् षट् समत्ययुः ।
    ततः च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥

    नक्क्षत्रे अदिति दैवत्ये स्व उच्छ संस्थेषु पंचसु ।
    ग्रहेषु कर्कटे लग्ने वाक्पता इंदुना सह ॥१-१८-९॥

    प्रोद्यमाने जगन्नाथम् सर्व लोक नमस्कृतम् ।
    कौसल्या अजनयत् रामम् सर्व लक्षण संयुतम् ॥१-१८-१०॥

    विष्णोः अर्धम् महाभागम् पुत्रम् ऐक्ष्वाकु नंदनम् ।
    लोहिताक्षम् महाबाहुम् रक्त ओष्टम् दुंदुभि स्वनम् ॥१-१८-११॥

    कौसल्या शुशुभे तेन पुत्रेण अमित तेजसा ।
    यथा वरेण देवानाम् अदितिः वज्र पाणिना ॥१-१८-१२॥

    भरतो नाम कैकेय्याम् जज्ञे सत्य पराक्रमः ।
    साक्षात् विष्णोः चतुर्थ भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥

    अथ लक्ष्मण शत्रुघ्नौ सुमित्रा अजनयत् सुतौ ।
    वीरौ सर्व अस्त्र कुशलौ विष्णोः अर्ध समन्वितौ ॥१-१८-१४॥

    पुष्ये जातः तु भरतो मीन लग्ने प्रसन्न धीः ।
    सार्पे जातौ तु सौमित्री कुळीरे अभ्युदिते रवौ ॥१-१८-१५॥

    राज्ञः पुत्रा महात्मानः चत्वारो जज्ञिरे पृथक् ।
    गुणवंतः अनुरूपाः च रुच्या प्रोष्ठ पदोपमाः ॥१-१८-१६॥

    जगुः कलम् च गंधर्वा ननृतुः च अप्सरो गणाः ।
    देव दुंदुभयो नेदुः पुष्प वृष्टिः च खात् पतत् ॥१-१८-१७॥

    उत्सवः च महान् आसीत् अयोध्यायाम् जनाकुलः ।
    रथ्याः च जन संबाधा नट नर्तक संकुलाः ॥१-१८-१८॥

    गायनैः च विराविण्यो वादनैः च तथ अपरैः ।
    विरेजुर् विपुलाः तत्र सर्व रत्न समन्विताः ॥१-१८-१९॥

    प्रदेयांश्च ददौ राजा सूत मागध वंदिनाम् ।
    ब्राह्मणेभ्यो ददौ वित्तम् गो धनानि सहस्रशः ॥१-१८-२०॥

    अतीत्य एकादश आहम् तु नाम कर्म तथा अकरोत् ।
    ज्येष्ठम् रामम् महात्मानम् भरतम् कैकयी सुतम् ॥१-१८-२१॥

    सौमित्रिम् लक्ष्मणम् इति शत्रुघ्नम् अपरम् तथा ।
    वसिष्ठः परम प्रीतो नामानि कुरुते तदा ॥१-१८-२२॥

    ब्राह्मणान् भोजयामास पौरान् जानपदान् अपि ।
    उददद् ब्राह्मणानाम् च रत्नौघम् अमलम् बहु ॥१-१८-२३॥

    तेषाम् जन्म क्रिय आदीनि सर्व कर्माणि अकारयत् ।
    तेषाम् केतुः इव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥

    बभूव भूयो भूतानाम् स्वयम् भूः इव सम्मतः ।
    सर्वे वेद विदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥

    सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ।
    तेषाम् अपि महातेजा रामः सत्य पराक्रमः ॥१-१८-२६॥

    इष्टः सर्वस्य लोकस्य शशांक इव निर्मलः ।
    गज स्कन्धे अश्व पृष्टे च रथ चर्यासु सम्मतः ॥१-१८-२७॥

    धनुर्वेदे च निरतः पितुः शुशॄषणे रतः ।
    बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मि वर्धनः ॥१-१८-२८॥

    रामस्य लोकरामस्य भ्रातुः ज्येष्ठस्य नित्यशः ।
    सर्व प्रिय करः तस्य रामस्य अपि शरीरतः ॥१-१८-२९॥

    लक्ष्मणो लक्ष्मि संपन्नो बहिः प्राण इव अपरः ।
    न च तेन विना निद्राम् लभते पुरुषोत्तमः ॥१-१८-३०॥

    मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तम् विना ।
    यदा हि हयम् आरूढो मृगयाम् याति राघवः ॥१-१८-३१॥

    अथ एनम् पृष्ठतः अभ्येति स धनुः परिपालयन् ।
    भरतस्य अपि शत्रुघ्नो लक्ष्मण अवरजो हि सः ॥१-१८-३२॥

    प्राणैः प्रियतरो नित्यम् तस्य च आसीत् तथा प्रियः ।
    स चतुर्भिः महाभागैः पुत्रैः दशरथः प्रियैः ॥१-१८-३३॥

    बभूव परम प्रीतो देवैः इव पितामहः ।
    ते यदा ज्ञान संपन्नाः सर्वैः समुदिता गुणैः ॥१-१८-३४॥

    ह्रीमन्तः कीर्तिमन्तः च सर्वज्ञा दीर्घ दर्शिनः ।
    तेषाम् एवम् प्रभावाणाम् सर्वेषाम् दीप्त तेजसाम् ॥१-१८-३५॥

    पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।
    ते च अपि मनुज व्याघ्रा वैदिक अध्ययने रताः ॥१-१८-३६॥

    पितृ शुश्रूषण रता धनुर् वेदे च निष्टिताः ।
    अथ राजा दशरथः तेषाम् दार क्रियाम् प्रति ॥१-१८-३७॥

    चिंतयामास धर्मात्मा सह उपाध्यायः स बान्धवः ।
    तस्य चिंतयमानस्य मंत्रि मध्ये महात्मनः ॥१-१८-३८॥

    अभ्यागच्छत् महातेजा विश्वामित्रो महामुनिः ।
    स राज्ञो दर्शन आकांक्षी द्वार अध्यक्षान् उवाच ह ॥१-१८-३९॥

    शीघ्रम् आख्यात माम् प्राप्तम् कौशिकम् गाधिनः सुतम् ।
    तत् श्रुत्वा वचनम् तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥

    संभ्रान्त मनसः सर्वे तेन वाक्येन चोदिताः ।
    ते गत्वा राज भवनम् विश्वामित्रम् ऋषिम् तदा ॥१-१८-४१॥

    प्राप्तम् आवेदयामासुः नृपायैः इक्ष्वाकवे तदा ।
    तेषाम् तत् वचनम् श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥

    प्रति उज्जगाम संहृष्टो ब्रह्माणम् इव वासवः ।
    तम् दृष्ट्वा ज्वलितम् दीप्त्या तपसम् संशित व्रतम् ॥१-१८-४३॥

    प्रहृष्ट वदनो राजा ततः अर्घ्यम् उपहारयत् ।
    स राज्ञः प्रतिगृह्य अर्घ्यम् शास्त्र दृष्टेन कर्मणा ॥१-१८-४४॥

    कुशलम् च अव्ययम् च एव पर्य पृच्छत् नराधिपम् ।
    पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥

    कुशलम् कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः ।
    अपि ते संनताः सर्वे सामंत रिपवो जिताः ॥१-१८-४६॥

    दैवम् च मानुषम् च एव कर्म ते साधु अनुष्टितम् ।
    वसिष्ठम् च समागम्य कुशलम् मुनिपुंगवः ॥१-१८-४७॥

    ऋषीम् च तान् यथा न्यायम् महाभाग उवाच ह ।
    ते सर्वे हृष्ट मनसः तस्य राज्ञो निवेशनम् ॥१-१८-४८॥

    विविशुः पूजिताः तेन निषेदुः च यथा अर्हतः ।
    अथ हृष्ट मना राजा विश्वामित्रम् महामुनिम् ॥१-१८-४९॥

    उवाच परम उदारो हृष्टः तम् अभिपूजयन् ।
    यथा अमृतस्य संप्राप्तिः यथा वर्षम् अनूदके ॥१-१८-५०॥

    यथा सदृश दारेषु पुत्र जन्म अप्रजस्य वै ।
    प्रणष्टस्य यथा लाभो यथा हर्षो महोदये ॥१-१८-५१॥

    तथा एव आगमनम् मन्ये स्वागतम् ते महामुने ।
    कम् च ते परमम् कामम् करोमि किमु हर्षितः ॥१-१८-५२॥

    पात्र भूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि मानद ।
    अद्य मे सफलम् जन्म जीवितम् च सु जीवितम् ॥१-१८-५३॥

    यस्माद् विप्रेन्द्रम् अद्राक्षम् सुप्रभाता निशा मम ।
    पूर्वम् राजर्षि शब्देन तपसा द्योतित प्रभः ॥१-१८-५४॥

    ब्रह्मर्षित्वम् अनुप्राप्तः पूज्योअसि बहुधा मया ।
    तत् अद्भुतम् अभूत् विप्र पवित्रम् परमम् मम ॥१-१८-५५॥

    शुभ क्षेत्र गतः च अहम् तव संदर्शनात् प्रभो ।
    ब्रूहि यत् प्रार्थितम् तुभ्यम् कार्यम् आगमनम् प्रति ॥१-१८-५६॥

    इच्छाम् अनुगृहीतो अहम् त्वदर्थम् परिवृद्धये ।
    कार्यस्य न विमर्शम् च गंतुम् अर्हसि सुव्रत ॥१-१८-५७॥

    कर्ता च अहम् अशेषेण दैवतम् हि भवान् मम ।
    मम च अयम् अनुप्राप्तो महान् अभ्युदयो द्विज ।
    तव आगमन जः कृत्स्नो धर्मः च अनुत्तमो द्विज ॥१-१८-५८॥

    इति हृदय सुखम् निशम्य वाक्यम् श्रुति सुखम् आत्मवता विनीतम् उक्तम् ।
    प्रथित गुण यशा गुणैः विशिष्टः परम ऋषिः परमम् जगाम हर्षम् ॥१-१८-५९॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टादशः सर्गः ॥१-१८॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥

    तत् शुर्त्वा राज सिंहस्य वाक्यम् अद्भुत विस्तरम् ।
    हृष्ट रोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥१-१९-१॥

    सदृशम् राज शार्दूल तव एव भुवि न अन्यतः ।
    महावंश प्रसूतस्य वसिष्ठ व्यपदेशिनः ॥१-१९-२॥

    यत् तु मे हृद् गतम् वाक्यम् तस्य कार्यस्य निश्चयम् ।
    कुरुष्व राज शार्दूल भव सत्य प्रतिश्रवः ॥१-१९-३॥

    अहम् नियमम् आतिष्ठे सिध्द्यर्थम् पुरुषर्षभ ।
    तस्य विघ्नकरौ द्वौ तु राक्षसौ काम रूपिणौ ॥१-१९-४॥

    व्रते मे बहुशः चीर्णे समाप्त्याम् राक्षसाविमौ ।
    मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ ॥१-१९-५॥

    तौ मांस रुधिर ओघेण वेदिम् ताम् अभ्यवर्षताम् ।
    अवधूते तथा भूते तस्मिन् नियम निश्चये ॥१-१९-६॥

    कृत श्रमो निरुत्साहः तस्मात् देशात् अपाक्रमे ।
    न च मे क्रोधम् उत्स्रष्टुम् बुद्धिः भवति पार्थिव ॥१-१९-७॥

    तथा भूता हि सा चर्या न शापः तत्र मुच्यते ।
    स्व पुत्रम् राज शार्दूल रामम् सत्य पराक्रमम् ॥१-१९-८॥

    काक पक्ष धरम् शूरम् ज्येष्ठम् मे दातुम् अर्हसि ।
    शक्तो हि येष मया गुप्तो दिव्येन स्वेन तेजसा ॥१-१९-९॥

    राक्षसा ये विकर्तारः तेषाम् अपि विनाशने ।
    श्रेयः च अस्मै प्रदास्यामि बहुरूपम् न संशयः ॥१-१९-१०॥

    त्रयाणाम् अपि लोकानाम् येन ख्यातिम् गमिष्यति ।
    न च तौ रामम् आसाद्य शक्तौ स्थातुम् कथम् च न ॥१-१९-११॥

    न च तौ राघवात् अन्यो हन्तुम् उत्सहते पुमान् ।
    वीर्य उत्सिक्तौ हि तौ पापौ काल पाश वशम् गतौ ॥१-१९-१२॥

    रामस्य राज शार्दूल न पर्याप्तौ महात्मनः ।
    न च पुत्र गतम् स्नेहम् कर्तुम् अर्हसि पार्थिव ॥१-१९-१३॥

    अहम् ते प्रति जानामि हतौ तौ विद्धि राक्षसौ ।
    अहम् वेद्मि महात्मानम् रामम् सत्य पराक्रमम् ॥१-१९-१४॥

    वसिष्ठोऽपि महातेजा ये च इमे तपसि स्थिताः ।
    यदि ते धर्म लाभम् तु यशः च परमम् भुवि ॥१-१९-१५॥

    स्थिरम् इच्छसि राजेन्द्र रामम् मे दातुम् अर्हसि ।
    यदि अभ्यनुज्ञाम् काकुत्स्थ ददते तव मंत्रिणः ॥१-१९-१६॥

    वसिष्ठ प्रमुखाः सर्वे ततो रामम् विसर्जय ।
    अभिप्रेतम् असंसक्तम् आत्मजम् दातुम् अर्हसि ॥१-१९-१७॥

    दश रात्रम् हि यज्ञस्य रामम् राजीव लोचनम् ।
    न अत्येति कालो यज्ञस्य यथा अयम् मम राघव ॥१-१९-१८॥

    तथा कुरुष्व भद्रम् ते मा च शोके मनः कृथाः ।
    इति एवम् उक्त्वा धर्मात्मा धर्मार्थ सहितम् वचः ॥१-१९-१९॥

    विरराम महातेजा विश्वामित्रो महामतिः ।
    स तन् निशम्य राजेन्द्रो विश्वामित्र वचः शुभम् ॥१-१९-२०॥

    शोकेन महता आविष्टः चचाल च मुमोह च ।
    लब्ध संज्ञः ततो उतथाय व्यषीदत भयान्वितः ॥१-१९-२१॥

    इति हृदय मनो विदारणम्
    मुनि वचनम् तद् अतीव शुश्रुवान् ।
    नरपतिः अभवत् महान् महात्मा
    व्यथित मनाः प्रचचाल च असनात् ॥१-१९-२२॥

    इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे एकोनविंशः सर्गः ॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे विंशः सर्गः ॥१-२०॥

    तत् श्रुत्वा राज शार्दूलो विश्वामित्रस्य भाषितम् ।
    मुहूर्तम् इव निस्सज्ञः सज्ञावान् इदम् अब्रवीत् ॥१-२०-१॥

    ऊन षोडश वर्षो मे रामो राजीव लोचनः ।
    न युद्ध योग्यताम् अस्य पश्यामि सह राक्षसैः ॥१-२०-२॥

    इयम् अक्षौहिणी सेना यस्य अहम् पतिः ईश्वरः ।
    अनया सहितो गत्वा योद्ध अहम् तैर् निशाचरैः ॥१-२०-३॥

    इमे शूराः च विक्रान्ता भृत्याः मे अस्त्र विशारदाः ।
    योग्या रक्षोगणैः योद्धुम् न रामम् नेतुम् अर्हसि ॥१-२०-४॥

    अहम् एव धनुष्पाणिः गोप्ता समर मूर्धनि ।
    यावत् प्राणान् धरिष्यामि तावत् योत्स्ये निशाचरैः ॥१-२०-५॥

    निर्विघ्ना व्रत चर्या सा भविष्यति सुरक्षिता ।
    अहम् तत्र आगमिष्यामि न रामम् नेतुम् अर्हसि ॥१-२०-६॥

    बालो हि अकृत विद्यः च न च वेत्ति बलाबलम् ।
    न च अस्त्र बल संयुक्तो न च युद्ध विशारदः ॥१-२०-७॥

    न च असौ रक्षसा योग्यः कूट युद्धा हि राक्षसा ।
    विप्रयुक्तो हि रामेण मुहूर्तम् अपि न उत्सहे ॥१-२०-८॥

    जीवितुम् मुनि शार्दूल न रामम् नेतुम् अर्हसि ।
    यदि वा राघवम् ब्रह्मन् नेतुम् इच्छसि सुव्रत ॥१-२०-९॥

    चतुरंग समायुक्तम् मया सह च तम् नय ।
    षष्टिः वर्ष सहस्राणि जातस्य मम कौशिक ॥१-२०-१०॥

    कृच्छ्रेण उत्पादितः च अयम् न रामम् नेतुम् अर्हसि ।
    चतुर्णाम् आत्मजानाम् हि प्रीतिः परमिका मम ॥१-२०-११॥

    ज्येष्ठे धर्म प्रधाने च न रामम् नेतुम् अर्हसि ।
    किम् वीर्याः राक्षसाः ते च कस्य पुत्राः च के च ते ॥१-२०-१२॥

    कथम् प्रमाणाः के च एतान् रक्षन्ति मुनिपुंगव ।
    कथम् च प्रति कर्तव्यम् तेषाम् रामेण रक्षसाम् ॥१-२०-१३॥

    मामकैः वा बलैः ब्रह्मन् मया वा कूट योधिनाम् ।
    सर्वम् मे शंस भगवन् कथम् तेषाम् मया रणे॥१-२०-१४॥

    स्थातव्यम् दुष्ट भावानाम् वीर्योत्सिक्ता हि राक्षसाः ।
    तस्य तद् वचनम् श्रुत्वा विश्वामित्रो अभ्यभाषत ॥१-२०-१५॥

    पौलस्त्य वंश प्रभवो रावणो नाम राक्षसः ।
    स ब्रह्मणा दत्त वरः त्रैलोक्यम् बाधते भृशम् ॥१-२०-१६॥

    महाबलो महावीर्यो राक्षसैः बहुभिः वृतः ।
    श्रूयते च महाराजा रावणो राक्षस अधिपः ॥१-२०-१७॥

    साक्षात् वैश्रवण भ्राता पुत्रो विश्रवसो मुनेः ।
    यदा न खलु यज्ञस्य विघ्न कर्ता महाबलः ॥१-२०-१८॥

    तेन संचोदितौ तौ तु राक्षसौ च महाबलौ ।
    मारीचः च सुबाहुः च यज्ञ विघ्नम् करिष्यतः ॥१-२०-१९॥

    इति उक्तो मुनिना तेन राजा उवाच मुनिम् तदा ।
    न हि शक्तो अस्मि संग्रामे स्थातुम् तस्य दुरात्मनः ॥१-२०-२०॥

    स त्वम् प्रसादम् धर्मज्ञ कुरुष्व मम पुत्रके ।
    मम च एव अल्प भाग्यस्य दैवतम् हि भवान् गुरुः ॥१-२०-२१॥

    देव दानव गंधर्वा यक्षाः पतग पन्नगाः।
    न शक्ता रावणम् सोढुम् किम् पुनर् मानवा युधि ॥१-२०-२२॥

    स तु वीर्यवताम् वीर्यम् आदत्ते युधि रावणः ।
    तेन च अहम् न शक्तोऽस्मि संयोद्धुम् तस्य वा बलैः ॥१-२०-२३॥

    सबलो वा मुनिश्रेष्ठ सहितो वा मम आत्मजैः ।
    कथम् अपि अमर प्रख्यम् संग्रामाणाम् अकोविदम् ॥१-२०-२४॥

    बालम् मे तनयम् ब्रह्मन् नैव दास्यामि पुत्रकम् ।
    अथ काल उपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥१-२०-२५॥

    यज्ञ विघ्न करौ तौ ते न एव दास्यामि पुत्रकम् ।
    मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ ॥१-२०-२६॥

    तयोः अन्यतरम् योद्धुम् यास्यामि स सुहृत् गणः ।
    अन्यथा त्वनुनेष्यामि भवन्तम् सह बान्धव ॥१-२०-२७॥

    इति नरपति जल्पनात् द्विजेन्द्रम्
    कुशिक सुतम् सुमहान् विवेश मन्युः ।
    सु हुत इव मखे अग्निः आज्य सिक्तः
    समभवत् उज्वलितो महर्षि वह्निः ॥१-२०-२८॥

    इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे विंशः सर्गः ॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे विंशः सर्गः ॥१-२०॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥

    तत् श्रुत्वा वचनम् तस्य स्नेह पर्याकुलाक्षरम् ।
    समन्युः कौशिको वाक्यम् प्रति उवाच महीपतिम् ॥१-२१-१॥

    पूर्वम् अर्थम् प्रति श्रुत्य प्रतिज्ञाम् हातुम् इच्छसि ।
    राघवाणाम् अयुक्तोऽयम् कुलस्य अस्य विपर्ययः ॥१-२१-२॥

    यद् इदम् ते क्षमम् राजन् गमिष्यामि यथा आगतम् ।
    मिथ्या प्रतिज्ञः काकुत्स्थ सुखी भव सु हृद् वृतः ॥१-२१-३॥

    तस्य रोष परीतस्य विश्वामित्रस्य धीमतः ।
    चचाल वसुधा कृत्स्ना देवानाम् च भयम् ॥१-२१-४॥

    त्रस्त रूपम् तु विज्ञाय जगत्सर्वम् महान् ऋषिः ।
    नृपतिम् सुव्रतो धीरो वसिष्ठो वाक्यम् अब्रवीत् ॥१-२१-५॥

    इक्ष्वाकूणाम् कुले जातः साक्षात् धर्म इव अपरः ।
    धृतिमान् सुव्रतः श्रीमान् न धर्मम् हातुम् अर्हसि ॥१-२१-६॥

    त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघव ।
    स्व धर्मम् प्रतिपद्यस्व न अधर्मम् वोढुम् अर्हसि ॥१-२१-७॥

    प्रति श्रुत्य करिष्ये इति उक्तम् वाक्यम् अकुर्वतः ।
    इष्टापूर्त वधो भूयात् तस्मात् रामम् विसर्जय ॥१-२१-८॥

    कृतास्त्रम् अकृतास्त्रम् वा न एवम् शक्ष्यन्ति राक्षसाः ।
    गुप्तम् कुइशिक पुत्रेण ज्वलनेन अमृतम् यथा ॥१-२१-९॥

    एष विग्रहवान् धर्म एष वीर्यवताम् वरः ।
    एष विद्य अधिको लोके तपसः च परायणम् ॥१-२१-१०॥

    एषो अस्त्रान् विविधान् वेत्ति त्रैलोक्ये स चराचरे ।
    न एनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥

    न देवा न ऋषयः के चित् न अमरा न च राक्षसाः ।
    गन्धर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-२१-१२॥

    सर्व अस्त्राणि कृशाश्वस्य पुत्राः परम धार्मिकाः ।
    कौशिकाय पुरा दत्ता यदा राज्यम् प्रशासति ॥१-२१-१३॥

    ते अपि पुत्रा कृशाश्वस्य प्रजापति सुता सुताः ।
    न एक रूपा महावीर्या दीप्तिमंतो जयावहाः ॥१-२१-१४॥

    जया च सुप्रभा च एव दक्ष कन्ये सुमध्यमे ।
    ते सूते अस्त्र शस्त्राणि शतम् परम भास्वरम् ॥१-२१-१५॥

    पंचाशतम् सुतान् लेभे जया लब्ध वरा वरान् ।
    वधायासुरसैन्यानामप्रमेयानरूपिणः - यद्वा -
    वधाय असुर सैन्यानाम् अप्रमेयान् अरूपिणः ॥१-२१-१६॥

    सुप्रभा अजनयत् च अपि पुत्रान् पंचाशतम् पुनः ।
    संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥

    तानि च अस्त्राणि वेत्ति एष यथावत् कुशिक आत्मजः ।
    अपूर्वाणाम् च जनने शक्तो भूयः च धर्मवित् ॥१-२१-१८॥

    तेन अस्य मुनि मुख्यस्य धर्मज्ञस्य महात्मनः ।
    न किंचिद् अस्ति अविदितम् भूतम् भव्यम् च राघव ॥१-२१-१९॥

    एवम् वीर्यो महातेजा विश्वामित्रो महा यशाः ।
    न राम गमने राजन् संशयम् गन्तुम् अर्हसि ॥१-२१-२०॥

    तेषाम् निग्रहणे शक्तः स्वयम् च कुशिकात्मजः ।
    तव पुत्र हितार्थाय त्वाम् उपेत्य अभि याचते ॥१-२१-२१॥

    इति मुनि वचनात् प्रसन्न चित्तो
    रघु वृषभः च मुमोद पार्थिव अग्र्यः ।
    गमनम् अभिरुरोच राघवस्य
    प्रथित यशाः कुशिक आत्मजाय बुध्या ॥१-२१-२२॥

    इति वाल्मीकि रामायणे आदिकाव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥

    तथा वसिष्टे ब्रुवति राजा दशरथः स्वयम् ।
    प्रहृष्ट वदनो रामम् आजुहाव स लक्ष्मणम् ॥१-२२-१॥

    कृतः स्वस्त्ययनम् मात्रा पित्रा दशरथेन च ।
    पुरोधसा वसिष्ठेन मङ्गलैः अभिमंत्रितम् ॥१-२२-२॥
    स पुत्रम् मूर्ध्नि उपाघ्राय राजा दशरथः तदा ।
    ददौ कुशिक पुत्राय सुप्रीतेन अंतरात्मना ॥१-२२-३॥

    ततो वायुः सुख स्पर्शो नीरजस्को ववौ तदा ।
    विश्वामित्र गतम् रामम् दृष्ट्वा राजीव लोचनम् ॥१-२२-४॥

    पुष्प वृष्टिः महती आसीत् देव दुन्दुभि निःस्वनैः ।
    शङ्ख दुन्दुभि निर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥

    विश्वामित्रो ययौ अग्रे ततो रामो महायशाः ।
    काक पक्ष धरो धन्वी तम् च सौमित्रिः अन्वगात् ॥१-२२-६॥

    कलापिनौ धनुष् पाणी शोभयानौ दिशो दश ।
    विश्वामित्रम् महात्मानम् त्रि शीर्षौ इव पन्नगौ ।
    अनुजग्मतुः अक्षुद्रौ पितामहम् इव अश्विनौ ॥१-२२-७॥

    तदा कुशिक पुत्रम् तु धनुष् पाणी स्वलंकृतौ ।
    बद्ध गोध अंगुलि त्राणौ खड्गवन्तौ महाद्युती ॥१-२२-८॥
    कुमारौ चारु वपुषौ भ्रातरौ राम लक्ष्मणौ ।
    अनुयातौ श्रिया दीप्तौ शोभयेताम् अनिन्दितौ ॥१-२२-९॥
    स्थाणुम् देवम् इव अचिन्त्यम् कुमारौ इव पावकी ।

    अध्यर्ध योजनम् गत्वा सरय्वा दक्षिणे तटे ॥१-२२-१०॥
    रामा इति मधुराम् वाणीम् विश्वामित्रः अभ्यभाषत ।

    गृहाण वत्स सलिलम् मा भूत् कालस्य पर्ययः ॥१-२२-११॥
    मंत्र ग्रामम् गृहाण त्वम् बलाम् अतिबलाम् तथा ।

    न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१२॥
    न च सुप्तम् प्रमत्तम् वा धर्ष इष्यन्ति नैरृताः ।

    न बाह्वोः सदृशो वीर्ये पृथिव्याम् अस्ति कश्चन ॥१-२२-१३॥
    त्रिषु लोकेषु वा राम न भवेत् सदृशः तव ।

    बलाम् अतिबलाम् चैव पठतः तात राघव ॥१-२२-१४॥
    न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धि निश्चये ।
    न उत्तरे प्रति वक्तव्ये समो लोके तव अनघ ॥१-२२-१५॥

    एतत् विद्या द्वये लब्धे न भवेत् सदृशः तव ।
    बला च अतिबला चैव सर्व ज्ञानस्य मातरौ ॥१-२२-१६॥

    क्षुत् पिपासे न ते राम भविष्येते नरोत्तम ।
    बलाम् अतिबलाम् चैव पठतः तात राघव ॥१-२२-१७॥

    गृहाण सर्व लोकस्य गुप्तये रघु नन्दन ।
    विद्या द्वयम् अधीयाने यशः च अथ भवेत् भुवि ।
    पितामह सुते हि एते विद्ये तेजः समन्विते ॥१-२२-१८॥
    प्रदातुम् तव काकुत्थ्स सदृअशः त्वम् हि पार्थिव ।

    कामम् बहुगुणाः सर्वे त्वयि एते न अत्र संशयः ॥१-२२-१९॥
    तपसा संभृते च एते बहु रूपे भविष्यतः ।

    ततो रामो जलम् स्पृष्ट्वा प्रहृष्ट वदनः शुचिः ॥१-२२-२०॥
    प्रति जग्राह ते विद्ये महर्षेर् भावित आत्मनः ।

    विद्या समुदितो रामः शुशुभे भीम विक्रमः ॥१-२२-२१॥
    सहस्र रश्मिः भग्वान् शरदीव दिवाकरः ।
    गुरु कार्याणि सर्वाणि नियुज्य कुशिक आत्मजे ।
    ऊषुः ताम् रजनीम् तत्र सरय्वाम् सुसुखम् त्रयः ॥१-२२-२२॥

    दशरथ नृइप सूनु सत्तमाभ्याम्
    तृण शयने अनुचिते तदा उषिताभ्याम् ।
    कुशिक सुत वचोऽनुलालिताभ्याम् ।
    सुखमिव सा विबभौ विभावरी च ॥१-२२-२३॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥

    प्रभातायाम् तु शर्वर्याम् विश्वामित्रो महामुनिः ।
    अभ्यभाषत काकुत्स्थौ शयानौ पर्ण संस्तरे ॥१-२३-१॥

    कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।
    उत्तिष्ठ नर शार्दूल कर्तव्यम् दैवमाह्निकम् ॥१-२३-२॥

    तस्य ऋषेः परम उदारम् वचः श्रुत्वा नृप नरोत्तमौ ।
    स्नात्वा कृत उदकौ वीरौ जेपतुः परमम् जपम् ॥१-२३-३॥

    कृत आह्निकौ महावीर्यौ विश्वामित्रम् तपोधनम् ।
    अभिवाद्य अति संहृष्टौ गमनाय अभितस्थतुः ॥१-२३-४॥

    तौ प्रयान्तौ महावीर्यौ दिव्यम् त्रिपथगाम् नदीम् ।
    ददृशा ते ततः तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥

    तत्र आश्रम पदम् पुण्यम् ऋषीणाम् भाविअत आत्मानाम् ।
    बहु वर्ष सहस्राणि तप्यताम् परमम् तपः ॥१-२३-६॥

    तम् दृष्ट्वा परम प्रीतौ राघवौ पुण्यम् आश्रमम् ।
    ऊचतुः तम् महात्मानम् विश्वामित्रम् इदम् वचः ॥१-२३-७॥

    कस्य अयम् आश्रमः पुण्यः को नु अस्मिन् वसते पुमान् ।
    भगवन् श्रोतुम् इच्छावः परम् कौतूहलम् हि नौ ॥१-२३-८॥

    तयोः तद् वचनम् श्रुत्वा प्रहस्य मुनिपुंगवः ।
    अब्रवीत् श्रूयताम् राम यस्य अयम् पूर्व आश्रमः ॥१-२३-९॥

    कन्दर्पो मूर्तिमान् आसीत् काम इति उच्यते बुधैः ।
    तपस्यंतम् इह स्थाणुम् नियमेन समाहितम् ॥१-२३-१०॥
    कृत उद्वाहम् तु देवेशम् गच्छन्तम् स मरुद् गणम् ।
    धर्षयामास दुर्मेधा हुम् कृतः च महात्मना ॥१-२३-११॥

    अवध्यतः च रुद्रेण चक्षुषा रघु नन्दन ।
    व्यशीर्यन्त शरीरात् स्वात् सर्व गात्राणि दुर्मतेः ॥१-२३-१२॥

    तत्र गात्रम् हतम् तस्य निर्दग्धस्य महात्मनः ।
    अशरीरः कृतः कामः क्रोधात् देव ईश्वरेण ह ॥१-२३-१३॥

    अनङ्ग इति विख्यातः तदा प्रभृति राघव ।
    स च अङ्ग विषयः श्रीमान् यत्र अंगम् स मुमोच ह ॥१-२३-१४॥

    तस्य अयम् आश्रमः पुण्यः तस्य इमे मुनयः पुरा ।
    शिष्या धर्मपरा वीर तेषाम् पापम् न विद्यते ॥१-२३-१५॥

    इह अद्य रजनीम् राम वसेम शुभ दर्शन ।
    पुण्ययोः सरितोः मध्ये श्वः तरिष्यामहे वयम् ॥१-२३-१६॥

    अभिगच्छामहे सर्वे शुचयः पुण्यम् आश्रमम् ।
    इह वासः परोऽस्माकम् सुखम् वस्त्यामहे वयम् ॥१-२३-१७॥
    स्नाताः च कृत जप्याः च हुत हव्या नरोत्तम ।

    तेषाम् संवदताम् तत्र तपो दीर्घेण चक्षुषा ॥१-२३-१८॥
    विज्ञाय परम प्रीता मुनयो हर्षम् आगमन् ।
    अर्घ्यम् पाद्यम् तथा आतिथ्यम् निवेद्य कुशिकात्मजे ॥१-२३-१९॥

    राम लक्ष्मणयोः पश्चात् अकुर्वन् अतिथि क्रियाम् ।
    सत्कारम् सम् अनुप्राप्य कथाभिः अभिरंजयन् ॥१-२३-२०॥

    यथा अर्हम् अजपन् संध्याम् ऋषयः ते समाहिताः ।
    तत्र वासिभिः आनीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥
    न्यवसन् सुसुखम् तत्र काम आश्रम पदे तथा ।

    कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।
    यद्वा -
    कथाभिः अभि रामभिः अभि रमौ नृप आत्मजौ
    रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥

    ततः प्रभाते विमले कृत आह्निकम् अरिन्दमौ ।
    विश्वामित्रम् पुरस्कृत्य नद्याः तीरम् उपागतौ ॥१-२४-१॥

    ते च सर्वे महात्मानो मुनयः संश्रित व्रताः ।
    उपस्थाप्य शुभाम् नावम् विश्वामित्रम् अथ अब्रुवन् ॥१-२४-२॥

    आरोहतु भवान् नावम् राजपुत्र पुरस्कृतः ।
    अरिष्टम् गच्छ पन्थानम् मा भूत् काल विपर्ययः ॥१-२४-३॥

    विश्वामित्रः तथा इति उक्त्वा तान् ऋषीन् प्रतिपूज्य च ।
    ततार सहितः ताभ्याम् सरितम् सागरम् गमाम् ॥१-२४-४॥

    तत्र शुश्राव वै शब्दम् तोय संरम्भ वर्धितम् ।
    मध्यम् आगम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१-२४-५॥
    ज्ञातु कामो महातेजा सह रामः कनीयसा ।

    अथ रामः सरिन् मध्ये पप्रच्छ मुनि पुङ्गवम् ॥१-२४-६॥
    वारिणो भिद्यमानस्य किम् अयम् तुमुलो ध्वनिः ।

    राघवस्य वचः श्रुत्वा कौतूहल समन्वितम् ॥१-२४-७॥
    कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।

    कैलास पर्वते राम मनसा निर्मितम् परम् ॥१-२४-८॥
    ब्रह्मणा नरशार्दूल तेन इदम् मानसम् सरः ।

    तस्मात् सुस्राव सरसः सा अयोध्याम् उपगूहते ॥१-२४-९॥
    सरः प्रवृत्ता सरयूः पुण्या ब्रह्म सरः च्युता ।
    तस्य अयम् अतुलः शब्दो जाह्नवीम् अभिवर्तते ॥१-२४-१०॥
    वारि संक्षोभजो राम प्रणामम् नियतः कुरु ।

    ताभ्याम् तु तावुभौ कृत्वा प्रणामम् अतिधार्मिकौ ॥१-२४-११॥
    तीरम् दक्षिणम् आसाद्य जग्मतुर् लघु विक्रमौ ।

    स वनम् घोर संकाशम् दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥
    अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनि पुंगवम् ।

    अहो वनम् इदम् दुर्गम् झिल्लिका गण संयुतम् ॥१-२४-१३॥
    भैरवैः श्वापदैः कीर्णम् शकुनैः दारुण आरवैः ।

    नाना प्रकारैः शकुनैः वाश्यद्भिः भैरव स्वनैः ॥१-२४-१४॥
    सिंह व्याघ्र वराहैः च वारणैः च अपि शोभितम् ।

    धव अश्वकर्ण ककुभैः बिल्व तिन्दुक पाटलैः ॥१-२४-१५॥
    संकीर्णम् बदरीभिः च किम् नु एतत् दारुणम् वनम् ।

    तम् उवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥
    श्रूयताम् वत्स काकुत्स्थ यस्य एतत् दारुणम् वनम् ।

    एतौ जनपदौ स्फीतौ पूर्वम् आस्ताम् नरोउत्तम ॥१-२४-१७॥
    मलदाः च करूषाः च देव निर्माण निर्मितौ ।

    पुरा वृत्र वधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥
    क्षुधा चैव सहस्राक्षम् ब्रह्म हत्या सम् आविशत् ।

    तम् इन्द्रम् मलिनम् देवा ऋषयः च तपोधनाः ॥१-२४-१९॥
    कलशैः स्नापयामासुः मलम् च अस्य प्रमोचयन् ।

    इह भूम्याम् मलम् दत्त्वा देवाः कारुषम् एव च ॥१-२४-२०॥
    शरीरजम् महेन्द्रस्य ततो हर्षम् प्रपेदिरे ।

    निर्मलो निष्करूषः च शुद्ध इन्द्रो यथा अभवत् ॥१-२४-२१॥
    ततो देशस्य सुप्रीतो वरम् प्रादाद् अनुत्तमम् ।

    इमौ जनपदौ स्फीतौ ख्यातिम् लोके गमिष्यतः ॥१-२४-२२॥
    मलदाः च करूषाः च मम अंग मल धारिणौ ।

    साधु साधु इति तम् देवाः पाकशासनम् अब्रुवन् ॥१-२४-२३॥
    देशस्य पूजाम् ताम् दृष्ट्वा कृताम् शक्रेण धीमता ।

    एतौ जनपदौ स्फीतौ दीर्घ कालम् अरिन्दम ॥१-२४-२४॥
    मलदाः च करूषाः च मुदिता धन धान्यतः ।

    कस्य चित् अथ कालस्य यक्षी काम रूपिणी ॥१-२४-२५॥
    बलम् नाग सहस्रस्य धारयन्ती तदा हि आभूत् ।
    ताटका नाम भद्रम् ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥
    मारीचो राक्षसः पुत्रो यस्याः शक्र पराक्रमः ।

    वृत्त बाहुर् महा शीर्षो विपुला अस्य तनुर् महान् ॥१-२४-२७॥
    राक्षसो भैरव आकारो नित्यम् त्रासयते प्रजाः ।

    इमौ जनपदौ नित्यम् विनाशयति राघव ॥१-२४-२८॥
    मलदांश्च करूषांश्च ताटका दुष्ट चारिणी ।

    सा इयम् पन्थानम् आवृत्य वसति अध्यर्ध योजने ॥१-२४-२९॥
    अत एव च गन्तव्यम् ताटकाया वनम् यतः ।

    स्व बाहु बलम् आश्रित्य जहि इमाम् दुष्ट चारिणीम् ॥१-२४-३०॥
    मत् नियोगात् इमम् देशम् कुरु निष्कण्टकम् पुनः ।

    न हि कश्चित् इमम् देशम् शक्तो हि आगन्तुम् ईदृशम् ॥१-२४-३१॥
    यक्षिण्या घोरया राम उत्सादितम् असह्यया ।

    एतत् ते सर्वम् आख्यातम् यथा एतत् दारुणम् वनम् ।
    यक्ष्या च उत्सादितम् सर्वम् अद्य अपि न निवर्तते ॥१-२४-३२॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चविंशः सर्गः ॥१-२५॥

    अथ तस्य अप्रमेयस्य मुनेर् वचनम् उत्तमम् ।
    श्रुत्वा पुरुष शार्दूलः प्रत्युवाच शुभाम् गिरम् ॥१-२५-१॥

    अल्प वीर्या यदा यक्षी श्रूयते मुनिपुङ्गव ।
    कथम् नाग सहस्रस्य धारयति अबला बलम् ॥१-२५-२॥

    इति उक्त,म् वचनम् श्रुत्वा राघवस्य अमित ओजसा ।
    हर्षयन् श्लक्ष्णया वचा स लक्ष्मणम् अरिन्दमम् ॥१-२५-३॥
    विश्वामित्रोऽब्रवीत् वाक्यम् शृणु येन बलोत्कटा ।
    वर दान कृतम् वीर्यम् धारयति अबला बलम् ॥१-२५-४॥

    पूर्वम् आसीत् महा यक्षः सुकेतुर् नाम वीर्यवान् ।
    अनपत्यः शुभाचारः स च तेपे महत् तपः ॥१-२५-५॥

    पितामहः तु सुप्रीतः तस्य यक्षपतेः तदा ।
    कन्या रत्नम् ददौ राम ताटकाम् नाम नामतः ॥१-२५-६॥

    ददौ नाग सहस्रस्य बलम् च अस्याः पितामहः ।
    न तु एव पुत्रम् यक्षाय ददौ च असौ महायशाः ॥१-२५-७॥

    ताम् तु बालाम् विवर्धन्तीम् रूप यौवन शालिनीम् ।
    जंभ पुत्राय सुन्दाय ददौ भार्याम् यशस्विनीम् ॥१-२५-८॥

    कस्यचित् तु अथ कालस्य यक्षी पुत्रम् व्यजायत ।
    मारीचम् नाम दुर्धर्षम् यः शापात् राक्षसोऽभवत् ॥१-२५-९॥

    सुन्दे तु निहते राम सा अगस्त्यम् ऋषि सत्तमम् ।
    ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति ॥१-२५-१०॥

    भक्षार्थम् जात संरम्भा गर्जन्ती सा अभ्यधावत ।
    आपतन्तीम् तु ताम् दृष्ट्वा अगस्त्यो भगवान् ऋषिः ॥१-२५-११॥
    राक्षसत्वम् भजस्व इति मारीचम् व्याजहार सः ।

    अगस्त्यः परम अमर्षः ताटकाम् अपि शप्तवान् ॥१-२५-१२॥
    पुरुषादी महायक्षी विरूपा विकृत आनना ।
    इदम् रूपम् विहायाशु दारुणम् रूपम् अस्तु ते ॥१-२५-१३॥

    सैषा शाप कृताम् अर्षा ताटका क्रोध मूर्छिता ।
    देशम् उत्सादयति एनम् अगस्त्या चरितम् शुभम् ॥१-२५-१४॥

    एनाम् राघव दुर्वृत्ताम् यक्षीम् परम दारुणाम् ।
    गो ब्राह्मण हितार्थाय जहि दुष्ट पराक्रमाम् ॥१-२५-१५॥

    न हि एनाम् शाप संसृष्टाम् कश्चित् उत्सहते पुमान् ।
    निहन्तुम् त्रिषु लोकेषु त्वाम् ऋते रघु नन्दन ॥१-२५-१६॥

    न हि ते स्त्री वध कृते घृणा कार्या नरोत्तम ।
    चातुर् वर्ण्य हितार्थाम् हि कर्तव्यम् राज सूनुना ॥१-२५-१७॥

    नृशंसम् अनृशंसम् वा प्रजा रक्षण कारणात् ।
    पातकम् वा सदोषम् वा कर्तव्यम् रक्षता सदा ॥१-२५-१८॥

    राज्य भार नियुक्तानाम् एष धर्मः सनातनः ।
    अधर्म्याम् जहि काकुत्स्थ धर्मो हि अस्याम् न विद्यते ॥१-२५-१९॥

    श्रूयते हि पुरा शक्रो विरोचन सुताम् नृप ।
    पृथिवीम् हन्तुम् इच्छन्तीम् मन्थराम् अभ्यसूदयत् ॥१-२५-२०॥

    विष्णुना च पुरा राम भृगु पत्नी पतिव्रता ।
    अनिन्द्रम् लोकम् इच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥

    एतैः च अन्यैः च बहुभी राजपुत्रैः महात्मभिः ।
    अधर्म सहिता नार्यो हताः पुरुषसत्तमैः ।
    तस्माद् एनाम् घृणाम् त्यक्त्वा जहि मत् शासनान् नृप ॥१-२५-२२॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चविंशः सर्गः ॥१-२५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे षड्विंशः सर्गः ॥१-२६॥

    मुनेर् वचनम् अक्लीबम् श्रुत्वा नरवरात्मजः ।
    राघवः प्राञ्जलिः भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥

    पितुर् वचन निर्देशात् पितुर् वचन गौरवात् ।
    वचनम् कौशिकस्य इति कर्तव्यम् अविशङ्कया ॥१-२६-२॥

    अनुशिष्टो अस्मि अयोध्यायाम् गुरु मध्ये महात्मना ।
    पित्रा दशरथेन अहम् न अवज्ञेयम् च तद् वचः ॥१-२६-३॥

    सोऽहम् पितुर्वचः श्रुत्वा शासनाद् ब्रह्म वादिनः ।
    करिष्यामि न संदेहः ताटका वधम् उत्तमम् ॥१-२६-४॥

    गो ब्राह्मण हितार्थाय देशस्य च हिताय च ।
    तव चैव अप्रमेयस्य वचनम् कर्तुम् उद्यतः ॥१-२६-५॥

    एवम् उक्त्वा धनुर्मध्ये बध्वा मुष्टिम् अरिन्दमः ।
    ज्या घोषम् अकरोत् तीव्रम् दिशः शब्देन नादयन् ॥१-२६-६॥

    तेन शब्देन वित्रस्ताः ताटका वन वासिनः ।
    ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥

    तम् शब्दम् अभिनिध्याय राक्षसी क्रोध मूर्चिता ।
    श्रुत्वा च अभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिस्सृतः ॥१-२६-८॥

    ताम् दृष्ट्वा राघवः क्रुद्धाम् विकृताम् विकृत आननाम् ।
    प्रमाणेन अति वृद्धाम् च लक्ष्मणम् सोऽभ्यभाषत ॥१-२६-९॥

    पश्य लक्ष्मण यक्षिण्या भैरवम् दारुणम् वपुः ।
    भिद्येरन् दर्शनात् अस्या भीरूणाम् हृदयानि च ॥१-२६-१०॥

    एताम् पश्य दुराधर्षाम् माया बल समन्विताम् ।
    विनिवृत्ताम् करोमि अद्य हृत कर्णाग्र नासिकाम् ॥१-२६-११॥

    न हि एनाम् उत्सहे हन्तुम् स्त्री स्वभावेन रक्षिताम् ।
    वीर्यम् च अस्या गतिम् च एव हन्यताम् इति मे मतिः ॥१-२६-१२॥

    एवम् ब्रुवाणे रामे तु ताटका क्रोध मूर्छिता ।
    उद्यम्य बाहूम् गर्जन्ती रामम् एव अभ्यधावत ॥१-२६-१३॥

    विश्वामित्रस्तु ब्रह्मर्षिः हुंकारेणा अभिभर्त्स्य ताम् ।
    स्वस्ति राघवयोः अस्तु जयम् च एव अभ्यभाषत ॥१-२६-१४॥

    उद् धुन्वाना रजो घोरम् ताटका राघवौ उभौ ।
    रजो मेघेन महता मुहूर्तम् सा व्यमोहयत् ॥१-२६-१५॥

    ततो मायाम् समास्थाय शिला वर्षेण राघवौ ।
    अवाकिरत् सुमहता ततः चुक्रोध राघवः ॥१-२६-१६॥

    शिला वर्षम् महत् तस्याः शर वर्षेण राघवः ।
    प्रतिवार्यो अपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥

    ततः च्छिन्न भुजाम् श्रान्ताम् अभ्याशे परिगर्जतीम् ।
    सौमित्रिः अकरोत् क्रोधात् हृत कर्णाग्र नासिकाम् ॥१-२६-१८॥

    काम रूपधरा सा तु कृत्वा रूपाणि अनेकशः ।
    अन्तर्धानम् गता यक्षी मोहयन्ति स्व मायया ॥१-२६-१९॥
    अश्म वर्षम् विमुंचन्ती भैरवम् विचचार सा ॥

    ततः तौ अश्म वर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥
    दृष्ट्वा गाधि सुतः श्रीईमान् इदम् वचनम् अब्रवीत् ।

    अलम् ते घृणया राम पापा एषा दुष्ट चारिणी ॥१-२६-२१॥
    यज्ञ विघ्न करी यक्षी पुरा वर्धेत मायया ।

    वध्यताम् तावत् एव एषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥
    रक्षांसि संध्या काले तु दुर्धर्षाणि भवन्ति हि ।

    इति उक्तः स तु ताम् यक्षीम् अश्म वृष्ट्या अभिवर्षणीम् ॥१-२६-२३॥
    दर्शयन् शब्द वेधित्वम् ताम् रुरोध स सायकैः ।

    सा रुद्धा बाण जालेन माया बल समन्विता ॥१-२६-२४॥
    अभि दुद्राव काकुत्स्थम् लक्षमणम् च विनेषुदी ॥

    ताम् आपतन्तीम् वेगेन विक्रान्ताम् अशनीम् इव ॥१-२६-२५॥
    शरेण उरसि विव्याध सा पपात ममार च ।

    ताम् हताम् भीम संकाशाम् दृष्ट्वा सुरपतिः तदा ॥१-२६-२६॥
    साधु साध्विति काकुत्स्थम् सुराः च अपि अभिपूजयन् ।

    उवाच परम प्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥
    सुराः च सर्वे संहृष्टा विश्वामित्रम् अथ अब्रुवन् ।

    मुने कौशिक भद्रम् ते सह इन्द्राः सर्वे मरुद् गणाः ॥१-२६-२८॥
    तोषिताः कर्मणा अनेन स्नेहम् दर्शय राघवे ।

    प्रजापतेः कृशाश्वस्य पुत्रान् सत्य पराक्रमान् ॥१-२६-२९॥
    तपो बल भृतो ब्रह्मन् राघवाय निवेदय ।

    पात्रभूतः च ते ब्रह्मन् तव अनुगमने रतः ॥१-२६-३०॥
    कर्तव्यम् सुमहत् कर्म सुराणाम् राज सूनुना ।

    एवम् उक्त्वा सुराः सर्वे जग्मुर् हृष्टा विहायसम् ॥१-२६-३१॥
    विश्वामित्रम् पूजयन् ततः संध्या प्रवर्तते ।

    ततो मुनिवरः प्रीतः ताटका वध तोषितः ॥१-२६-३२॥
    मूर्ध्नि रामम् उपाघ्राय इदम् वचनम् अब्रवीत् ।

    इह अद्य रजनीम् राम वसाम शुभ दर्शन ॥१-२६-३३॥
    श्वः प्रभाते गमिष्यामः तद् आश्रम पदम् मम ।

    विश्वामित्रः वचः श्रुत्वा हृष्टो दशरधात्मजः ॥१-२६-३४॥
    उवास रजनीम् तत्र ताटकाया वने सुखम् ।

    मुक्त शापम् वनम् तत् च तस्मिन् एव तत् आहनि ।
    रमणीयम् विबभ्राज यथा चैत्र रथम् वनम् ॥१-२६-३५॥

    निहत्य ताम् यक्ष सुताम् स रामः
    प्रशस्यमानः सुर सिद्ध सन्घैः ।
    उवास तस्मिन् मुनिना सह एव
    प्रभात वेलाम् प्रति बोध्यमानः ॥१-२६-३६॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षड्विंशः सर्गः ॥१-२६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥

    अथ ताम् रजनीम् उष्य विश्वामिरो महायशाः ।
    प्रहस्य राघवम् वाक्यम् उवाच मधुर स्वरम् ॥१-२७-१॥

    परितुष्टो अस्मि भद्रम् ते राजपुत्र महायशः ।
    प्रीत्या परमया युक्तो ददामि अस्त्राणि सर्वशः ॥१-२७-२॥

    देव असुर गणान् वा अपि स गन्धर्व उरगान् भुवि ।
    यैः अमित्रान् प्रसह्य आजौ वशीकृत्य जयिष्यसि ॥१-२७-३॥
    तानि दिव्यानि भद्रम् ते ददामि अस्त्राणि सर्वशः ।

    दण्ड चक्रम् महत् दिव्यम् तव दास्यामि राघव ॥१-२७-४॥
    धर्म चक्रम् ततो वीर काल चक्रम् तथैव च ।
    विष्णु चक्रम् तथा अति उग्रम् ऐन्द्रम् चक्रम् तथैव च ॥१-२७-५॥
    वज्रम् अस्त्रम् नरश्रेष्ठ शैवम् शूलवरम् तथा ।
    अस्त्रम् ब्रह्मशिरः च एव ऐषीकम् अपि राघव ॥१-२७-६॥
    ददामि ते महाबाहो ब्राह्मम् अस्त्रम् अनुत्तमम् ।

    गदे द्वे चैव काकुत्स्थ मोदकी शिखरी शुभे ॥१-२७-७॥
    प्रदीप्ते नरशार्दूल प्रयच्छामि नृपाअत्मज ।

    धर्म पाशम् अहम् राम काल पाशम् तथैव च ॥१-२७-८॥
    वारुणम् पाशम् अस्त्रम् च ददामि अहम् अनुत्तमम् ।

    अशनी द्वे प्रयच्छामि शुष्क आर्द्रे रघुनन्दन ॥१-२७-९॥
    ददामि च अस्त्रम् पैनाकम् अस्त्रम् नारायणम् तथा ।

    आग्नेयम् अस्त्रम् दयितम् शिखरम् नाम नामतः ॥१-२७-१०॥
    वायव्यम् प्रथमम् नाम ददामि तव च अनघ ।

    अस्त्रम् हयशिरः नाम क्रौञ्चम् अस्त्रम् तथैव च ॥१-२७-११॥
    शक्ति द्वयम् च काकुत्स्थ ददामि तव राघव ।

    कंकालम् मुसलम् घोरम् कापालम् अथ किन्किणीम् ॥१-२७-१२॥
    वधार्थम् राक्षसाम् यानि ददामि एतानि सर्वशः ।

    वैद्याधरम् महा अस्त्रम् च नन्दनम् नाम नामतः ॥१-२७-१३॥
    असि रत्नम् महाबाहो ददामि नृवरात्मज ।

    गान्धर्वम् अस्त्रम् दयितम् मोहनम् नाम नामतः ॥१-२७-१४॥
    प्रस्वापनम् प्रशमनम् दद्मि सौम्यम् च राघव ।

    वर्षणम् शोषणम् चैव संतापन विलापने ॥१-२७-१५॥
    मादनम् चैव दुर्धर्षम् कन्दर्प दयितम् तथा ।
    गान्धर्वम् अस्त्रम् दयितम् मानवम् नाम नामतः ॥१-२७-१६॥
    पैशाचम् अस्त्रम् दयितम् मोहनम् नाम नामतः ।
    प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥१-२७-१७॥

    तामसम् नरशार्दूल सौमनम् च महाबलम् ।
    संवर्तम् चैव दुर्धर्षम् मौसलम् च नृपात्मज ॥१-२७-१८॥
    सत्यम् अस्त्रम् महाबाहो तथा मायामयम् परम् ।
    सौरम् तेजःप्रभम् नाम पर तेजो अपकर्षणम् ॥१-२७-१९॥
    सोम अस्त्रम् शिशिरम् नाम त्वाष्ट्रम् अस्त्रम् सुदारुरणम् ।
    दारुणम् च भगस्य अपि शितेषुम् अथ मानवम् ॥१-२७-२०॥

    एतान् राम महाबाहो काम रूपान् महाबलान् ।
    गृहाण परमोदारान् क्षिप्रम् एव नृपात्मज ॥१-२७-२१॥

    स्थितः तु प्राङ्मुखो भूत्वा शुचिर् मुनिवरः तदा ।
    ददौ रामाय सुप्रीतो मंत्र ग्रामम् अनुत्तमम् ॥१-२७-२२॥

    सर्व संग्रहणम् एषाम् दैवतैः अपि दुर्लभम् ।
    तानि अस्त्राणि तदा विप्रो राघवाय न्यवेदत् ॥१-२७-२३॥

    जपतः तु मुनेः तस्य विश्वामित्रस्य धीमतः ।
    उपतस्थुः महा अर्हाणि सर्वाणि अस्त्राणि राघवम् ॥१-२७-२४॥

    ऊचुः च मुदिता रामम् सर्वे प्रांजलयः तदा ।
    इमे च परमोदार किंकराः तव राघव ॥१-२७-२५॥
    यद् यद् इच्छसि भद्रन् ते तत् सर्वम् करवाम वै ।

    ततो राम प्रसन्न आत्मा तैः इति उक्तो महाबलैः ॥१-२७-२६॥
    प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
    मनसा मे भविष्यध्वम् इति तानि अभ्यचोदयत् ॥१-२७-२७॥

    ततः प्रीत मना रामो विश्वामित्रम् महामुनिम् ।
    अभिवाद्य महातेजा गमनाय उपचक्रमे ॥१-२७-२८॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥

    प्रतिगृह्य ततः अस्त्राणि प्रहृष्ट वदनः शुचिः ।
    गच्छन् एव च काकुत्स्थो विश्वामित्रम् अथ अब्रवीत् ॥१-२८-१॥

    गृहीत अस्त्रो अस्मि भगवन् दुराधर्षः सुरैः अपि ।
    अस्त्राणाम् तु अहम् इच्छामि संहारम् मुनिपुंगव ॥१-२८-२॥

    एवम् ब्रुवति काकुत्स्थे विश्वामित्रो महा तपाः ।
    संहारान् व्याजहार अथ धृतिमान् सुव्रतः शुचिः ॥१-२८-३॥

    सत्यवन्तम् सत्य कीर्तिम् धृष्टम् रभसम् एव च ।
    प्रतिहारतरम् नाम पराङ्मुखम् अवाङ्मुखम् ॥१-२८-४॥
    लक्ष्या अलक्ष्याः इमौ चैव दृढ नाभ सुनाभकौ ।
    दशाक्ष शतवक्त्रौ च दश शीर्ष शत उदरौ ॥१-२८-५॥
    पद्मनाभ महानाभौ दुन्दुनाभ स्वनाभकौ ।
    ज्योतिषम् शकुनम् चैव नैराश्य विमलौ उभौ ॥१-२८-६॥
    यौगंधर विनिद्रौ च दैत्य प्रमधनौ तथा ।
    शुचि बाहुर् महाबाहुर् निष्कलि विरुचर् तथा
    सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरः तथा ॥१-२८-७॥
    पित्र्यः सौमनसः चैव विधूत मकरौ उभौ ।
    परवीरम् रतिम् चैव धन धान्यौ च राघव ॥१-२८-८॥
    कामरूपम् कामरुचिम् मोहम् आवरणम् तथा ।
    जृंभकम् सर्पनाथम् च पन्थान वरणौ तथा ॥१-२८-९॥
    कृशाश्व तनयान् राम भास्वरान् काम रूपिणः ।
    प्रतीच्छ मम भद्रम् ते पात्र भूतोऽसि राघव ॥१-२८-१०॥

    बाढम् इति एव काकुत्स्थ प्रहृष्टेन अंतरात्मना ।
    दिव्य भास्वर देहाः च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥
    केचिद् अंगार सदृशाः केचिद् धूम उपमाः तथा ।
    चन्द्र अर्क सदृशाः केचित् प्रह्व अंजलि पुटाः तथा ॥१-२८-१२॥
    रामम् प्रांजलयो भूत्वा अब्रुवन् मधुर भाषिणः ।
    इमे स्म नरशार्दूल शाधि किम् करवाम ते ॥१-२८-१३॥

    गम्यताम् इति तान् आह यथा इष्टम् रघुनन्दनः ।
    मानसाः कार्य कालेषु साहाय्यम् मे करिष्यथ ॥१-२८-१४॥

    अथ ते रामम् आमन्त्र्य कृत्वा च अपि प्रदक्षिणम् ।
    एवम् अस्तु इति काकुत्स्थम् उक्त्वा जग्मुः यथाआगतम् ॥१-२८-१५॥

    स च तान् राघवो ज्ञात्वा विश्वामित्रम् महामुनिम् ।
    गच्छन् एव अथ मधुरम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-२८-१६॥

    किम् एतन् मेघ संकाशम् पर्वतस्य अविदूरतः ।
    वृक्ष खण्डम् इतः भाति परम् कौतूहलम् हि मे ॥१-२८-१७॥
    दर्शनीयम् मृगाअकीर्णम् मनोहरम् अतीव च ।
    नाना प्रकारैः शकुनैः वल्गुभाषैः अलंकृतम् ॥१-२८-१८॥

    निःसृताः स्म मुनिश्रेष्ठ कान्तारात् रोमहर्षणात् ।
    अनया तु अवगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥
    सर्वम् मे शंस भगवन् कस्य आश्रम पदम् तु इदम् ।

    संप्राप्ताः यत्र ते पापाः ब्रह्मघ्नाः दुष्ट चारिणः ॥१-२८-२०॥
    तव यज्ञस्य विघ्नाय दुरात्मनो महामुनेः ।
    भगवन् तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-२१॥
    रक्षितव्या क्रिया ब्रह्मन् मया वध्याः च राक्षसाः ।
    एतत् सर्वम् मुनिश्रेष्टः श्रोतुम् इच्छामि अहम् प्रभो ॥१-२८-२२॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥

    अथ तस्य अप्रमेयस्य वचनम् परिपृच्छतः ।
    विश्वामित्रो महातेजा व्याख्यातुम् उपचक्रमे ॥१-२९-१॥

    इह राम महाबाहो विष्णुर् देव नमस्कृत ।
    वर्षाणि सुबहूनि इह तथा युग शतानि च ॥१-२९-२॥
    तपः चरण योगार्थम् उवास सु महातपाः ।

    एष पूर्व आश्रमो राम वामनस्य महात्मनः ॥१-२९-३॥
    सिद्ध आश्रम इति ख्यातः सिद्धो हि अत्र महातपाः ।

    एतस्मिन् एव काले तु राजा वैरोचनिर् बलिः ॥१-२९-४॥
    निर्जित्य दैवत गणान् स इन्द्रान् स मरुद् गणान् ।
    कारयामास तद् राज्यम् त्रिषु लोकेषु विश्रुतः ॥१-२९-५॥

    यज्ञम् चकार सुमहान् असुरेन्द्रो महाबलः ।
    बलेः तु यजमानस्य देवाः साग्नि पुरोगमाः ।
    समागम्य स्वयम् चैव विष्णुम् ऊचुः इह आश्रमे ॥१-२९-६॥

    बलिः वैरोचनिः विष्णो यजते यज्ञम् उत्तमम् ।
    असमाप्त व्रते तस्मिन् स्व कार्यम् अभिपद्यताम् ॥१-२९-७॥

    ये च एनम् अभिवर्तन्ते याचितार इतः ततः ।
    यत् च यत्र यथावत् च सर्वम् तेभ्यः प्रयच्छति ॥१-२९-८॥

    स त्वम् सुर हितार्थाय माया योगम् उपाश्रितः ।
    वामनत्वम् गतो विष्णो कुरु कल्याणम् उत्तमम् ॥१-२९-९॥

    एतस्मिन् अनन्तरे राम काश्यपो अग्नि सम प्रभः ।
    अदित्या सहितः राम दीप्यमान इव ओजसा ॥१-२९-१०॥
    देवी सहायो भगवन् दिव्यम् वर्ष सहस्रकम् ।
    व्रतम् समाप्य वरदम् तुष्टाव मधुसूदनम् ॥१-२९-११॥

    तपोमयम् तपोराशिम् तपोमूर्तिम् तपात्मकम् ।
    तपसा त्वाम् सुतप्तेन पश्यामि पुरोषोत्तमम् ॥१-२९-१२॥

    शरीरे तव पश्यामि जगत् सर्वम् इदम् प्रभो ।
    त्वम् अनादिः अनिर्देश्यः त्वाम् अहम् शरणम् गतः ॥१-२९-१३॥

    तम् उवाच हरिः प्रीतः कश्यपम् धूत कल्मषम् ।
    वरम् वरय भद्रम् ते वर अर्हः असि मतो मम ॥१-२९-१४॥

    तत् श्रुत्वा वचनम् तस्य मारीचः कश्यपो अब्रवीत् ।
    अदित्या देवतानाम् च मम च एव अनुयाचितम् ॥१-२९-१५॥
    वरम् वरद सुप्रीतो दातुम् अर्हसि सुव्रत ।

    पुत्रत्वम् गच्छ भगवन् अदित्या मम च अनघ ॥१-२९-१६॥
    भ्राता भव यवीयान् त्वम् शक्रस्य असुरसूदन ।
    शोक आर्तानाम् तु देवानाम् साहाय्यम् कर्तुम् अर्हसि ॥१-२९-१७॥

    अयम् सिद्ध आश्रमो नाम प्रसादात् ते भविष्यति ।
    सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन् इतः ॥१-२९-१८॥

    अथ विष्णुर् महातेजाअ आदित्याम् समजायत ।
    वामनम् रूपम् आस्थाय वैरोचनिम् उपागमत् ॥१-२९-१९॥

    त्रीन् पादान् अथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् ।
    आक्रम्य लोकान् लोकार्थो सर्व लोक हिते रतः ॥१-२९-२०॥
    महेन्द्राय पुनः प्रादात् नियम्य बलिम् ओजसा ।
    त्रैलोक्यम् स महातेजाः चक्रे शक्र वशम् पुनः ॥१-२९-२१॥

    तेन एव पूर्वम् आक्रान्त आश्रमः श्रम नाशनः ।
    मया अपि भक्त्या तस्य एव वामनस्य उपभुज्यते ॥१-२९-२२॥

    एनम् आश्रमम् आयान्ति राक्षसा विघ्न कारिणः ।
    अत्र ते पुरुषव्याघ्र हन्तव्या दुष्ट चारिणः ॥१-२९-२३॥

    अद्य गच्छामहे राम सिद्धाश्रमम् अनुत्तमम् ।
    तत् आश्रम पदम् तात तव अपि एतद् यथा मम ॥१-२९-२४॥

    इति उक्त्वा परम प्रीतो गृह्य रामम् स लक्ष्मणम् ।
    प्रविशन् आश्रम पदम् व्यरोचत महामुनिः ।
    शशी इव गत नीहारः पुनर्वसु समन्वितः ॥१-२९-२५॥

    तम् दृष्ट्वा मुनयः सर्वे सिद्धाश्रम निवासिनः ।
    उत्पत्योत्पत्य सहसा विश्वामित्रम् अपूजयन् ॥१-२९-२६॥

    यथा अर्हम् चक्रिरे पूजाम् विश्वामित्राय धीमते ।
    तथैव राज पुत्राभ्याम् अकुर्वन् अतिथि क्रियाम् ॥१-२९-२७॥

    मुहूर्तम् अथ विश्रान्तौ राज पुत्रौ अरिन्दमौ ।
    प्रांजली मुनि शार्दूलम् ऊचतू रघुनंदनौ ॥१-२९-२८॥

    अद्य एव दीक्षाम् प्रविश भद्रम् ते मुनिपुंगव ।
    सिद्धाश्रमो अयम् सिद्धः स्यात् सत्यम् अस्तु वचः तव ॥१-२९-२९॥

    एवम् उक्तो महातेजा विश्वामित्रो महानृषिः ।
    प्रविवेश तदा दीक्षाम् नियतो नियतेन्द्रियः ॥१-२९-३०॥

    कुमारौ एव ताम् रात्रिम् उषित्वा सुसमाहितौ ।
    प्रभात काले च उत्थाय पूर्वाम् संध्याम् उपास्य च ॥१-२९-३१॥
    प्रशुची परम् जाप्यम् समाप्य नियमेन च ।
    हुत अग्निहोत्रम् आसीनम् विश्वमित्रम् अवन्दताम् ॥१-२९-३२॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिंशः सर्गः ॥१-३०॥

    अथ तौ देश कालज्ञौ राजपुत्रौ अरिंदमौ ।
    देशे काले च वाक्यज्ञौ अब्रूताम् कौशिकम् वचः ॥१-३०-१॥

    भगवन् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ ।
    संरक्षणीयौ तौ ब्रूहि न अतिवर्तेत तत् क्षणम् ॥१-३०-२॥

    एवम् ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
    सर्वे ते मुनयः प्रीताः प्रशशंसुर् नृपात्मजौ ॥१-३०-३॥

    अद्य प्रभृति षट् रात्रम् रक्षतम् राघवौ युवाम् ।
    दीक्षाम् गतो हि येष मुनिर् मौनित्वम् च गमिष्यति ॥१-३०-४॥

    तौ तु तद् वचनम् श्रुत्वा राजपुत्रौ यशस्विनौ ।
    अनिद्रौ षट् अहोरात्रम् तपोवनम् अरक्षताम् ॥१-३०-५॥

    उपासाम् चक्रतुर् वीरौ यत्तौ परम धन्विनौ ।
    ररक्षतुर् मुनिवरम् विश्वामित्रम् अरिंदमौ ॥१-३०-६॥

    अथ काले गते तस्मिन् षष्ठे अहनि तदा आगते ।
    सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः ॥१-३०-७॥

    रामस्य एवम् ब्रुवाणस्य त्वरितस्य युयुत्सया ।
    प्रजज्वाल ततो वेदिः स उपाध्याय पुरोहिता ॥१-३०-८॥

    स दर्भ चमस स्रुक्का स समित् कुसुमोच्चया ।
    विश्वामित्रेण सहिता वेदिः जज्वाल स ऋत्विजा ॥१-३०-९॥

    मंत्रवत् च यथा न्यायम् यज्ञो असौ संप्रवर्तते ।
    आकाशे च महान् शब्दः प्रादुर् आसीत् भयानकः ॥१-३०-१०॥

    आवार्य गगनम् मेघो यथा प्रावृषि दृश्यते ।
    तथा मायाम् विकुर्वाणौ राक्षसौ अभ्यधावताम् ॥१-३०-११॥

    मारीचः च सुबाहुः च तयोर् अनुचराः तथा ।
    आगम्य भीम संकाशा रुधिर ओघान् अवासृजन् ॥१-३०-१२॥

    ताम् तेन रुधिर ओघेण वेदीम् वीक्ष्य समुक्षिताम् ।
    सहसा अभिद्रुतो रामः तान् अपश्यत् ततो दिवि ॥१-३०-१३॥

    तौ आपतन्तौ सहसा दृष्ट्वा राजीव लोचनः ।
    लक्ष्मणम् तौ अभिसंप्रेक्ष्य रामो वचनम् अब्रवीत् ॥१-३०-१४॥

    पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशित अशनान् ।
    मानवास्त्र समाधूतान् अनिलेन यथा घनान् ॥१-३०-१५॥
    करिष्यामि न संदेहो न उत्सहे हन्तुम् ईदृशान् ।

    इति उक्त्वा वचनम् रामः चापे संधाय वेगवान् ॥१-३०-१६॥
    मानवम् परम उदारम् अस्त्रम् परम भास्वरम् ।
    चिक्षेप परम क्रुद्धो मारीच उरसि राघवः ॥१-३०-१७॥

    स तेन परमास्त्रेण मानवेन समाहितः ।
    संपूर्णम् योजन शतम् क्षिप्तः सागर संप्लवे ॥१-३०-१८॥

    विचेतनम् विघूर्णन्तम् शीतेषु बल पीडितम् ।
    निरस्तम् दृश्य मारीचम् रामो लक्ष्मणम् अब्रवीत् ॥१-३०-१९॥

    पश्य लक्ष्मण शीतेषुम् मानवम् मनु संहितम् ।
    मोहयित्वा नयति एनम् न च प्राणैर् व्ययुज्यत ॥१-३०-२०॥

    इमान् अपि वधिष्यामि निर्घृणान् दुष्ट चारिणः ।
    राक्षसान् पाप कर्मस्थान् यज्ञ घ्नान् रुधिर अशनान् ॥१-३०-२१॥

    इति उक्त्वा लक्ष्मणम् च अशु लाघवम् दर्शयन् इव ।
    संगृह्य सुमहत् च अस्त्रम् आग्नेयम् रघुनंदनः ।
    सुबाहु उरसि चिक्षेप स विद्धः प्रापतत् भुवि ॥१-३०-२२॥

    शेषान् वायव्यम् आदाय निजघान महायशाः ।
    राघवः परमोदारो मुनीनाम् मुदम् आवहन् ॥१-३०-२३॥

    स हत्वा राक्षसान् सर्वान् यज्ञ घ्नान् रघुनंदनः ।
    ऋषिभिः पूजितः तत्र यथा इन्द्रो विजये पुरा ॥१-३०-२४॥

    अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
    निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत् ॥१-३०-२५॥

    कृतार्थो अस्मि महाबाहो कृतम् गुरु वचः त्वया ।
    सिद्धाश्रमम् इदम् सत्यम् कृतम् वीर महायशः ।
    स हि रामम् प्रशस्य एवम् ताभ्याम् संध्याम् उपागमत् ॥१-३०-२६॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रिंशः सर्गः ॥१-३०॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥

    अथ ताम् रजनीम् तत्र कृतार्थौ राम लक्षणौ ।
    ऊषतुर् मुदितौ वीरौ प्रहृष्टेन अंतरात्मना ॥१-३१-१॥

    प्रभातायाम् तु शर्वर्याम् कृत पौर्व अह्णिक क्रियौ ।
    विश्वामित्रम् ऋषीम् च अन्यान् सहितौ अभिजग्मतुः ॥१-३१-२॥

    अभिवाद्य मुनि श्रेष्ठम् ज्वलंतम् इव पावकम् ।
    ऊचतुर् परमोदारम् वाक्यम् मधुर भाषिणौ ॥१-३१-३॥

    इमौ स्म मुनि शार्दूल किंकरौ समुपस्थितौ ।
    आज्ञापय मुनिश्रेष्ठ शासनम् करवाव किम् ॥१-३१-४॥

    एवम् उक्ते तयोः वाक्यम् सर्व एव महर्षयः ।
    विश्वामित्रम् पुरस्कृत्य रामम् वचनम् अब्रुवन् ॥१-३१-५॥

    मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
    यज्नः परम धर्मिष्ठः तत्र यास्यामहे वयम् ॥१-३१-६॥

    त्वम् चैव नरशार्दूल सह अस्माभिर् गमिष्यसि ।
    अद्भुतम् च धनू रत्नम् तत्र त्वम् द्रष्टुम् अर्हसि ॥१-३१-७॥

    तद्धि पूर्वम् नरश्रेष्ठ दत्तम् सदसि दैवतैः ।
    अप्रमेय बलम् घोरम् मखे परम भास्वरम् ॥१-३१-८॥

    न अस्य देवा न गंधर्वा न असुरा न च राक्षसाः ।
    कर्तुम् आरोपणम् शक्ता न कथंचन मानुषाः ॥१-३१-९॥

    धनुषस्य तस्य वीर्यम् हि जिज्ञासन्तो महीक्षितः ।
    न शेकुर् आरोपयितुम् राजपुत्रा महाबलाः ॥१-३१-१०॥

    तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः ।
    तत्र द्रक्ष्यसि काकुत्स्थ यज्ञम् च परम अद्भुतम् ॥१-३१-११॥

    तद्धि यज्ञ फलम् तेन मैथिलेन उत्तमम् धनुः ।
    याचितम् नर शार्दूल सुनाभम् सर्व दैवतैः ॥१-३१-१२॥

    आयागभूतम् नृपतेः तस्य वेश्मनि राघव ।
    अर्चितम् विविधैः गन्धैः धूपैः च अगुरु गंध्भिः ॥१-३१-१३॥

    एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा ।
    स ऋषि संघः स काकुत्स्थ आमंत्र्य वन देवताः ॥१-३१-१४॥

    स्वस्ति वो अस्तु गमिष्यामि सिद्धः सिद्ध आश्रमात् अहम् ।
    उत्तरे जाह्नवी तीरे हिमवंतम् शिलोच्चयम् ॥१-३१-१५॥

    इति उक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः ।
    उत्तराम् दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे ॥१-३१-१६॥

    तम् व्रजंतम् मुनिवरम् अन्वगात् अनुसारिणाम् ।
    शकटी शत मात्रम् तु प्रयाणे ब्रह्म वादिनाम् ॥१-३१-१७॥

    मृग पक्षि गणाः चैव सिद्ध आश्रम निवासिनः ।
    अनुजग्मुर् महात्मानम् विश्वामित्रम् तपोधनम् ॥१-३१-१८॥
    निवर्तयामास ततः स ऋसि सन्घः स पक्षिणः ।

    ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१९॥
    वासम् चक्रुर् मुनि गणाः शोणा कूले समाहिताः ।

    ते अस्तम् गते दिनकरे स्नात्वा हुत हुताशनाः ॥१-३१-२०॥
    विश्वामित्रम् पुरस्कृत्य निषेदुर् अमित ओजसः ।

    रामो अपि सह सौमित्रिः मुनीम् तान् अभिपूज्य च ॥१-३१-२१॥
    अग्रतो निषसाद अथ विश्वामित्रस्य धीमतः ।

    अथ रामो महातेजा विश्वामित्रम् तपोधनम् ॥१-३१-२२॥
    पप्रच्छ मुनिशार्दूलम् कौतूहल समन्वितः ।

    भगवन् कः नु अयम् देशः समृद्ध वन शोभितः ॥१-३१-२३॥
    श्रोतुम् इच्छामि भद्रम् ते वक्तुम् अर्हसि तत्त्वतः ।

    चोदितो राम वाक्येन कथयामास सुव्रतः ।
    तस्य देशस्य निखिलम् ऋषि मध्ये महातपाः ॥१-३१-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥

    ब्रह्म योनिर् महान् आसीत् कुशो नाम महातपाः ।
    अक्लिष्ट व्रत धर्मज्ञः सज्जन प्रति पूजकः ॥१-३२-१॥

    स महात्मा कुलीनायाम् युक्तायाम् सुमहाबलान् ।
    वैदर्भ्याम् जनयाम् आस चतुरः सदृशान् सुतान् ॥१-३२-२॥
    कुशाम्बम् कुशनाभम् च आसूर्तरजसम् वसुम् ।

    दीप्ति युक्तान् महोत्साहान् क्षत्रधर्म चिकीर्षया ॥१-३२-३॥
    तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
    क्रियताम् पालनम् पुत्रा धर्म प्राप्यथ पुष्कलम् ॥१-३२-४॥

    कुशस्य वचनम् श्रुत्वा चत्वारो लोक सत्तमाः ।
    निवेशम् चक्रिरे सर्वे पुराणाम् नृ वराः तदा ॥१-३२-५॥

    कुशाम्बः तु महातेजाः कौशांबीम् अकरोत् पुरीम् ।
    कुशनाभः तु धर्मात्मा पुरम् चक्रे महोदयम् ॥१-३२-६॥

    असूर्तरजसो राम धर्मारण्यम् महामतिः ।
    चक्रे पुरवरम् राजा वसुर् नाम गिरिव्रजम् ॥१-३२-७॥

    एषा वसुमती नाम वसोः तस्य महात्मनः ।
    एते शैलवराः पंच प्रकाशन्ते समंततः ॥१-३२-८॥

    सुमागधी नदी रम्या मागधान् विश्रुता आययौ ।
    पंचानाम् शैल मुख्यानाम् मध्ये माला इव शोभते ॥१-३२-९॥

    सा एषा हि मागधी राम वसोः तस्य महात्मनः ।
    पूर्व अभिचरिता राम सुक्षेत्रा सस्य मालिनी ॥१-३२-१०॥

    कुशनाभः तु राजर्षिः कन्या शतम् अनुत्तमम् ।
    जनयामास धर्मात्मा घृताच्याम् रघु नंदन ॥१-३२-११॥

    ताः तु यौवन शालिन्यो रूपवत्यः स्वलंकृताः ।
    उद्यान भूमिम् आगम्य प्रावृषि इव शतह्रदाः ॥१-३२-१२॥
    गायंत्यो नृत्यमानाः च वादयंत्यः च राघव ।
    आमोदम् परमम् जग्मुर् वर आभरण भूषिताः ॥१-३२-१३॥

    अथ ताः चारु सर्व अंग्यो रूपेण अप्रतिमा भुवि ।
    उद्यान भूमिम् आगम्य तारा इव घन अन्तरे ॥१-३२-१४॥

    ताः सर्वगुण संपन्ना रूप यौवन संयुताः ।
    दृष्ट्वा सर्वात्मको वायुर् इदम् वचनम् अब्रवीत् ॥१-३२-१५॥

    अहम् वः कामये सर्वा भार्या मम भविष्यथ ।
    मानुषः त्यज्यताम् भावो दीर्घम् आयुर् अवाप्स्यथ ॥१-३२-१६॥

    चलम् हि यौवनम् नित्यम् मानुषेषु विशेषतः ।
    अक्षयम् यौवनम् प्राप्ता अमर्यः च भविष्य्थ ॥१-३२-१७॥

    तस्य तद् वचनम् श्रुत्वा वायोः अक्लिष्ट कर्मणः ।
    अपहास्य ततो वाक्यम् कन्या शतम् अथ अब्रवीत् ॥१-३२-१८॥

    अन्तः चरसि भूतानाम् सर्वेषाम् त्वम् सुर सत्तम ।
    प्रभावज्ञाः च ते सर्वाः किम् अर्थम् अवमन्यसे ॥१-३२-१९॥

    कुशनाभ सुताः देवम् समस्ता सुर सत्तम ।
    स्थानात् च्यावयितुम् देवम् रक्षामः तु तपो वयम् ॥१-३२-२०॥

    मा भूत् स कालो दुर्मेधः पितरम् सत्य वादिनम् ।
    अवमन्यस्व स्व धर्मेण स्वयम् वरम् उपास्महे ॥१-३२-२१॥

    पिता हि प्रभुर् अस्माकम् दैवतम् परमम् च सः ।
    यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥

    तासाम् तु वचनम् श्रुत्वा हरिः परम कोपनः ।
    प्रविश्य सर्व गात्राणि बभंज भगवान् प्रभुः ॥१-३२-२३॥

    ताः कन्या वायुना भग्ना विविशुर् नृपतेः गृहम् ।
    प्रविश्य च सुसंभ्रान्ताः स लज्जाः स अस्र लोचन ॥१-३२-२४॥

    स च ता दयिता भग्नाः कन्याः परम शोभनाः ।
    दृष्ट्वा दीनाः तदा राजा संभ्रांत इदम् अब्रवीत् ॥१-३२-२५॥

    किम् इदम् कथ्यताम् पुत्र्यः को धर्मम् अवमन्यते ।
    कुब्जाः केन कृताः सर्वाः चेष्टन्त्यो न अभिभाषथ ।
    एवम् राजा विनिःश्वस्य समाधिम् संदधे ततः ॥१-३२-२६॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥

    तस्य तद् वचनम् श्रुत्वा कुशनाभस्य धीमतः ।
    शिरोभिः चरणौ स्पृष्ट्वा कन्या शतम् अभाषत ॥१-३३-१॥

    वायुः सर्वात्मको राजन् प्रधर्षयितुम् इच्छति ।
    अशुभम् मार्गम् आस्थाय न धर्मम् प्रत्यवेक्षते ॥१-३३-२॥

    पितृमत्यः स्म भद्रम् ते स्वच्छन्दे न वयम् स्थिताः ।
    पितरम् नो वृणीष्व त्वम् यदि नो दास्यते तव ॥१-३३-३॥

    तेन पाप अनुबन्धेन वचनम् न प्रतीच्छता ।
    एवम् ब्रुवंत्यः सर्वाः स्म वायुना अभिहता भृषम् ॥१-३३-४॥

    तासाम् तु वचनम् श्रुत्वा राजा परम धार्मिकः ।
    प्रत्युवाच महातेजाः कन्या शतम् अनुत्तमम् ॥१-३३-५॥

    क्षान्तम् क्षमावताम् पुत्र्यः कर्तव्यम् सुमहत् कृतम् ।
    ऐकमत्यम् उपागम्य कुलम् च आवेक्षितम् मम ॥१-३३-६॥

    अलंकारो हि नारीणाम् क्षमा तु पुरुषस्य वा ।
    दुष्करम् तत् च वै क्षान्तम् त्रिदशेषु विशेषतः ॥१-३३-७॥
    यादृशीः वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः ।

    क्षमा दानम् क्षमा सत्यम् क्षमा यज्ञः च पुत्रिकाः ॥१-३३-८॥
    क्षमा यशः क्षमा धर्मः क्षमायाम् विष्ठितम् जगत् ।

    विसृज्य कन्याः काकुत्स्थ राजा त्रिदश विक्रमः ॥१-३३-९॥
    मंत्रज्ञो मंत्रयामास प्रदानम् सह मंत्रिभिः ।
    देशे काले च कर्तव्यम् सदृशे प्रतिपादनम् ॥१-३३-१०॥

    एतस्मिन् एव काले तु चूली नाम महाद्युतिः ।
    ऊर्ध्व रेताः शुभाचारो ब्राह्मम् तप उपागमत् ॥१-३३-११॥

    तपस्यंतम् ऋषिम् तत्र गंधर्वी पर्युपासते ।
    सोमदा नाम भद्रम् ते ऊर्मिला तनया तदा ॥१-३३-१२॥

    सा च तम् प्रणता भूत्वा शुश्रूषण परायणा ।
    उवास काले धर्मिष्ठा तस्याः तुष्टो अभवत् गुरुः ॥१-३३-१३॥

    स च ताम् काल योगेन प्रोवाच रघु नंदन ।
    परितुष्टो अस्मि भद्रम् ते किम् करोमि तव प्रियम् ॥१-३३-१४॥

    परितुष्टम् मुनिम् ज्ञात्वा गन्धर्वी मधुर स्वरम् ।
    उवाच परम प्रीता वाक्यज्ञा वाक्य कोविदम् ॥१-३३-१५॥

    लक्ष्म्या समुदितो ब्राह्म्या ब्रह्म भूतो महातपाः ।
    ब्राह्मेण तपसा युक्तम् पुत्रम् इच्छामि धार्मिकम् ॥१-३३-१६॥

    अपतिः च अस्मि भद्रम् ते भार्या च अस्मि न कस्यचित् ।
    ब्राह्मेण उपगतायाः च दातुम् अर्हसि मे सुतम् ॥१-३३-१७॥

    तस्याः प्रसन्नो ब्रह्मर्षिर् ददौ ब्राह्मम् अनुत्तमम् ।
    ब्रह्मदत्त इति ख्यातम् मानसम् चूलिनः सुतम् ॥१-३३-१८॥

    स राजा ब्रह्मदत्तः तु पुरीम् अध्यवसत् तदा ।
    कांपिल्याम् परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥

    स बुद्धिम् कृतवान् राजा कुशनाभः सुधार्मिकः ।
    ब्रह्मदत्ताय काकुत्स्थ दातुम् कन्या शतम् तदा ॥१-३३-२०॥

    तम् आहूय महातेजा ब्रह्मदत्तम् महीपतिः ।
    ददौ कन्या शतम् राजा सुप्रीतेन अंतरात्मना ॥१-३३-२१॥

    यथा क्रमम् ततः पाणिम् जग्राह रघुनंदन ।
    ब्रह्मदत्तो महीपालः तासाम् देवपतिर् यथा ॥१-३३-२२॥

    स्पृष्ट मात्रे ततः पाणौ विकुब्जा विगत ज्वराः ।
    युक्ताः परमया लक्ष्म्या बभौ कन्या शतम् तदा ॥१-३३-२३॥

    स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
    बभूव परम प्रीतो हर्षम् लेभे पुनः पुनः ॥१-३३-२४॥

    कृत उद्वाहम् तु राजानम् ब्रह्मदत्तम् महीपतिः ।
    सदारम् प्रेषयामास स उपाध्याय गणम् तदा ॥१-३३-२५॥

    सोमदा अपि सुतम् दृष्ट्वा पुत्रस्य सदृशीम् क्रियाम् ।
    यथा न्यायम् च गन्धर्वी स्नुषाः ताः प्रत्यनंदत ।
    स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभम् प्रशस्य च ॥१-३३-२६॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥

    कृत उद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।
    अपुत्रः पुत्र लाभाय पौत्रीम् इष्टिम् अकल्पयत् ॥१-३४-१॥

    इष्ट्याम् तु वर्तमानायाम् कुशनाभम् महीपतिम् ।
    उवाच परमोदारः कुशो ब्रह्मसुतः तदा ॥१-३४-२॥

    पुत्रः ते सदृशः पुत्र भविष्यति सुधार्मिकः ।
    गाधिम् प्राप्स्यसि तेन त्वम् कीर्तिम् लोके च शाश्वतीम् ॥१-३४-३॥

    एवम् उक्त्वा कुशो राम कुशनाभम् महीपतिम् ।
    जगाम आकाशम् आविश्य ब्रह्म लोकम् सनातनम् ॥१-३४-४॥

    कस्यचित् तु अथ कालस्य कुशनाभस्य धीमतः ।
    जज्ञे परम धर्मिष्ठो गाधिः इति एव नामतः ॥१-३४-५॥

    स पिता मम काकुत्स्थ गाधिः परम धार्मिकः ।
    कुश वंश प्रसूतो अस्मि कौशिको रघुनंदन ॥१-३४-६॥

    पूर्वजा भगिनी च अपि मम राघव सुव्रता ।
    नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥

    सशरीरा गता स्वर्गम् भर्तारम् अनुवर्तिनी ।
    कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥

    दिव्या पुण्य उदका रम्या हिमवंतम् उपाश्रिता ।
    लोकस्य हितकार्य अर्थम् प्रवृत्ता भगिनी मम ॥१-३४-९॥

    ततो अहम् हिमवत् पार्श्वे वसामि नियतः सुखम् ।
    भगिन्याम् स्नेह संयुक्तः कौशिक्या रघुनंदन ॥१-३४-१०॥

    सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता ।
    पतिव्रता महाभागा कौशिकी सरिताम् वरा ॥१-३४-११॥

    अहम् हि नियमात् राम हित्वा ताम् समुपागतः ।
    सिद्ध आश्रमम् अनुप्राप्तः सिद्धो अस्मि तव तेजसा ॥१-३४-१२॥

    एषा राम मम उत्पत्तिः स्वस्य वंशस्य कीर्तिता ।
    देशस्य च महाबाहो यन् माम् त्वम् परिपृच्छसि ॥१-३४-१३॥

    गतो अर्ध रात्रः काकुत्स्थ कथाः कथयतो मम ।
    निद्राम् अभ्येहि भद्रम् ते मा भूत् विघ्नो अध्वनि इह नः ॥१-३४-१४॥

    निष्पन्दाः तरवः सर्वे निलीना मृग पक्षिणः ।
    नैशेन तमसा व्याप्ता दिशः च रघुनंदन ॥१-३४-१५॥

    शनैः विसृज्यते संध्या नभो नेत्रैः इव आवृतम् ।
    नक्षत्र तारा गहनम् ज्योतिर्भिः अवभासते ॥१-३४-१६॥

    उत्तिष्ठते च शीतांशुः शशी लोक तमो नुदः ।
    ह्लादयन् प्राणिनाम् लोके मनांसि प्रभया स्वया ॥१-३४-१७॥

    नैशानि सर्व भूतानि प्रचरंति ततः ततः ।
    यक्ष राक्षस संघाः च रौद्राः च पिशित अशनाः ॥१-३४-१८॥

    एवम् उक्त्वा महातेजा विरराम महामुनिः ।
    साधु साधु इति ते सर्वे मुनयो हि अभ्यपूजयन् ॥१-३४-१९॥

    कुशिकनाम् अयम् वंशो महान् धर्मपरः सदा ।
    ब्रह्म उपमा महात्मनः कुशवंश्या नरोत्तम ॥१-३४-२०॥

    विशेषेण भवान् एव विश्वामित्र महायशः ।
    कौशिकी सरिताम् श्रेष्ठः कुल उद्योतकरी तव ॥१-३४-२१॥

    मुदितैः मुनि शार्दूलैः प्रशस्तः कुशिक आत्मजः ।
    निद्राम् उपागमत् श्रीमान् अस्तम् गत इव अंशुमान् ॥१-३४-२२॥

    रामो अपि सह सौमित्रिः किंचित् आगत विस्मयः ।
    प्रशस्य मुनि शार्दूलम् निद्राम् समुपसेवते ॥१-३४-२३॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥

    उपास्य रात्रि शेषम् तु शोणा कूले महर्षिभिः ।
    निशायाम् सुप्रभातायाम् विश्वामित्रो अभ्यभाषत ॥१-३५-१॥

    सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।
    उत्तिष्ठ उत्तिष्ठ भद्रम् ते गमनाय अभिरोचय ॥१-३५-२॥

    तत् श्रुत्वा वचनम् तस्य कृत्वा पौर्व आह्णिक क्रियः ।
    गमनम् रोचयामास वाक्यम् च इदम् उवाच ह ॥१-३५-३॥

    अयम् शोणः शुभ जलो गाधः पुलिन मण्डितः ।
    कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१-३५-४॥

    एवम् उक्तः तु रामेण विश्वामित्रो अब्रवीत् इदम् ।
    एष पंथा मया उद्दिष्टो येन यान्ति महर्षयः ॥१-३५-५॥

    एवम् उक्त्वा महर्षयो विश्वमित्रेण धीमता ।
    पश्यन्तः ते प्रयाता वै वनानि विविधानि च ॥१-३५-६॥

    ते गत्वा दूरम् अध्वानम् गते अर्ध दिवसे तदा ।
    जाह्नवीम् सरिताम् श्रेष्ठाम् ददृशुर् मुनि सेविताम् ॥१-३५-७॥

    ताम् दृष्ट्वा पुण्य सलिलाम् हंस सारस सेविताम् ।
    बभूवुर् मुनयः सर्वे मुदिता सह राघवाः ॥१-३५-८॥

    तस्याः तीरे ततः चक्रुः ते आवास परिग्रहम् ।
    ततः स्नात्वा यथा न्यायम् संतर्प्य पितृ देवताः ॥१-३५-९॥
    हुत्वा चैव अग्निहोत्राणि प्राश्य च अमृतवत् हविः ।
    विविशुर् जाह्नवी तीरे शुभा मुदित मानसाः ॥१-३५-१०॥
    विश्वामित्रम् महात्मानम् परिवार्य समंततः ।

    विष्टिताः च यथा न्यायम् राघवो च यथा अर्हम् ।
    संप्रहृष्ट मना रामो विश्वामित्रम् अथ अब्रवीत् ॥१-३५-११॥

    भगवन् श्रोतुम् इच्छामि गङ्गाम् त्रि पथ गाम् नदीम् ।
    त्रैलोक्यम् कथम् आक्रम्य गता नद नदीपतिम् ॥१-३५-१२॥

    चोदितो राम वाक्येन विश्वामित्रो महामुनिः ।
    वृद्धिम् जन्म च गंगाया वक्तुम् एव उपचक्रमे ॥१-३५-१३॥

    शैलेन्द्रो हिमवान् राम धातूनाम् आकरो महान् ।
    तस्य कन्या द्वयम् राम रूपेण अप्रतिमम् भुवि ॥१-३५-१४॥

    या मेरु दुहिता राम तयोर् माता सुमध्यमा ।
    नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१-३५-१५॥

    तस्याम् गंग इयम् अभवत् ज्येष्ठा हिमवतः सुता ।
    उमा नाम द्वितीया अभूत् कन्या तस्य एव राघव ॥१-३५-१६॥

    अथ ज्येष्ठाम् सुराः सर्वे देव कार्य चिकीर्षया ।
    शैलेन्द्रम् वरयामासुः गंगाम् त्रि पथ गाम् नदीम् ॥१-३५-१७॥

    ददौ धर्मेण हिमवान् तनयाम् लोक पावनीम् ।
    स्वच्छंद पथ गाम् गंगाम् त्रैलोक्य हित काम्यया ॥१-३५-१८॥

    प्रतिगृह्य त्रिलोक अर्थम् त्रिलोक हित कांक्षिणः ।
    गंगाम् आदाय ते अगच्छन् कृतार्थेन अंतरात्मना ॥१-३५-१९॥

    या च अन्या शैल दुहिता कन्या आसीत् रघुनंदन ।
    उग्रम् सुव्रतम् आस्थाय तपः तेपे तपोधना ॥१-३५-२०॥

    उग्रेण तपसा युक्ताम् ददौ शैलवरः सुताम् ।
    रुद्राय अप्रतिरूपाय उमाम् लोक नमस्कृताम् ॥१-३५-२१॥

    एते ते शैल राजस्य सुते लोक नमस्कृते ।
    गंगा च सरिताम् श्रेष्ठा उमादेवी च राघव ॥१-३५-२२॥

    एतत् ते सर्वम् आख्यातम् यथा त्रि पथ गामिनी ।
    खम् गता प्रथमम् तात गतिम् गतिमताम् वर ॥१-३५-२३॥

    स एषा सुर नदी रम्या शैलेन्द्र तनया तदा ।
    सुर लोकम् समारूढा विपापा जल वाहिनी ॥१-३५-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥

    उक्त वाक्ये मुनौ तस्मिन् उभौ राघव लक्ष्मणौ ।
    प्रतिनंद्य कथाम् वीरौ ऊचतुः मुनि पुंगवम् ॥१-३६-१॥

    धर्म युक्तम् इदम् ब्रह्मन् कथितम् परमम् त्वया ।
    दुहितुः शैल राजस्य ज्येष्ठाय वक्तुम् अर्हसि ।
    विस्तरम् विस्तरज्ञो असि दिव्य मानुष संभवम् ॥१-३६-२॥

    त्रीन् पथो हेतुना केन पावयेत् लोक पावनी ।
    कथम् गङ्गा त्रिपथगा विश्रुता सरित् उत्तमा ॥१-३६-३॥
    त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।

    तथा ब्रुवति काकुत्स्थे विश्वामित्रः तपोधनः ॥१-३६-४॥
    निखिलेन कथाम् सर्वाम् ऋषि मध्ये न्यवेदयत् ।

    पुरा राम कृत उद्वाहः शिति कण्ठो महा तपाः ॥१-३६-५॥
    दृष्ट्वा च भगवान् देवीम् मैथुनाय उपचक्रमे ।

    तस्य संक्रीडमानस्य महादेवस्य धीमतः ।
    शितिकण्ठस्य देवस्य दिव्यम् वर्ष शतम् गतम् ॥१-३६-६॥
    न च अपि तनयो राम तस्याम् आसीत् परंतप ।

    सर्वे देवाः समुद्युक्ताः पितामह पुरोगमाः ॥१-३६-७॥
    यत् इह उत्पद्यते भूतम् कः तत् प्रतिसहिष्यति ।

    अभिगम्य सुराः सर्वे प्रणिपत्य इदम् अब्रुवन् ॥१-३६-८॥
    देव देव महादेव लोकस्य अस्य हिते रत ।
    सुराणाम् प्रणिपातेन प्रसादम् कर्तुम् अर्हसि ॥१-३६-९॥

    न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
    ब्राह्मेण तपसा युक्तो देव्या सह तपः चर ॥१-३६-१०॥
    त्रैलोक्य हित काम अर्थम् तेजः तेजसि धारय ।
    रक्ष सर्वान् इमान् लोकान् न अलोकम् कर्तुम् अर्हसि ॥१-३६-११॥

    देवतानाम् वचः श्रुत्वा सर्व लोक महेश्वरः ।
    बाढम् इति अब्रवीत् सर्वान् पुनः च इदम् उवाच ह ॥१-३६-१२॥

    धारयिष्यामि अहम् तेजः तेजसि एव सह उमया ।
    त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु ॥१-३६-१३॥

    यद् इदम् क्षुभितम् स्थानात् मम तेजो हि अनुत्तमम् ।
    धारयिष्यति कः तत् मे ब्रुवन्तु सुर सत्तमाः ॥१-३६-१४॥

    एवम् उक्ताः ततो देवाः प्रत्यूचुर् वृषभ ध्वजम् ।
    यत् तेजः क्षुभितम् हि अद्य तद् धरा धारयिष्यति ॥१-३६-१५॥

    एवम् उक्तः सुर पतिः प्रमुमोच महाबलः ।
    तेजसा पृथिवी येन व्याप्ता स गिरि कानना ॥१-३६-१६॥

    ततो देवाः पुनर् इदम् ऊचुः च अपि हुताशनम् ।
    आविश त्वम् महातेजो रौद्रम् वायु समन्वितः ॥१-३६-१७॥

    तद् अग्निना पुनर् व्याप्तम् संजातम् श्वेत पर्वतम् ।
    दिव्यम् शरवणम् चैव पावक आदित्य संनिभम् ॥१-३६-१८॥
    यत्र जातो महातेजाः कार्तिकेयो अग्नि संभवः ।

    अथ उमाम् च शिवम् चैव देवाः स ऋषि गणाः तदा ॥१-३६-१९॥
    पूजयामासुः अत्यर्थम् सुप्रीत मनसः ततः ।

    अथ शैल सुता राम त्रिदशान् इदम् अब्रवीत् ॥
    समन्युः अशपत् सर्वान् क्रोध संरक्त लोचना ।

    यस्मात् निवारिता च अहम् संगता पुत्र काम्यया ॥१-३६-२०॥
    अपत्यम् स्वेषु दारेषु न उत्पदयितुम् अर्हथ ।

    अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः ॥१-३६-२१॥
    एवम् उक्त्वा सुरान् सर्वान् शशाप पृथिवीम् अपि ।

    अवने न एक रूपा त्वम् बहु भार्या भविष्यसि ॥१-३६-२२॥
    न च पुत्र कृताम् प्रीतिम् मत् क्रोध कलुषीकृता ।
    प्राप्स्यसि त्वम् सुदुर्मेधे मम पुत्रम् अनिच्छती ॥१-३६-२३॥

    तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिः तदा ।
    गमनाय उपचक्राम दिशम् वरुण पालिताम् ॥१-३६-२४॥

    स गत्वा तप आतिष्ठत् पार्श्वे तस्य उत्तरे गिरेः ।
    हिमवत् प्रभवे शृंगे सह देव्या महेश्वरः ॥१-३६-२५॥

    एष ते विस्तरो राम शैल पुत्र्या निवेदितः ।
    गन्गायाः प्रभवम् चैव शृणु मे सह लक्ष्मण ॥१-३६-२६॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥

    - o - 

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३७॥

    तप्यमाने तदा देवे स इन्द्राः स अग्नि पुरोगमाः ।
    सेनापतिम् अभीप्सन्तः पितामहम् उपागमन् ॥१-३७-१॥

    ततो अब्रुवन् सुराः सर्वे भगवंतम् पितामहम् ।
    प्रणिपत्य सुराः राम स इन्द्राः स अग्नि पुरोगमाः ॥१-३७-२॥

    येन सेनापतिः देव दत्तो भगवता पुरा ।
    स तपः परम् आस्थाय तप्यते स्म सह उमया ॥१-३७-३॥

    यत् अत्र अनंतरम् कार्यम् लोकानाम् हित काम्यया ।
    संविधत्स्व विधानज्ञ त्वम् हि नः परमा गतिः ॥१-३७-४॥

    देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः ।
    सान्त्वयन् मधुरैः वाक्यैः त्रिदशान् इदम् अब्रवीत् ॥१-३७-५॥

    शैल पुत्र्या यत् उक्तम् तत् न प्रजाः स्वासु पत्निषु ।
    तस्या वचनम् अक्लिष्टम् सत्यम् एव न संशयः ॥१-३७-६॥

    इयम् आकाश गंगा यस्याम् पुत्रम् हुताशनः ।
    जनयिष्यति देवानाम् सेनापतिम् अरिंदमम् ॥१-३७-७॥

    ज्येष्ठा शैलेन्द्र दुहिता मानयिष्यति तम् सुतम् ।
    उमायाः तत् बहुमतम् भविष्यति न संशयः ॥१-३७-८॥

    तत् श्रुत्वा वचनम् तस्य कृतार्था रघुनन्दन ।
    प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन् ॥१-३७-९॥

    ते गत्वा परमम् राम कैलासम् धातु मण्डितम् ।
    अग्निम् नियोजयामासुः पुत्रार्थम् सर्व देवताः ॥१-३७-१०॥

    देव कार्यम् इदम् देव समाधत्स्व हुताशन ।
    शैल पुत्र्याम् महातेजो गंगायाम् तेज उत्सृज ॥१-३७-११॥

    देवतानाम् प्रतिज्ञाय गंगाम् अभ्येत्य पावकः ।
    गर्भम् धारय वै देवि देवतानाम् इदम् प्रियम् ॥१-३७-१२॥

    इति एतत् वचनम् श्रुत्वा दिव्यम् रूपम् अधारयत् ।
    स तस्या महिमाम् दृष्ट्वा समंतात् अवकीर्यत ॥१-३७-१३॥

    समंततः तदा देवीम् अभ्यषिंचत पावकः ।
    सर्व स्रोतांसि पूर्णानि गंगाया रघुनन्दन ॥१-३७-१४॥

    तम् उवाच ततो गंगा सर्व देव पुरोगमम् ।
    अशक्ता धारणे देव तेजः तव समुद्धतम् ॥१-३७-१५॥
    दह्यमाना अग्निना तेन संप्रव्यथित चेतना ।

    अथ अब्रवीत् इदम् गंगाम् सर्व देव हुताशनः ॥१-३७-१६॥
    इह हैमवते पार्श्वे गर्भो अयम् संनिवेश्यताम् ।

    श्रुत्वा तु अग्नि वचो गंगा तम् गर्भम् अतिभास्वरम् ॥१-३७-१७॥
    उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदा अनघ ।

    यत् अस्या निर्गतम् तस्मात् तप्त जांबूनद प्रभम् ॥१-३७-१८॥
    कांचनम् धरणीम् प्राप्तम् हिरण्यम् अतुल प्रभम् ।

    ताम्रम् कार्ष्णायसम् चैव तैक्ष्ण्यात् एव अभिजायत ॥१-३७-१९॥
    मलम् तस्य अभवत् तत्र त्रपु सीसकम् एव च ।
    तत् एतत् धरणीम् प्राप्य नाना धातुः अवर्धत ॥१-३७-२०॥

    निक्षिप्त मात्रे गर्भे तु तेजोभिः अभिरंजितम् ।
    सर्वम् पर्वत संनद्धम् सौवर्णम् अभवत् वनम् ॥१-३७-२१॥

    जातरूपम् इति ख्यातम् तदा प्रभृति राघव ।
    सुवर्णम् पुरुषव्याघ्र हुताशन सम प्रभम् ।
    तृण वृक्ष लता गुल्मम् सर्वम् भवति कांचनम् ॥१-३७-२२॥

    तम् कुमारम् ततो जातम् स इन्द्राः सह मरुद् गणाः ।
    क्षीर संभावन अर्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥

    ताः क्षीरम् जात मात्रस्य कृत्वा समयम् उत्तमम् ।
    ददुः पुत्रो अयम् अस्माकम् सर्वासाम् इति निश्चिताः ॥१-३७-२४॥

    ततः तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।
    पुत्रः त्रैलोक्य विख्यातो भविष्यति न संशयः ॥१-३७-२५॥

    तेषाम् तत् वचनम् श्रुत्वा स्कन्नम् गर्भ परिस्रवे ।
    स्नापयन् परया लक्ष्म्या दीप्यमानम् यथा अनलम् ॥१-३७-२६॥

    स्कंद इति अब्रुवन् देवाः स्कन्नम् गर्भ परिस्रवात् ।
    कार्तिकेयम् महाबाहुम् काकुत्स्थ ज्वलन उपमम् ॥१-३७-२७॥

    प्रादुर्भूतम् ततः क्षीरम् कृत्तिकानाम् अनुत्तमम् ।
    षण्णाम् षड् आननो भूत्वा जग्राह स्तनजम् पयः ॥१-३७-२८॥

    गृहीत्वा क्षीरम् एक अह्ना सुकुमार वपुः तदा ।
    अजयत् स्वेन वीर्येण दैत्य सैन्य गणान् विभुः ॥१-३७-२९॥

    सुर सेना गण पतिम् अभ्यषिंचत् महाद्युतिम् ।
    ततः तम् अमराः सर्वे समेत्य अग्नि पुरोगमाः ॥१-३७-३०॥

    एष ते राम गंगाया विस्तरो अभिहितो मया ।
    कुमार संभवः चैव धन्यः पुण्यः तथैव च ॥१-३७-३१॥

    भक्तः च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
    आयुष्मान् पुत्र पौत्रः च स्कन्द सालोक्यताम् व्रजते ॥१-३७-३२॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥

    ताम् कथाम् कौशिको रामे निवेद्य मधुर अक्षरम् ।
    पुनः एव अपरम् वाक्यम् काकुत्स्थम् इदम् अब्रवीत् ॥१-३८-१॥

    अयोध्या अधिपतिः वीरः पूर्वम् आसीत् नराधिपः ।
    सगरो नाम धर्मात्मा प्रजाकामः स च अप्रजः ॥१-३८-२॥

    वैदर्भ दुहिता राम केशिनी नाम नामतः ।
    ज्येष्ठा सगर पत्नी सा धर्मिष्ठा सत्य वादिनी ॥१-३८-३॥

    अरिष्ठनेमि दुहिता सुपर्ण भगिनी तु सा ।
    द्वितीया सगरस्य आसीत् पत्नी सुमति संज्ञिता ॥१-३८-४॥

    ताभ्याम् सह महाराजा पत्नीभ्याम् तप्तवान् तपः ।
    हिमवंतम् समासाद्य भृगु प्रस्रवणे गिरौ ॥१-३८-५॥

    अथ वर्ष शते पूर्णे तपसा आराधितो मुनिः ।
    सगराय वरम् प्रादाद् भृगुः सत्यवताम् वरः ॥१-३८-६॥

    अपत्य लाभः सुमहान् भविष्यति तव अनघ ।
    कीर्तिम् च अप्रतिमाम् लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥

    एका जनयिता तात पुत्रम् वंशकरम् तव ।
    षष्टिम् पुत्र सहस्राणि अपरा जनयिष्यति ॥१-३८-८॥

    भाषमाणम् महात्मानम् राज पुत्र्यौ प्रसाद्य तम् ।
    ऊचतुः परम प्रीते कृतांजलि पुटे तदा ॥१-३८-९॥

    एकः कस्याः सुतो ब्रह्मन् का बहून् जनयिष्यति ।
    श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचः तव ॥१-३८-१०॥

    तयोः तत् वचनम् श्रुत्वा भृगुः परमधार्मिकः ।
    उवाच परमाम् वाणीम् स्वच्छन्दो अत्र विधीयताम् ॥१-३८-११॥

    एको वंश करो वा अस्तु बहवो वा महाबलाः ।
    कीर्तिमन्तो महोत्साहाः का वा कम् वरम् इच्छति ॥१-३८-१२॥

    मुनेः तु वचनम् श्रुत्वा केशिनी रघुनंदन ।
    पुत्रम् वंश करम् राम जग्राह नृप संनिधौ ॥१-३८-१३॥

    षष्टिम् पुत्र सहस्राणि सुपर्ण भगिनी तदा ।
    महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥

    प्रदक्षिणम् ऋषिम् कृत्वा शिरसा अभिप्रणम्य च ।
    जगाम स्व पुरम् राजा सभार्या रघु नन्दन ॥१-३८-१५॥

    अथ काले गते तस्मिन् ज्येष्ठा पुत्रम् व्यजायत ।
    असमंज इति ख्यातम् केशिनी सगरात्मजम् ॥१-३८-१६॥

    सुमतिः तु नरव्याघ्र गर्भ तुंबम् व्यजायत ।
    षष्टिः पुत्र सहस्राणि तुंब भेदात् विनिःसृताः ॥१-३८-१७॥

    घृत पूर्णेषु कुंभेषु धात्र्यः तान् समवर्धयन् ।
    कालेन महता सर्वे यौवनम् प्रतिपेदिरे ॥१-३८-१८॥

    अथ दीर्घेण कालेन रूप यौवनशालिनः ।
    षष्टिः पुत्र सहस्राणि सगरस्य अभवन् तदा ॥१-३८-१९॥

    स च ज्येष्ठो नरश्रेष्ठ सगरस्य आत्म संभवः ।
    बालान् गृहीत्वा तु जले सरय्वा रघुनंदन ॥१-३८-२०॥
    प्रक्षिप्य प्रहसन् नित्यम् मज्जतस् तान् निरीक्ष्य वै ।

    एवम् पाप समाचारः सज्जन प्रतिबाधकः ॥१-३८-२१॥
    पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात् ।

    तस्य पुत्रो अंशुमान् नाम असमंजस्य वीर्यवान् ॥१-३८-२२॥
    सम्मतः सर्व लोकस्य सर्वस्य अपि प्रियम् वदः ।

    ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥
    सगरस्य नरश्रेष्ठ यजेयम् इति निश्चिता ।

    स कृत्वा निश्चयम् राजा स उपाध्याय गणः तदा ।
    यज्ञ कर्मणि वेदज्ञो यष्टुम् समुपचक्रमे ॥१-३८-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥

    - o - 

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥

    विश्वामित्र वचः श्रुत्वा कथान्ते रघुनंदन ।
    उवाच परम प्रीतो मुनिम् दीप्तम् इव अनलम् ॥१-३९-१॥

    श्रोतुम् इच्छामि भद्रम् ते विस्तरेण कथाम् इमाम् ।
    पूर्वजो मे कथम् ब्रह्मन् यज्ञम् वै समुपाहरत् ॥१-३९-२॥

    तस्य तत् वचनम् श्रुत्वा कौतूहल समन्वितः ।
    विश्वामित्रः तु काकुत्स्थम् उवाच प्रहसन्निव ॥१-३९-३॥
    श्रूयताम् विस्तरो राम सगरस्य महात्मनः ।

    शंकर श्वशुरो नाम हिमवान् इति विश्रुतः ॥१-३९-४॥
    विंध्य पर्वतम् आसाद्य निरीक्षेते परस्परम् ।

    तयोर् मध्ये संभवत् यज्ञः स पुरुषोत्तम॥१-३९-५॥
    स हि देशो नरव्याघ्र प्रशस्तो यज्ञ कर्मणि।

    तस्य अश्व चर्याम् काकुत्स्थ दृढ धन्वा महारथः ॥१-३९-६॥
    अंशुमान् अकरोत् तात सगरस्य मते स्थितः ।

    तस्य पर्वणि तम् यज्ञम् यजमानस्य वासवः १-३९-७
    राक्षसीम् तनुम् आस्थाय यज्ञिय अश्वम् अपाहरत् ।

    ह्रियमाणे तु काकुत्स्थ तस्मिन् अश्वे महात्मनः ॥१-३९-७॥
    उपाध्याय गणाः सर्वे यजमानम् अथ अब्रुवन् ।

    अयम् पर्वणि वेगेन यज्ञिय अश्वो अपनीयते ॥१-३९-८॥
    हर्तारम् जहि काकुत्स्थ हयः च एव उपनीयताम् ।

    यज्ञः च्छिद्रम् भवति एतत् सर्वेषाम् अशिवाय नः ॥१-३९-९॥
    तत् तथा क्रियताम् राजन् यज्ञो अच्छिद्रः क्रुतो भवेत् ।

    सो उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-१०॥
    षष्टिम् पुत्र सहस्राणि वाक्यम् एतत् उवाच ह ।

    गतिम् पुत्रा न पश्यामि रक्षसाम् पुरुषर्षभाः ॥१-३९-११॥
    मंत्र पूतैः महाभागैः आस्थितो हि महाक्रतुः ।

    तत् गच्छत विचिन्वध्वम् पुत्रका भद्रम् अस्तु वः ॥१-३९-१२॥
    समुद्र मालिनीम् सर्वाम् पृथिवीम् अनुगच्छत ।

    एक एकम् योजनम् पुत्रा विस्तारम् अभिगच्छत ॥१-३९-१३॥
    यावत् तुरग संदर्शः तावत् खनत मेदिनीम् ।
    तम् एव हय हर्तारम् मार्गमाणा मम आज्ञया ॥१-३९-१४॥

    दीक्षितः पौत्र सहितः स उपाध्याय गणः तु अहम् ।
    इह स्थास्यामि भद्रम् वो यावत् तुरग दर्शनम् ॥१-३९-१५॥

    ते सर्वे हृष्टमनसो राज पुत्रा महाबलाः ।
    जग्मुर् मही तलम् राम पितुर् वचन यंत्रिताः ॥१-३९-१६॥

    गत्व तु पृथिवीम् सर्वम् अदृष्टा तम् महबलाः ।
    योजनायाम् अविस्तारम् एकैको धरणी तलम् ।
    बिभिदुः पुरुषव्याघ्र वज्र स्पर्श समैः भुजैः ॥१-३९-१७॥

    शूलैः अशनि कल्पैः च हलैः च अपि सुदारुणैः ।
    भिद्यमाना वसुमती ननाद रघुनंदन ॥१-३९-१८॥

    नागानाम् वध्यमानानाम् असुराणाम् च राघव ।
    राक्षसानाम् च दुर्धर्षः सत्त्वानाम् निनदो अभवत् ॥१-३९-१९॥

    योजनानाम् सहस्राणि षष्टिम् तु रघुनंदन ।
    बिभिदुर् धरणीम् राम रसा तलम् अनुत्तमम् ॥१-३९-२०॥

    एवम् पर्वत संबाधम् जम्बू द्वीपम् नृपात्मजाः ।
    खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२१॥

    ततो देवाः स गंधर्वाः स असुराः सह पन्नगाः ।
    संभ्रांत मनसः सर्वे पितामहम् उपागमन् ॥१-३९-२२॥

    ते प्रसाद्य महात्मानम् विषण्ण वदनाः तदा ।
    ऊचुः परम संत्रस्ताः पितामहम् इदम् वचः ॥१-३९-२३॥

    भगवन् पृथिवी सर्वा खन्यते सगर आत्मजैः ।
    बहवः च महात्मानो वध्यन्ते जल चारिणः ॥१-३९-२४॥

    अयम् यज्ञ हरो अस्माकम् अनेन अश्वो अपनीयते ।
    इति ते सर्व भूतानि हिंसन्ति सगर आत्मजः ॥१-३९-२५॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥

    देवतानाम् वचः श्रुत्वा भगवान् वै पितामहः ।
    प्रत्युवाच सुसंत्रस्तान् कृतान्त बल मोहितान् ॥१-४०-१॥

    यस्य इयम् वसुधा कृत्स्ना वासुदेवस्य धीमतः।
    महिषी माधवसय स एषा स एव भगवन् प्रभुः॥१-४०-२॥
    कापिलम् रूपम् आस्थाय धारयत्य अनिशम् धराम् ।
    तस्य कोपाग्निना दग्धा भविष्यंति नृपात्मजा ॥१-४०-३॥

    पृथिव्याः च अपि निर्भेदो दृष्ट एव सनातनः ।
    सगरस्य च पुत्राणाम् विनाशो दीर्घ दर्शिनाम् ॥१-४०-४॥

    पितामह वचः श्रुत्वा त्रयः त्रिंशत् अरिन्दमः ।
    देवाः परम संहृष्टाः पुनर् जग्मुर् यथा आगतम् ॥१-४०-५॥

    सगरस्य च पुत्राणाम् प्रादुर् आसीत् महास्वनः ।
    पृथिव्याम् भिद्यमानायाम् निर्घात सम निःवनः ॥१-४०-६॥

    ततो भित्त्वा महीम् सर्वाम् कृत्वा च अपि प्रदक्षिणम् ।
    सहिताः सगराः सर्वे पितरम् वाक्यम् अब्रुवन् ॥१-४०-७॥

    परिक्रांता मही सर्वा सत्त्ववन्तः च सूदिताः ।
    देव दानव रक्षांसि पिशाच उरग पन्नगाः ॥१-४०-८॥
    न च पश्यामहे अश्वम् ते अश्व हर्तारम् एव च ।
    किम् करिष्याम भद्रम् ते बुद्धिः अत्र विचार्यताम् ॥१-४०-९॥

    तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् राज सत्तमः ।
    समन्युः अब्रवीत् वाक्यम् सगरो रघुनंदन ॥१-४०-१०॥

    भूयः खनत भद्रम् वो विभेद्य वसुधा तलम्
    अश्व हर्तारम् आसाद्य कृतार्थाः च निवर्तत ॥१-४०-११॥

    पितुर् वचनम् आसाद्य सगरस्य महात्मनः ।
    षष्टिः पुत्र सहस्राणि रसातलम् अभिद्रवन् ॥१-४०-१२॥

    खन्यमाने ततः तस्मिन् ददृशुः पर्वत उपमम् ।
    दिशा गजम् विरूपाक्षम् धारयंतम् महीतलम् ॥१-४०-१३॥

    स पर्वत वनाम् कृत्स्नाम् पृथिवीम् रघुनंदन ।
    धारयामास शिरसा विरूपाक्षो महागजः ॥१-४०-१४॥

    यदा पर्वणि काकुत्स्थ विश्रमार्थम् महागजः ।
    खेदात् चालयते शीर्षम् भूमि कम्पः तदा भवेत् ॥१-४०-१५॥

    ते तम् प्रदक्षिणम् कृत्वा दिशा पालम् महागजम् ।
    मानयन्तो हि ते राम जग्मुर् भित्त्वा रसातलम् ॥१-४०-१६॥

    ततः पूर्वाम् दिशम् भित्त्वा दक्षिणाम् बिभिदुः पुनः ।
    दक्षिणस्याम् अपि दिशि ददृशुः ते महागजम् ॥१-४०-१७॥
    महा पद्मम् महात्मानम् सुमहा पर्वतोपमम् ।
    शिरसा धारयंतम् गाम् विस्मयम् जग्मुर् उत्तमम् ॥१-४०-१८॥

    ते तम् प्रदक्षिणम् कृत्वा सगरस्य महात्मनः ।
    षष्टिः पुत्र सहस्राणि पश्चिमाम् बिभिदुर् दिशम् ॥१-४०-१९॥

    पश्चिमायाम् अपि दिशि महांतम् अचलोपमम् ।
    दिशा गजम् सौमनसम् ददृशुः ते महा बलाः ॥१-४०-२०॥

    ते तम् प्रदक्षिणम् कृत्वा पृष्ट्वा च अपि निरामयम् ।
    खनंतः समुपक्रांता दिशम् सोमवतीम् तदा ॥१-४०-२१॥

    उत्तरस्याम् रघुश्रेष्ठ ददृशुर् हिम पाण्डुरम् ।
    भद्रम् भद्रेण वपुषा धारयंतम् महीम् इमाम् ॥१-४०-२२॥

    समालभ्य ततः सर्वे कृत्वा च एनम् प्रदक्षिणम् ।
    षष्टिः पुत्र सहस्राणि बिभिदुर् वसुधा तलम् ॥१-४०-२३॥

    ततः प्राक् उत्तराम् गत्वा सागराः प्रथिताम् दिशम् ।
    रोषात् अभ्यखनन् सर्वे पृथिवीम् सगर आत्मजाः ॥१-४०-२४॥

    ते तु सर्वे महत्मानो भिमवेग महबलाः ।
    ददृशुः कपिलम् तत्र वासुदेवम् सनातनम् ॥१-४०-२५॥
    हयम् च तस्य देवस्य चरन्तम् अविदूरतः ।
    प्रहर्षम् अतुलम् प्रप्तः सर्वे ते रघुनंदन ॥१-४०-२६॥

    ते तम् हय हरम् ज्ञात्वा क्रोध पर्याकुल ईक्षणाः ।
    खनित्र लांगला धर नाना वृक्ष शिला धराः ॥१-४०-२७॥
    अभ्यधावन्त संक्रुद्धाः तिष्ठ तिष्ठ इति च अब्रुवन् ।

    अस्माकम् त्वम् हि तुरगम् यज्ञियम् हृतवान् असि ॥१-४०-२८॥
    दुर्मेधः त्वम् हि संप्राप्तान् विद्धि नः सगरात्मजान् ।

    श्रुत्वा तत् वचनम् तेषाम् कपिलो रघुनंदन ॥१-४०-२९॥
    रोषेण महता आविष्टो हुम् कारम् अकरोत् तदा ।

    ततः तेन अप्रमेयेण कपिलेन महात्मना ।
    भस्म राशी कृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-३०॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥

    पुत्रान् चिर गतान् ज्ञात्वा सगरो रघुनंदन ।
    नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व तेजसा ॥१-४१-१॥

    शूरः च कृत विद्यः च पूर्वैः तुल्यो असि तेजसा ।
    पितृणाम् गतिम् अन्विच्छ येन च अश्वो अपहारितः ॥१-४१-२॥

    अन्तर् भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।
    तेषाम् त्वम् प्रतिघात अर्थम् स असिम् गृह्णीष्व कार्मुकम् ॥१-४१-३॥

    अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न करान् अपि ।
    सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥

    एवम् उक्तो अंशुमान् सम्यक् सगरेण महात्मना ।
    धनुर् आदाय खड्गम् च जगाम लघुविक्रमः ॥१-४१-५॥

    स खातम् पितृभिः मार्गम् अन्तर् भौमम् महात्मभिः ।
    प्रापद्यत नरश्रेष्ठ तेन राज्ञा अभिचोदितः ॥१-४१-६॥

    देव दानव रक्षोभिः पिशाच पतग उरगैः ।
    पूज्यमानम् महातेजा दिशा गजम् अपश्यत ॥१-४१-७॥

    स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् ।
    पितृइन् स परिपप्रच्छ वाजि हर्तारम् एव च ॥१-४१-८॥

    दिशा गजः तु तत् श्रुत्वा प्रत्युवाच महामतिः ।
    आसमंज कृतार्थः त्वम् सह अश्वः शीघ्रम् एष्यसि ॥१-४१-९॥

    तस्य तद् वचनम् श्रुत्वा सर्वान् एव दिशा गजान् ।
    यथा क्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे ॥१-४१-१०॥

    तैः च सर्वैः दिशा पालैः वाक्यज्ञैः वाक्यकोविदैः ।
    पूजितः स हयः चैव गन्ता असि इति अभिचोदितः ॥१-४१-११॥

    तेषाम् तत् वचनम् श्रुत्वा जगाम लघुविक्रमः ।
    भस्म राशी कृता यत्र पितरः तस्य सागराः ॥१-४१-१२॥

    स दुःख वशम् आपन्नः तु असमंज सुतः तदा ।
    चुक्रोश परम आर्तः तु वधात् तेषाम् सुदुःखितः ॥१-४१-१३॥

    यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः ।
    ददर्श पुरुषव्याघ्रो दुःख शोक समन्वितः ॥१-४१-१४॥

    स तेषाम् राज पुत्राणाम् कर्तु कामो जल क्रियाम् ।
    स जलार्थम् महातेजा न च अपश्यत् जल आशयम् ॥१-४१-१५॥

    विसार्य निपुणाम् दृष्टिम् ततो अपश्यत् खग अधिपम् ।
    पितृणाम् मातुलम् राम सुपर्णम् अनिल उपमम् ॥१-४१-१६॥

    स च एनम् अब्रवीत् वाक्यम् वैनतेयो महाबलः ।
    मा शुचः पुरुषव्याघ्र वधो अयम् लोक सम्मतः ॥१-४१-१७॥

    कपिलेन अप्रमेयेण दग्धा हि इमे महाबलाः ।
    सलिलम् न अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम् ॥१-४१-१८॥

    गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
    तस्याम् कुरु महाबाहो पितॄणाम् तु जल क्रियाम् ॥१-४१-१९॥

    भस्म राशी कृतान् एतान् पावयेत् लोक कांतया ।
    तया क्लिन्नम् इदम् भस्म गंगया लोक कान्तया ।
    षष्टिम् पुत्र सहस्राणि स्वर्ग लोकम् गमिष्यति ॥१-४१-२०॥

    निर्गच्छ च अश्वम् महाभाग संगृह्य पुरुषर्षभ ।
    यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि ॥१-४१-२१॥

    सुपर्ण वचनम् श्रुत्वा सः अंशुमान् अतिवीर्यवान् ।
    त्वरितम् हयम् आदाय पुनर् आयात् महायशाः ॥१-४१-२२॥

    ततो राजानम् आसाद्य दीक्षितम् रघुनंदन ।
    न्यवेदयत् यथा वृत्तम् सुपर्ण वचनम् तथा ॥१-४१-२३॥

    तत् श्रुत्वा घोर संकाशम् वाक्यम् अंशुमतो नृपः ।
    यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि ॥१-४१-२४॥

    स्व पुरम् च अगमत् श्रीमान् इष्ट यज्ञो महीपतिः ।
    गंगायाः च आगमे राजा निश्चयम् न अध्यगच्छत ॥१-४१-२५॥

    अगत्वा निश्चयम् राजा कालेन महता महान् ।
    त्रिंशत् वर्ष सहस्राणि राज्यम् कृत्वा दिवम् गतः ॥१-४१-२६॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥

    - o - 

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-४२॥

    कालधर्मम् गते राम सगरे प्रकृती जनाः ।
    राजानम् रोचयामासुर् अम्शुमन्तम् सुधार्मिकम् ॥१-४२-१॥

    स राजा सुमहान् आसीत् अंशुमान् रघुनंदन ।
    तस्य पुत्रो महान् आसीत् दिलीप इति विश्रुतः ॥१-४२-२॥

    तस्मै राज्यम् समादिश्य दिलीपे रघुनंदन ।
    हिमवत् शिखरे रम्ये तपः तेपे सुदारुणम् ॥१-४२-३॥

    द्वा त्रिंशत् सहस्राम् वर्षाणि सुमहा यशाः ।
    तपोवन गतो राजा स्वर्गम् लेभे तपोधनः ॥१-४२-४॥

    दिलीपः तु महातेजाः श्रुत्वा पैतामहम् वधम् ।
    दुःख उपहतया बुद्ध्या निश्चयम् न अध्यगच्छत ॥१-४२-५॥

    कथम् गंगा अवतरणम् कथम् तेषां जलक्रिया ।
    तारयेयम् कथम् च एतान् इति चिंतापरो अभवत् ॥१-४२-६॥

    तस्य चिंतयतो नित्यम् धर्मेण विदित आत्मनः ।
    पुत्रो भगीरथो नाम जज्ञे परम धार्मिकः ॥१-४२-७॥

    दिलीपः तु महातेजा यज्ञैः बहुभिः इष्टवान् ।
    त्रिंशत् वर्ष सहस्राणि राजा राज्यम् अकारयत् ॥१-४२-८॥

    अगत्वा निश्चयम् राजा तेषाम् उद्धरणम् प्रति ।
    व्याधिना नर शार्दूल काल धर्मम् उपेयिवान् ॥१-४२-९॥

    इन्द्रलोकम् गतो राजा स्व अर्जितेन एव कर्मणा ।
    रज्ये भगीरथम् पुत्रम् अभिषिच्य नरर्षभः ॥१-४२-१०॥

    भगीरथः तु राजर्षिः धार्मिको रघुनंदन ।
    अनपत्यो महारजाः प्रजा कामः स च प्रजाः ॥१-४२-११॥

    मंत्रिषु आधाय तत् रज्यम् गङ्ग अवतरणे रतः।
    तपो दीर्घम् समातिष्ठत् गोकर्णे रघुनंदन ॥१-४२-१२॥
    ऊर्ध्व बाहुः पंच तपा मास आहारो जितेइन्द्रियः ।

    तस्य वर्ष सहस्राणि घोरे तपसि तिष्ठतः ॥१-४२-१३॥
    अतीतानि महबहो तस्य राज्ञो महात्मनः ।
    सुप्रीतो भगवान् ब्रह्मा प्रजानाम् पतिः ईश्वरः ॥१-४२-१४॥

    ततः सुर गणैः सार्धम् उपागम्य पितामहः ।
    भगीरथम् महात्मानम् तप्यमानम् अथ अब्रवीत् ॥१-४२-१५॥

    भगीरथ महाराज प्रीतः ते अहम् जनाधिप ।
    तपसा च सुतप्तेन वरम् वरय सुव्रत ॥१-४२-१६॥

    तम् उवाच महातेजाः सर्वलोक पितामहम् ।
    भगीरथो महाबाहुः कृत अंजलिपुटः स्थितः ॥१-४२-१७॥

    यदि मे भगवान् प्रीतो यदि अस्ति तपसः फलम् ।
    सगरस्य आत्मजाः सर्वे मत्तः सलिलम् आप्नुयुः ॥१-४२-१८॥

    गन्गायाः सलिल क्लिन्ने भस्मनि एषाम् महात्मनाम् ।
    स्वर्गम् गच्छेयुर् अत्यंतम् सर्वे मे प्रपितामहाः ॥१-४२-१९॥

    देव याचे ह संतत्यै न अवसीदेत् कुलम् च नः ।
    इक्ष्वाकूणाम् कुले देव एष मे अस्तु वरः परः ॥१-४२-२०॥

    उक्त वाक्यम् तु राजानम् सर्वलोक पितामहः ।
    प्रत्युवाच शुभाम् वाणीम् मधुरम् मधुर अक्षराम् ॥१-४२-२१॥

    मनोरथो महान् एष भगीरथ महारथ ।
    एवम् भवतु भद्रम् ते इक्ष्वाकु कुल वर्धन ॥१-४२-२२॥

    इयम् हैमवती ज्येष्ठा गंगा हिमवतः सुता ।
    ताम् वै धारयितुम् राजन् हरः तत्र नियुज्यताम् ॥१-४२-२३॥

    गंगायाः पतनम् राजन् पृथिवी न सहिष्यते ।
    ताम् वै धारयितुम् राजन् न अन्यम् पश्यामि शूलिनः ॥१-४२-२४॥

    तम् एवम् उक्त्वा राजानम् गंगाम् च आभाष्य लोककृत् ।
    जगाम त्रिदिवम् देवैः सर्वैः सह मरुत् गणैः ॥१-४२-२५॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-४२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥

    देव देवे गते तस्मिन् सो अंगुष्ठ अग्र निपीडिताम् ।
    कृत्वा वसुमतीम् राम वत्सरम् समुपासत ॥१-४३-१॥

    अथ संवत्सरे पूर्णे सर्व लोक नमस्कृतः ।
    उमापतिः पशुपती राजानम् इदम् अब्रवीत् ॥१-४३-२॥

    प्रीतः ते अहम् नरश्रेष्ठ करिष्यामि तव प्रियम् ।
    शिरसा धारयिष्यामि शैलराज सुताम् अहम् ॥१-४३-३॥

    ततो हैमवती ज्येष्ठा सर्व लोक नमस्कृता ।
    तदा सा अति महत् रूपम् कृत्वा वेगम् च दुःसहम् ॥१-४३-४॥
    आकाशात् अपतत् राम शिवे शिव शिरस्य् उत ।

    अचिन्तयः च सा देवी गंग परम दुर्धरा ॥१-४३-५॥
    विशामि अहम् हि पातालम् स्त्रोतसा गृह्य शंकरम् ।

    तस्याः वलेपनम् ज्ञत्व क्रुद्धः तु भगवन् हरः ॥१-४३-६॥
    तिरोभावयितुम् बुद्धिम् चक्रे त्रिनयनः तदा ।

    सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि॥१-४३-७॥
    हिमवत् प्रतिमे राम जटा मण्डल गह्वरे ।

    सा कथंचित् महीम् गंतुम् न अशक्नोत् यत्नम् आस्थिता ॥१-४३-८॥
    न एव सा निर्गमम् लेभे जटा मण्डल अंततः ।

    तत्र एव आबंभ्रमत् देवी संवत्सर गणान् बहून् ॥१-४३-९॥
    ताम् अपश्यन् पुनः तत्र तपः परमम् आस्थितः ।

    स तेन तोषितः च असीत् अत्यंतम् रघुनंदन ॥१-४३-१०॥
    विससर्ज ततो गंगाम् हरो बिन्दु सरः प्रति ।

    तस्यम् विसृउज्यमानायाम् सप्त स्रोतंसि जज्ञिरे ॥१-४३-११॥
    ह्लादिनी पावनी चैव नलिनी च तथा एव च ।
    तिस्रः प्राचीम् दिशम् जग्मुः गंगाः शिव जलाः शुभाः ॥१-४३-१२॥

    सुचक्षुः च एव सीता च सिन्धुः च एव महानदी ।
    तिस्रः एता दिशम् जग्मुः प्रतीचीम् तु शुभ उदकाः ॥१-४३-१३॥

    सप्तमी च अन्वगात् तासम् भगीरथ रथम् तदा ।
    भगीरथो अपि रजर्षि दिव्यम् स्यंदनम् आस्थितः ॥१-४३-१४॥
    प्रायात् अग्रे महातेजा गंग तम् च अपि अनुव्रजत् ।

    गगनात् शंकर शिरः ततो धरणिम् आगता ॥१-४३-१५॥
    असर्पत जलम् तत्र तीव्र शब्द पुरस्कृतम् ।

    मत्स्य कच्छप संघैः च शिशुमार गणैः तथा ॥१-४३-१६॥
    पतद्भिः पतितैः च एव व्यरोचत वसुंधरा ।

    ततो देव ऋषि गंधर्वा यक्ष सिद्ध गणाः तथा ॥१-४३-१७॥
    व्यलोकयन्त ते तत्र गगनात् गाम् गताम् तदा ।

    विमानैः नगर आकारैः हयैः गज वरैः तथा ॥१-४३-१८॥
    पारिप्लव गताः च अपि देवताः तत्र विष्ठिताः ।

    तत् अद्भुततमम् लोके गंगा अवतरम् उत्तमम् ॥१-४३-१९॥
    दिदृक्षवो देव गणाः समीयुः अमित ओजसः ।

    संपतद्भिः सुर गणैः तेषाम् च आभरण ओजसा ॥१-४३-२०॥
    शत आदित्यम् इव आभाति गगनम् गत तोयदम् ।

    शिंशुमार उरग गणैः मीनैः अपि च चंचलैः ॥१-४३-२१॥
    विद्युद्भिः इव विक्षिप्तैः आकाशम् अभवत् तदा ।

    पाण्डुरैः सलिल उत्पीडैः कीर्यमाणैः सहस्रधा ॥१-४३-२२॥
    शारद अभ्रैः इव आक्रीणम् गगनम् हंस संप्लवैः ।

    क्वचित् द्रुततरम् याति कुटिलम् क्वचित् आयतम् ॥१-४३-२३॥
    विनतम् क्वचित् उद्धूतम् क्वचित् याति शनैः शनैः ।

    सलिलेन एव सलिलम् क्वचित् अभ्याहतम् पुनः ॥१-४३-२४॥
    मुहुर् ऊर्ध्व पथम् गत्वा पपात वसुधाम् पुनः ।

    तत् शंकर शिरो भ्रष्टम् भ्रष्टम् भूमि तले पुनः ॥१-४३-२५॥
    व्यरोचत तदा तोयम् निर्मलम् गत कल्मषम् ।

    तत्र ऋषि गण गन्धर्वा वसुधा तल वासिनः १-४३-२६
    भव अंग पतितम् तोयम् पवित्रम् इति पस्पृशुः ।

    शापात् प्रपतिता ये च गगनात् वसुधा तलम् ॥१-४३-२६॥
    कृत्वा तत्र अभिषेकम् ते बभूवुः गत कल्मषाः ।

    धूत पापाः पुनः तेन तोयेन अथ शुभ अन्विता ॥१-४३-२७॥
    पुनः आकाशम् आविश्य स्वान् लोकान् प्रतिपेदिरे ।

    मुमुदे मुदितो लोकः तेन तोयेन भास्वता ॥१-४३-२८॥
    कृत अभिषेको गंगायाम् बभूव गत कल्मषः ।

    भगीरथो राजर्षिः दिव्यम् स्यंदनम् आस्थितः ॥१-४३-२९॥
    प्रायात् अग्रे महाराजाः तम् गंगा पृष्ठतो अन्वगात् ।

    देवाः स ऋषि गणाः सर्वे दैत्य दानव राक्षसाः ॥१-४३-३०॥
    गन्धर्व यक्ष प्रवराः स किंनर महोरगाः ।
    सर्पाः च अप्सरसो राम भगीरथ रथ अनुगाः ॥१-४३-३१॥
    गंगाम् अन्वगमन् प्रीताः सर्वे जल चराः च ये ।

    यतो भगीरथो राजा ततो गंगा यशस्विनी ॥१-४३-३२॥
    जगाम सरिताम् श्रेष्ठा सर्व पाप प्रणाशिनी ।

    ततो हि यजमानस्य जह्नोः अद्भुत कर्मणः ॥१-४३-३३॥
    गंग संप्लावयामास यज्ञ वाटम् महत्मनः ।

    तसया वलेपनम् ज्ञत्व कृद्धो जह्नुः च राघव ॥१-४३-३४॥
    अपिबत् तु जलम् सर्वम् गंगयाः परम अद्भुतम् ।

    ततो देवाः स गंघर्व ऋषयः च सु विस्मिताः ॥१-४३-३५॥
    पूजयन्ति महत्मनम् जह्नुम् पुरुष सत्तमम् ।
    गंगम् च अपि नयन्ति स्म दुहितृत्वे महात्मनः ॥१-४३-३६॥

    ततः तुष्टः महातेजाः श्रोत्राभ्याम् असृउजत् प्रभुः ।
    तस्मात् जह्नु सुता गंग प्रोच्यते जाह्नवी इति च ॥१-४३-३७॥

    जगाम च पुनः गंग भगीरथ रथ अनुगा ।
    सागरम् च अपि संप्रप्ता सा सरित् प्रवरा तदा ॥१-४३-३८॥
    रसातलम् उपागच्छत् सिद्ध्यर्थम् तस्य कर्मणः ।

    भगीरथो अपि रजार्षि गंगम् आदाय यत्नतः ॥१-४३-३९॥
    पितमहान् भस्म क्रुतम् अपश्यत् गत चेतनः ।

    अथ तत् भस्मनाम् राशिम् गंग सलिलम् उत्तमम् ।
    प्लावयत् पूत पाप्मानः स्वर्गम् प्रप्ता रघु उत्तम ॥१-४३-४०॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥१-४३॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४४॥

    स गत्वा सागरम् राजा गंगया अनुगतस् तदा ।
    प्रविवेश तलम् भूमेः यत्र ते भस्मसात् कृताः ॥१-४४-१॥

    भस्मनि अथ आप्लुते राम गंगाइआः सलिलेन वै ।
    सर्व लोक प्रभुः ब्रह्मा राजानम् इदम् अब्रवीत् ॥१-४४-२॥

    तारिता नरशार्दूल दिवम् याताः च देववत् ।
    षष्टिः पुत्र सहस्राणि सगरस्य महात्मनः ॥१-४४-३॥

    सागरस्य जलम् लोके यावत् स्थास्यति पार्थिव ।
    सगरस्य आत्मजाः सर्वे दिवि स्थास्यन्ति देववत् ॥१-४४-४॥

    इयम् च दुहिता ज्येष्ठा तव गंगा भविष्यति ।
    त्वत् कृतेन च नाम्ना अथ लोके स्थास्यति विश्रुता ॥१-४४-५॥

    गंगा त्रिपथगा नाम दिव्या भागीरथी इति च ।
    त्रीन् पथो भावयन्ति इति तस्मत् त्रिपथगा स्मृता ॥१-४४-६॥

    पितामहानाम् सर्वेषाम् त्वम् अत्र मनुजाधिप ।
    कुरुष्व सलिलम् राजन् प्रतिज्ञाम् अपवर्जय ॥१-४४-७॥

    पूर्वकेण हि ते राजन् तेन अतियशसा तदा ।
    धर्मिणाम् प्रवरेण अथ न एष प्राप्तो मनोरथः ॥१-४४-८॥

    तथैव अंशुमता वत्स लोके अप्रतिम तेजसा ।
    गंगाम् प्रार्थयता नेतुम् प्रतिज्ञा न अपवर्जिता ॥१-४४-९॥

    राजर्षिणा गुणवता महर्षि सम तेजसा ।
    मत् तुल्य तपसा चैव क्षत्र धर्म स्थितेन च ॥१-४४-१०॥
    दिलीपेन महाभाग तव पित्रा अतितेजसा ।
    पुनर् न शकिता नेतुम् गंगाम् प्रार्थयत अनघ ॥१-४४-११॥

    सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ।
    प्राप्तो असि परमम् लोके यशः परम संमतम् ॥१-४४-१२॥

    तत् च गंगा अवतरणम् त्वया कृतम् अरिन्दम ।
    अनेन च भवान् प्राप्तो धर्मस्य आयतनम् महत् ॥१-४४-१३॥

    प्लावयस्व त्वम् आत्मानम् नरोत्तम सदा उचिते ।
    सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥१-४४-१४॥

    पितामहानाम् सर्वेषाम् कुरुष्व सलिलक्रियाम् ।
    स्वस्ति ते अस्तु गमिष्यामि स्वम् लोकम् गम्यताम् नृप ॥१-४४-१५॥

    इति एवम् उक्त्वा देवेशः सर्वलोक पितामहः ।
    यथा आगतम् तथा अगच्छत् देव लोकम् महायशाः ॥१-४४-१६॥

    भगीरथः तु राजर्षिः कृत्वा सलिलम् उत्तमम् ।
    यथाक्रमम् यथान्यायम् सागराणाम् महायशाः ॥१-४४-१७॥
    कृतोदकः शुची राजा स्वपुरम् प्रविवेश ह ।
    समृद्धार्थो नरश्रेष्ठ स्वराज्यम् प्रशशास ह ॥१-४४-१८॥

    प्रमुमोद च लोकः तम् नृपम् आसाद्य राघव ।
    नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥१-४४-१९॥

    एष ते राम गंगाया विस्तरो अभिहितो मया ।
    स्वस्ति प्राप्नुहि भद्रम् ते संध्या कालो अतिवर्तते ॥१-४४-२०॥

    धन्यम् यशस्यम् आयुष्यम् पुत्र्यम् स्वर्ग्यम् अथ अपि च ।
    यः श्रावयति विप्रेषु क्षत्रियेषु इतेरेषु च ॥१-४४-२१॥
    इदम् आKयनम् आयुश्यम् गंगा अवतरणम् शुभम् ॥१-४४-२२॥
    यः श्रुणोति च काकुत्स्थ सर्वान् कामान् अवाप्नुयात् ।
    सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिः च वर्धते ॥१-४४-२३॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥

    विश्वामित्र वचः श्रुत्वा राघवः सह लक्ष्मणः ।
    विस्मयम् परमम् गत्वा विश्वामित्रम् अथ अब्रवीत् ॥१-४५-१॥

    अति अद्भुतम् इदम् ब्रह्मन् कथितम् परमम् त्वया ।
    गंगा अवतरणम् पुण्यम् सागरस्य अपि पूरणम् ॥१-४५-२॥

    क्षण भूत इव नौ रात्रिः संवृत्त इयम् परंतप ।
    इमाम् चिंतयतोः सर्वम् निखिलेन कथाम् तव ॥१-४५-३॥

    तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह ।
    जगाम चिंतयान् अस्य विश्वामित्र कथाम् शुभाम् ॥१-४५-४॥

    ततः प्रभाते विमले विश्वामित्रम् तपोधनम्।
    उवाच राघवो वाक्यम् कृत आह्निकम् अरिन्दमः ॥१-४५-५॥

    गता भगवती रात्रिः श्रोतव्यम् परमम् श्रुतम् ।
    तराम सरितम् श्रेष्टम् पुण्यम् त्रि पथ गाम् नदीम् ॥१-४५-६॥

    नौः एषा हि सुख आस्तीर्णा ऋषीणाम् पुण्य कर्मणाम् ।
    भगवंतम् इह प्राप्तम् ज्ञात्वा त्वरितम् आगता ॥१-४५-७॥

    तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः ।
    संतारम् कारयामास स ऋषि संघस्य कौशिकः ॥१-४५-८॥

    उत्तरम् तीरम् आसाद्य संपूज्य ऋषि गणम् ततः ।
    गंगा कूले निविष्टाः ते विशालाम् ददृशुः पुरीम् ॥१-४५-९॥

    ततो मुनि वरः तूर्णम् जगाम सह राघवः ।
    विशालाम् नगरीम् रम्याम् दिव्याम् स्वर्ग उपमाम् तदा ॥१-४५-१०॥

    अथ रामो महाप्राज्ञो विश्वामित्रम् महामुनिम् ।
    पप्रच्छ प्रांजलिः भूत्वा विशालाम् उत्तमाम् पुरीम् ॥१-४५-११॥

    कतमो राज वंशो अयम् विशालायाम् महामुने ।
    श्रोतुम् इच्छामि भद्रम् ते परम् कौतूहलम् हि मे ॥१-४५-१२॥

    तस्य तत् वचनम् श्रुत्वा रामस्य मुनिपुंगवः ।
    आख्यातुम् तत् समारेभे विशालस्य पुरातनम् ॥१-४५-१३॥

    श्रूयताम् राम शक्रस्य कथाम् कथयतः श्रुताम् ।
    अस्मिन् देशे हि यत् वृत्तम् शृणु तत्त्वेन राघव ॥१-४५-१४॥

    पूर्वम् कृत युगे राम दितेः पुत्रा महाबलाः ।
    अदितेः च महाभागा वीर्यवन्तः सुधार्मिकाः ॥१-४५-१५॥

    ततः तेषाम् नरव्याघ्रः बुद्धिः आसीत् महात्मनाम् ।
    अमरा विर्जराः चैव कथम् स्यामो निरामयाः ॥१-४५-१६॥

    तेषाम् चिंतयताम् तत्र बुद्धिः आसीत् विपश्चिताम् ।
    क्षीर उद मथनम् कृत्वा रसम् प्राप्स्याम तत्र वै ॥१-४५-१७॥

    ततो निश्चित्य मथनम् योक्त्रम् कृत्वा च वासुकिम् ।
    मन्थानम् मन्दरम् कृत्वा ममन्थुर् अमित ओजसः ॥१-४५-१८॥

    अथ वर्ष सहस्रेण योक्त्र सर्प शिरांसि च ।
    वमन्तो अति विषम् तत्र ददंशुर् दशनैः शिलाः ॥१-४५-१९॥

    उत्पपाताम् अग्नि संकाशम् हालाहल महाविषम् ।
    तेन दग्धम् जगत् सर्वम् स देव असुर मानुषम् ॥१-४५-२०॥

    अथ देवा महादेवम् शंकरम् शरणार्थ्तिनः ।
    जग्मुः पशुपतिम् रुद्रम् त्राहि त्राहि इति तुष्टुवुः ॥१-४५-२१॥

    एवम् उक्{]तः ततो देवैः देवेश्वरः प्रभुः ।
    प्रादुर् आसीत् ततो अत्र एव शंख चक्र धरो हरिः ॥१-४५-२२॥

    उवाच एनम् स्मितम् कृत्वा रुद्रम् शूलधरम् हरिः ।
    दैवतैः मध्यमानो तु तत् पूर्वम् समुपस्थितम् ॥१-४५-२३॥
    तत् त्वदीयम् सुरश्रेष्ठः सुराणाम् अग्रतो हि यत् ।
    अग्र पूजामि इह स्थित्वा गृहाण इदम् विषम् प्रभो ॥१-४५-२४॥

    इति उक्त्वा च सुरश्रेष्ठः तत्र एव अंतर्धीयत ।
    देवतानाम् भयम् दृष्ट्वा श्रुत्वा वाक्यम् तु शारङ्गिणः ॥१-४५-२५॥
    हालाहलम् विषम् घोरम् संजग्राह अमृत उपमम् ।

    देवान् विसृउज्य देवेशो जगाम भगवान् हरः ॥१-४५-२६॥
    ततो देव असुराः सर्वे ममन्थू रघुनंदन ।

    प्रविवेश अथ पातालम् मन्थानः पर्वतोत्तमः ॥१-४५-२७॥
    ततो देवाः स गन्धर्वाः तुष्टुवुः मधुसूदनम् ।

    त्वम् गतिः सर्व भूतानाम् विशेषेण दिवौकसाम् ॥१-४५-२८॥
    पालय अस्मान् महाबाहो गिरिम् उद्धर्तुम् अर्हसि ।

    इति श्रुत्वा हृषीकेशः कामठम् रूपम् आस्थितः ॥१-४५-२९॥
    पर्वतम् पृष्टतः कृत्वा शिश्ये तत्र उदधौ हरिः ।

    पर्वत अग्रम् तु लोकात्मा हस्तेन आक्रम्य केशवः ॥१-४५-३०॥
    देवानाम् मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः ।

    अथ वर्ष सहस्रेण आयुर्वेदमयः पुमान् ॥१-४५-३१॥
    उदतिष्ठत् सुधर्मात्मा स दण्ड स कमण्दुलुः ।
    पूर्वम् धन्वन्तरिर् नाम अप्सराः च सु वर्चसः ॥१-४५-३२॥

    अप्सु निर्मथनात् एव रसात् तस्मात् वर स्त्रियः ।
    उत्पेतुः मनुज श्रेष्ठ तस्मात् अप्सरसो अभवन् ॥१-४५-३३॥

    षष्टिः कोट्यो अभवन् तासाम् अप्सराणाम् सुवर्चसाम् ।
    असंख्येयाः तु काकुत्स्थ याः तासाम् परिचारिकाः ॥१-४५-३४॥

    न ताः स्म प्रतिगृह्णन्ति सर्वे ते देव दानवाः ।
    अप्रतिग्रहणात् एव ता वै साधारणाः स्मृताः ॥१-४५-३५॥

    वरुणस्य ततः कन्या वारुणी रघुनंदन ।
    उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥१-४५-३६॥

    दितेः पुत्रा न ताम् राम जगृहुर् वरुण आत्मजाम् ।
    अदितेः तु सुता वीर जगृहुः ताम् अनिंदिताम् ॥१-४५-३७॥

    असुराः तेन दैतेयाः सुराः तेन अदितेः सुताः ।
    हृष्टाः प्रमुदिताः च आसन् वारुणी ग्रहणात् सुराः ॥१-४५-३८॥

    उच्चैःश्रवा हय श्रेष्ठो मणि रत्नम् च कौस्तुभम् ।
    उदतिष्ठन् नरश्रेष्ठ तथैव अमृतम् उत्तमम् ॥१-४५-३९॥

    अथ तस्य कृते राम महान् आसीत् कुल क्षयः ।
    अदितेः तु ततः पुत्रा दितेः पुत्रान् असूदयन् ॥१-४५-४०॥

    एकताम् अगमन् सर्वे असुरा राक्षसैः सह ।
    युद्धम् आसीत् महाघोरम् वीर त्रैलोक्य मोहनम् ॥१-४५-४१॥

    यदा क्षयम् गतम् सर्वम् तदा विष्णुः महाबलः ।
    अमृतम् सः अहरत् तूर्णम् मायाम् आस्थाय मोहिनीम् ॥१-४५-४२॥

    ये गता अभिमुखम् विष्णुम् अक्षरम् पुरुषोत्तमम् ।
    संपिष्टाः ते तदा युद्धे बिष्णुना प्रभ विष्णुना ॥१-४५-४३॥

    अदितेः आत्मजा वीरा दितेः पुत्रान् निजघ्निरे ।
    अस्मिन् घोरे महायुद्धे दैतेया अदित्यायोः भृशम् ॥१-४५-४४॥

    निहत्य दिति पुत्रान् तु राज्यम् प्राप्य पुरंदरः ।
    शशास मुदितो लोकान् स ऋषि संघान् स चारणान् ॥१-४५-४५॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥

    हतेषु तेषु पुत्रेषु दितिः परम दुःखिता ।
    मारीचम् काश्यपम् राम भर्तारम् इदम् अब्रवीत् ॥१-४६-१॥

    हत पुत्रा अस्मि भगवन् तव पुत्रैः महाबलैः ।
    शक्र हन्तारम् इच्छामि पुत्रम् दीर्घ तपो अर्जितम् ॥१-४६-२॥

    सा अहम् तपः चरिष्यामि गर्भम् मे दातुम् अर्हसि ।
    ईश्वरम् शक्र हन्तारम् त्वम् अनुज्ञातुम् अर्हसि ॥१-४६-३॥

    तस्याः तत् वचनम् श्रुत्वा मारीचः काश्यपः तदा ।
    प्रत्युवाच महातेजा दितिम् परम दुःखिताम् ॥१-४६-४॥

    एवम् भवतु भद्रम् ते शुचिः भव तपोधने ।
    जनयिष्यसि पुत्रम् त्वम् शक्र हन्तारम् आहवे ॥१-४६-५॥

    पूर्णे वर्ष सहस्रे तु शुचिः यदि भविष्यसि ।
    पुत्रम् त्रैलोक्य हन्तारम् मत्तः त्वम् जनयिष्यसि ॥१-४६-६॥

    एवम् उक्त्वा महा तेजाः पाणिना स ममार्ज ताम् ।
    तम् आलभ्य ततः स्वस्ति इति उक्त्वा तपसे ययौ ॥१-४६-७॥

    गते तस्मिन् नरश्रेष्ठ दितिः परम हर्षिता ।
    कुशप्लवम् सामासाद्य तपः तेपे सुदारुणम् ॥१-४६-८॥

    तपः तस्याम् हि कुर्वत्याम् परिचर्याम् चकार ह ।
    सहस्राक्षो नरश्रेष्ठ परया गुण संपदा ॥१-४६-९॥

    अग्निम् कुशान् काष्ठम् अपः फलम् मूलम् तथैव च ।
    न्यवेदयत् सहस्राक्षो यच् च अन्यत् अपि कान्क्षितम् ॥१-४६-१०॥

    गात्र संवाहनैः चैव श्रम अपनयनैः तथा ।
    शक्रः सर्वेषु कालेषु दितिम् परिचचार ह ॥१-४६-११॥

    पूर्णे वर्ष सहस्रे दश ऊने रघुनंदन ।
    दितिः परम संहृष्टा सहस्राक्षम् अथ अब्रवीत् ॥१-४६-१२॥

    तपः चरन्त्या वर्षाणि दश वीर्यवताम् वर ।
    अवशिष्टानि भद्रम् ते भ्रातरम् द्रक्ष्यसे ततः ॥१-४६-१३॥

    यम् अहम् त्वत् कृते पुत्र तम् आधास्ये जय उत्सुकम् ।
    त्रैलोक्य विजयम् पुत्र सह भोक्ष्यसि विज्वरः ॥१-४६-१४॥

    याचितेन सुरश्रेष्ट पित्रा तव माहात्मना ।
    वरो वर्ष सस्र अन्ते मम दत्तः सुतम् प्रति ॥१-४६-१५॥

    इति उक्त्वा च दितिः तत्र प्राप्ते मध्यन्दिन ईश्वरे ।
    निद्रया पहृता देवी पादौ कृत्वाथ शीर्षतः ॥१-४६-१६॥

    दृष्ट्वा ताम् अशुचिम् शक्रः पादयोः कृत मूर्धजाम् ।
    शिरः स्थाने कृतौ पादौ जहास च मुमोद च ॥१-४६-१७॥

    तस्याः शरीर विवरम् प्रविवेश पुरंदरः ।
    गर्भम् च सप्तधा राम चिच्छेद परम आत्मवान् ॥१-४६-१८॥

    भिद्यमानः ततो गर्भो वज्रेण शत पर्वणा ।
    रुरोद सुस्वरम् राम ततो दितिः अबुध्यत ॥१-४६-१९॥

    मा रुदो मा रुदः च इति गर्भम् शक्रो अभ्यभाषत ।
    बिभेद च महातेजा रुदन्तम् अपि वासवः ॥१-४६-२०॥

    न हन्तव्यम् न हन्तव्यम् इति एवम् दितिः अब्रवीत् ।
    निष्पपात ततः शक्रो मातुर् वचन गौरवात् ॥१-४६-२१॥

    प्रांजलिः वज्र सहितो दितिम् शक्रो अभ्यभाषत ।
    अशुचिः देवि सुप्ता असि पादयोः कृत मूर्धजा॥१-४६-२२॥

    तत् अन्तरम् अहम् लब्ध्वा शक्र हन्तारम् आहवे ।
    अभिन्दम् सप्तधा देवि तन् मे त्वम् क्षन्तुम् अर्हसि ॥१-४६-२३॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥

    सप्तधा तु कृते गर्भे दितिः परम दुःखिता ।
    सहस्राक्षम् दुराधर्षम् वाक्यम् स अनुनया अब्रवीत् ॥१-४७-१॥

    मम अपराधात् गर्भो अयम् सप्तधा शकली कृतः ।
    न अपराधो हि देव ईश तव अत्र बलसूदन ॥१-४७-२॥

    प्रियम् त्वत् कृतम् इच्छामि मम गर्भ विपर्यये ।
    मरुताम् सप्त सप्तानाम् स्थानपाला भवन्तु ते ॥१-४७-३॥

    वात स्कंधा इमे सप्त चरन्तु दिवि पुत्रक ।
    मारुता इति विख्याता दिव्यरूपा मम आत्मजाः ॥१-४७-४॥

    ब्रह्म लोकम् चरतु एक इन्द्र लोकम् तथा अपरः ।
    दिव्य वायुः इति ख्यातः तृतीयो अपि महायशाः ॥१-४७-५॥

    चत्वारः तु सुरश्रेष्ठ दिशो वै तव शासनात् ।
    संचरिष्यन्ति भद्रम् ते कलेन हि मम आत्मजाः ॥१-४७-६॥
    त्वत् कृतेन एव नाम्ना वै मारुता इति विश्रुताः ।

    तस्याः तत् वचनम् श्रुत्वा सहस्राक्षः पुरंदरः ॥१-४७-७॥
    उवाच प्रांजलिः वाक्यम् दितिम् बलसूदनः ।

    सर्वम् एतत् यथा उक्तम् ते भविष्यति न संशयः ॥१-४७-८॥
    विचरिष्यन्ति भद्रम् ते देवरूपाः तव आत्मजाः ।
    एवम् तौ निश्चयम् कृत्वा माता पुत्रौ तपोवने ॥१-४७-९॥
    जग्मतुः त्रिदिवम् राम कृतार्थौ इति नः श्रुतम् ।

    एष देशः स काकुत्स्थ महेन्द्रात् अद्युषितः पुरा ॥१-४७-१०॥
    दितिम् यत्र तपः सिद्धाम् एवम् परिचचार सः ।

    इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परम धार्मिकः ॥१-४७-११॥
    अलंबुषायाम् उत्पन्नो विशाल इति विश्रुतः ।
    तेन च आसीत् इह स्थाने विशाले इति पुरी कृता ॥१-४७-१२॥

    विशालस्य सुतो राम हेमचन्द्रो महाबलः ।
    सुचन्द्र इति विख्यातो हेमचन्द्रात् अनंतरः ॥१-४७-१३॥

    सुचन्द्र तनयो राम धूम्र अश्व इति विश्रुतः ।
    धूम्राश्व तनयः च अपि सृंजयः समपद्यत ॥१-४७-१४॥

    सृंजयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।
    कुशाश्वः सहदेवस्य पुत्रः परम धार्मिकः ॥१-४७-१५॥

    कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।
    सोमदत्तस्य पुत्रः तु काकुत्स्थ इति विश्रुतः ॥१-४७-१६॥

    तस्य पुत्रो महातेजाः सम्प्रति एष पुरीम् इमाम् ।
    आवसत् परम प्रख्यः सुमतिः नाम दुर्जयः ॥१-४७-१७॥

    इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
    दीर्घ आयुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥१-४७-१८॥

    इह अद्य रजनीम् एकाम् सुखम् स्वप्स्यामहे वयम् ।
    श्वः प्रभाते नरश्रेष्ठ जनकम् द्रष्टुम् अर्हसि ॥१-४७-१९॥

    सुमतिः तु महातेजा विश्वामित्रम् उपागतम् ।
    श्रुत्वा नर वर श्रेष्ठः प्रत्यागच्छन् महायशाः ॥१-४७-२०॥

    पूजाम् च परमाम् कृत्वा स उपाध्यायः सबान्धवः ।
    प्रांजलिः कुशलम् पृष्ट्वा विश्वामित्रम् अथ अब्रवीत् ॥१-४७-२१॥

    धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे विषयम् मुने ।
    संप्राप्तो दर्शनम् चैव न अस्ति धन्यतरो मम ॥१-४७-२२॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टचत्वारिंशः सर्गः ॥१-४८॥

    पृष्ट्वा तु कुशलम् तत्र परस्पर समागमे ।
    कथाअन्ते सुमतिः वाक्यम् व्याजहार महामुनिम् ॥१-४८-१॥

    इमौ कुमारौ भद्रम् ते देव तुल्य पराक्रमौ ।
    गज सिंह गती वीरौ शार्दूल वृषभ उपमौ ॥१-४८-२॥
    पद्म पत्र विशालाक्षौ खड्ग तूणी धनुर् धरौ ।
    अश्विनौ इव रूपेण समुपस्थित यौवनौ ॥१-४८-३॥
    यदृच्छया एव गाम् प्राप्तौ देवलोकात् इव अमरौ ।
    कथम् पद्भ्याम् इह प्राप्तौ किम् अर्थम् कस्य वा मुने ॥१-४८-४॥

    भूषयन्तौ इमम् देशम् चन्द्र सूर्यौ इव अंबरम् ।
    परस्परेण सदृशौ प्रमाण इन्गित चेष्टितैः ॥१-४८-५॥
    किम् अर्थम् च नर श्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि ।
    वर आयुध धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः ॥१-४८-६॥

    तस्य तद् वचनम् श्रुत्वा यथा वृत्तम् न्यवेदयत् ।
    सिद्ध आश्रम निवासम् च राक्षसानाम् वधम् तथा ॥१-४८-७॥
    विश्वामित्र वचः श्रुत्वा राजा परम विस्मितः ॥१-४८-८॥
    च्
    अतिथी परमौ प्राप्तम् पुत्रौ दशरथस्य तौ ।
    पूजयामास विधिवत् सत्कार अर्हौ महाबलौ ॥१-४८-९॥

    ततः परम सत्कारम् सुमतेः प्राप्य राघवौ ।
    उष्य तत्र निशाम् एकाम् जग्मतुः मिथिलाम् ततः ॥१-४८-१०॥

    ताम् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीम् शुभाम् ।
    साधु साधु इति शंसन्तो मिथिलाम् समपूजयन् ॥१-४८-११॥

    मिथिल उपवने तत्र आश्रमम् दृश्य राघवः ।
    पुराणम् निर्जनम् रम्यम् पप्रच्छ मुनि पुंगवम् ॥१-४८-१२॥

    इदम् आश्रम संकाशम् किम् नु इदम् मुनि वर्जितम् ।
    श्रोतुम् इच्छामि भगवन् कस्य अयम् पूर्व आश्रमः ॥१-४८-१३॥

    तत् श्रुता राघवेण उक्तम् वाक्यम् वाक्य विशारदः ।
    प्रति उवाच महातेजा विश्वमित्रो महामुनिः ॥१-४८-१४॥

    हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव ।
    यस्य एतत् आश्रम पदम् शप्तम् कोपान् महात्मना ॥१-४८-१५॥

    गौतमस्य नरश्रेष्ठ पूर्वम् आसीत् महात्मनः ।
    आश्रमो दिव्य संकाशः सुरैः अपि सुपूजितः ॥१-४८-१६॥

    स च अत्र तप आतिष्ठत् अहल्या सहितः पुरा ।
    वर्ष पूगानि अनेकानि राजपुत्र महायशः ॥१-४८-१७॥

    तस्य अन्तरम् विदित्वा तु सहस्राक्षः शची पतिः ।
    मुनि वेष धरो भूत्वा अहल्याम् इदम् अब्रवीत् ॥१-४८-१८॥

    ऋतु कालम् प्रतीक्षन्ते न अर्थिनः सुसमाहिते ।
    संगमम् तु अहम् इच्छामि त्वया सह सुमध्यमे ॥१-४८-१९॥

    मुनि वेषम् सहस्राक्षम् विज्ञाय रघुनंदन ।
    मतिम् चकार दुर्मेधा देव राज कुतूहलात् ॥१-४८-२०॥

    अथ अब्रवीत् सुरश्रेष्ठम् कृतार्थेन अंतरात्मना ।
    कृतार्था अस्मि सुरश्रेष्ठ गच्छ शीघ्रम् इतः प्रभो ॥१-४८-२१॥
    आत्मानम् माम् च देवेश सर्वदा रक्ष गौतमात् ।

    इन्द्रः तु प्रहसन् वाक्यम् अहल्याम् इदम् अब्रवीत् ॥१-४८-२२॥
    सुश्रोणि परितुष्टो अस्मि गमिष्यामि यथा आगतम् ।

    एवम् संगम्य तु तया निश्चक्राम उटजात् ततः ॥१-४८-२३॥
    स संभ्रमात् त्वरन् राम शन्कितो गौतमम् प्रति ।

    गौतमम् स ददर्श अथ प्रविशंतम् महामुनिम् ॥१-४८-२४॥
    देव दानव दुर्धर्षम् तपो बल समन्वितम् ।
    तीर्थ उदक परिक्लिन्नम् दीप्यमानम् इव अनलम् ॥१-४८-२५॥
    गृहीत समिधम् तत्र स कुशम् मुनि पुंगवम् ।

    दृष्ट्वा सुर पतिः त्रस्तो विषण्ण वदनो अभवत् ॥१-४८-२६॥
    अथ दृष्ट्वा सहस्राक्षम् मुनि वेष धरम् मुनिः ।
    दुर्वृत्तम् वृत्त संपन्नो रोषात् वचनम् अब्रवीत् ॥१-४८-२७॥

    मम रूपम् समास्थाय कृतवान् असि दुर्मते ।
    अकर्तव्यम् इदम् यस्मात् विफलः त्वम् भविष्यति ॥१-४८-२८॥

    गौतमेन एवम् उक्तस्य स रोषेण महात्मना ।
    पेततुः वृषणौ भूमौ सहस्राक्षस्य तत् क्षणात् ॥१-४८-२९॥

    तथा शप्त्वा च वै शक्रम् भार्याम् अपि च शप्तवान् ।
    इह वर्ष सहस्राणि बहूनि निवषिस्यसि ॥१-४८-३०॥
    वायु भक्षा निराहारा तप्यन्ती भस्म शायिनी ।
    अदृश्या सर्व भूतानाम् आश्रमे अस्मिन् वषिस्यसि ॥१-४८-३१॥

    यदा तु एतत् वनम् घोरम् रामो दशरथ आत्मजः ।
    आगमिष्यति दुर्धर्षः तदा पूता भविष्यसि ॥१-४८-३२॥

    तस्य आतिथ्येन दुर्वृत्ते लोभ मोह विवर्जिता ।
    मत् सकाशे मुदा युक्ता स्वम् वपुः धारयिष्यसि ॥१-४८-३३॥

    एवम् उक्त्वा महातेजा गौतमो दुष्ट चारिणीम् ।
    इमम् आश्रमम् उत्सृज्य सिद्ध चारण सेविते ।
    हिमवत् शिखरे रम्ये तपः तेपे महातपाः ॥१-४८-३४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः ॥१-४८॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥

    अफलः तु ततः शक्रो देवान् अग्नि पुरोगमान् ।
    अब्रवीत् त्रस्त नयनः सिद्ध गन्धव चारणान् ॥१-४९-१॥

    कुर्वता तपसो विघ्नम् गौतमस्य महात्मनः ।
    क्रोधम् उत्पाद्य हि मया सुर कार्यम् इदम् कृतम् ॥१-४९-२॥

    अफलो अस्मि कृतः तेन क्रोधात् सा च निराकृता ।
    शाप मोक्षेण महता तपो अस्य अपहृतम् मया ॥१-४९-३॥

    तत् माम् सुरवराः सर्वे स ऋषि संघाः स चारणाः ।
    सुर कार्य करम् यूयम् सफलम् कर्तुम् अर्हथ ॥१-४९-४॥

    शतक्रतोः वचः श्रुत्वा देवाः स अग्नि पुरोगमाः ।
    पितृ देवान् उपेत्य आहुः सह सर्वैः मरुत् गणैः ॥१-४९-५॥

    अयम् मेषः सवृषणः शक्रो हि अवृषणः कृतः ।
    मेषस्य वृषणौ गृह्य शक्राय आशु प्रयच्छत ॥१-४९-६॥

    अफलः तु कृतो मेषः पराम् तुष्टिम् प्रदास्यति ।
    भवताम् हर्षणार्थाय ये च दास्यन्ति मानवाः ।
    अक्षयम् हि फलम् तेषाम् यूयम् दास्यथ पुष्कलम् ॥१-४९-७॥

    अग्नेः तु वचनम् श्रुत्वा पितृ देवाः समागताः ।
    उत्पाट्य मेष वृषणौ सहस्राक्षे न्यवेशयन् ॥१-४९-८॥

    तदा प्रभृति काकुत्स्थ पितृ देवाः समागताः ।
    अफलान् भुंजते मेषान् फलैः तेषाम् अयोजयन् ॥१-४९-९॥

    इन्द्रः तु मेष वृषणः तदा प्रभृति राघव ।
    गौतमस्य प्रभावेन तपसा च महात्मनः ॥१-४९-१०॥

    तत् आगच्छ महातेज आश्रमम् पुण्य कर्मणः ।
    तारय एनाम् महाभागाम् अहल्याम् देव रूपिणीम् ॥१-४९-११॥

    विश्वामित्र वचः श्रुत्वा राघवः सह लक्ष्मणः ।
    विश्वामित्रम् पुरस्कृत्य आश्रमम् प्रविवेश ह ॥१-४९-१२॥

    ददर्श च महाभागाम् तपसा द्योतित प्रभाम् ।
    लोकैः अपि समागम्य दुर्निरीक्ष्याम् सुर असुरैः ॥१-४९-१३॥
    प्रयत्नात् निर्मिताम् धात्रा दिव्याम् मायामयीम् इव ।
    धूमेन अभिपरीत अंगीम् दीप्ताअम् अग्नि सिखाम् इव ॥१-४९-१४॥
    स तुषार आवृताम् स अभ्राम् पूर्ण चन्द्र प्रभाम् इव ।
    मध्ये अंभसो दुराधर्षाम् दीप्ताम् सूर्य प्रभाम् इव ॥१-४९-१५॥

    सस् हि गौतम वाक्येन दुर्निरीक्ष्या बभूव ह ।
    त्रयाणाम् अपि लोकानाम् यावत् रामस्य दर्शनम् ॥१-४९-१६॥

    शापस्य अन्तम् उपागम्य तेषाम् दर्शनम् आगता ॥
    राघवौ तु ततः तस्याः पादौ जगृहतुः मुदा ॥१-४९-१७॥

    स्मरंती गौतम वचः प्रतिजग्राह सा च तौ ॥
    पाद्यम् अर्घ्यम् तथा आतिथ्यम् चकार सुसमाहिता ।
    प्रतिजग्राह काकुत्स्थो विधि दृष्टेन कर्मणा ॥१-४९-१८॥

    पुष्प वृष्टिः महती आसीत् देव दुंदुभि निस्वनैः ।
    गन्धर्व अप्सरसाम् च एव महान् आसीत् समुत्सवः ॥१-४९-१९॥

    साधु साधु इति देवाः ताम् अहल्याम् समपूजयन् ।
    तपो बल विशुद्ध अंगीम् गौतमस्य वश अनुगाम् ॥१-४९-२०॥

    गौतमो अपि महातेजा अहल्या सहितः सुखी ।
    रामम् सम्पूज्य विधिवत् तपः तेपे महातपाः ॥१-४९-२१॥

    रामो अपि परमाम् पूजाम् गौतमस्य महामुनेः ।
    सकाशात् विधिवत् प्राप्य जगाम मिथिलाम् ततः ॥१-४९-२२॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चाशः सर्गः ॥१-५०॥

    ततः प्राक् उत्तराम् गत्वा रामः सौमित्रिणा सह ।
    विश्वामित्रम् पुरस्कृत्य यज्ञ वाटम् उपागमत् ॥१-५०-१॥

    रामः तु मुनि शार्दूलम् उवाच सह लक्ष्मणः ।
    साध्वी यज्ञ समृद्धिः हि जनकस्य महात्मनः ॥१-५०-२॥

    बहूनि इह सहस्राणि नाना देश निवासिनाम् ।
    ब्राह्मणानाम् महाभाग वेद अध्ययन शालिनाम् ॥१-५०-३॥
    ऋषि वाटाः च दृश्यन्ते शकटी शत संकुलाः ।
    देशो विधीयताम् ब्रह्मन् यत्र वत्स्यामहे वयम् ॥१-५०-४॥

    रामस्य वचनम् श्रुत्वा विश्वामित्रो महामुनिः ।
    निवेशम् अकरोत् देशे विविक्ते सलिल आयुते ॥१-५०-५॥

    विश्वामित्रम् अनुप्राप्तम् श्रुत्वा नृपवरः तदा ।
    शतानंदम् पुरस्कृत्य पुरोहितम् अनिन्दितम् ॥१-५०-६॥
    प्रति उज्जगाम सहसा विनयेन समन्वितः ।

    ऋत्विजो अपि महात्मानः तु अर्घ्यम् आदाय स त्वरम् ॥१-५०-७॥
    विश्वामित्राय धर्मेण ददौ धर्म पुरस्कृतम् ।

    प्रतिगृह्य तु ताम् पूजाम् जनकस्य महात्मनः ॥१-५०-८॥
    पप्रच्छ कुशलम् राज्ञो यज्ञस्य च निरामयम् ।

    स ताम् च अथ मुनीन् पृष्ट्वा स उपाध्याय पुरोधसः ॥१-५०-९॥
    यथा अर्हम् ऋषिभिः सर्वैः समागच्छत् प्रहृष्टवत् ।

    अथ राजा मुनि श्रेष्ठम् कृत अंजलिः अभाषत ॥१-५०-१०॥
    आसने भगवान् आस्ताम् सह एभिः मुनि सत्तमैः ।

    जनकस्य वचः श्रुत्वा निषसाद महामुनिः ॥१-५०-११॥
    पुरोधा ऋत्विजः चैव राजा च सह मंत्रिभिः ।

    आसनेषु यथा न्यायम् उपविष्टान् समन्ततः ॥१-५०-१२॥
    दृष्ट्वा स नृपतिः तत्र विश्वामित्रम् अथ अब्रवीत् ।

    अद्य यज्ञ समृद्धिः मे सफला दैवतैः कृता ॥१-५०-१३॥
    अद्य यज्ञ फलम् प्राप्तम् भगवद् दर्शनात् मया ।

    धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे मुनि पुंगव ॥१-५०-१४॥
    यज्ञ उपसदनम् ब्रह्मन् प्राप्तो असि मुनिभिः सह ।

    द्वादश अहम् तु ब्रह्मर्षे दीक्षाम् आहुः मनीषिणः ॥१-५०-१५॥
    ततो भाग अर्थिनो देवान् द्रष्टुम् अर्हसि कौशिक ।

    इति उक्त्वा मुनि शार्दूलम् प्रहृष्ट वदनः तदा ॥१-५०-१६॥
    पुनः तम् परिपप्रच्छ प्रांजलिः प्रयतो नृपः ।

    इमौ कुमारौ भद्रम् ते देव तुल्य पराक्रमौ ॥१-५०-१७॥
    गज तुल्य गती वीरौ शार्दूल वृषभ उपमौ ।
    पद्म पत्र विशाल अक्षौ खड्ग तूणी धनुर् धरौ ।
    अश्विनौ इव रूपेण समुपस्थित यौवनौ ॥१-५०-१८॥
    यदृच्छया एव गाम् प्राप्तौ देव लोकात् इव अमरौ ।
    कथम् पद्भ्याम् इह प्राप्तौ किम् अर्थम् कस्य वा मुने ॥१-५०-१९॥

    वर आयुध धरौ वीरौ कस्य पुत्रौ महामुने ।
    भूषयन्तौ इमम् देशम् चन्द्र सूर्यौ इव अंबरम् ॥१-५०-२०॥
    परस्परस्य सदृशौ प्रमाण इन्गित चेष्टितैः ।
    काक पक्ष धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः ॥१-५०-२१॥

    तस्य तत् वचनम् श्रुत्वा जनकस्य महात्मनः ।
    न्यवेदयत् अमेय आत्मा पुत्रौ दशरथस्य तौ ॥१-५०-२२॥

    सिद्ध आश्रम निवासम् च राक्षसानाम् वधम् तथा ।
    तत्र आगमनम् अव्यग्रम् विशालायाः च दर्शनम् ॥१-५०-२३॥
    अहल्या दर्शनम् चैव गौतमेन समागमम् ।
    महाधनुषि जिज्ञासाम् कर्तुम् आगमनम् तथा ॥१-५०-२४॥
    एतत् सर्वम् महातेजा जनकाय महात्मने ।
    निवेद्य विरराम अथ विश्वामित्रो महामुनिः ॥१-५०-२५॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चाशः सर्गः ॥१-५०॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥

    तस्य तत् वचनम् श्रुत्वा विश्वामित्रस्य धीमतः ।
    हृष्ट रोमा महातेजाः शताअनन्दो महातपाः ॥१-५१-१॥
    गौतमस्य सुतो ज्येष्ठः तपसा द्योतित प्रभः ।
    राम संदर्शनात् एव परम् विस्मयम् आगतः ॥१-५१-२॥

    एतौ निषण्णौ संप्रेक्ष्य सुख आसीनौ नृपात्मजौ ।
    शताअनंदो मुनिश्रेष्ठम् विश्वामित्रम् अथ अब्रवीत् ॥१-५१-३॥

    अपि ते मुनि शार्दूल मम माता यशस्विनी ।
    दर्शिता राज पुत्राय तपो दीर्घम् उपागता ॥१-५१-४॥

    अपि रामे महातेजो मम माता यशस्विनी ।
    वन्यैः उपाहरत् पूजाम् पूजा अर्हे सर्व देहिनाम् ॥१-५१-५॥

    अपि रामाय कथितम् यथा वृत्तम् पुरातनम् ।
    मम मातुः महातेजो दैवेन दुरनुष्ठितम् ॥१-५१-६॥

    अपि कौशिक भद्रम् ते गुरुणा मम संगता ।
    माता मम मुनिश्रेष्ठ राम संदर्शनात् इतः ॥१-५१-७॥

    अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।
    इह आगतो महातेजाः पूजाम् प्राप्य महात्मनः ॥१-५१-८॥

    अपि शांतेन मनसा गुरुः मे कुशिकात्मज ।
    इह आगतेन रामेण पूजितेन अभिवादितः ॥१-५१-९॥

    तत् श्रुत्वा वचनम् तस्य विश्वामित्रो महामुनिः ।
    प्रति उवाच शतानंदम् वाक्यज्ञो वाक्य कोविदम् ॥१-५१-१०॥

    न अतिक्रान्तम् मुनिश्रेष्ठ यत् कर्तव्यम् कृतम् मया ।
    संगता मुनिना पत्नी भार्गवेण इव रेणुका ॥१-५१-११॥

    तत् श्रुत्वा वचनम् तस्य विश्वामित्रस्य धीमतः ।
    शतानंदो महातेजा रामम् वचनम् अब्रवीत् ॥१-५१-१२॥

    स्वागतम् ते नरश्रेष्ठ दिष्ट्या प्राप्तो असि राघव ।
    विश्वामित्रम् पुरस्कृत्य महर्षिम् अपराजितम् ॥१-५१-१३॥

    अचिन्त्य कर्मा तपसा ब्रह्मर्षिः अमित प्रभः ।
    विश्वामित्रो महातेजा - वेद्म्य - वेत्सि एनम् परमाम् गतिम् ॥१-५१-१४॥

    न अस्ति धन्यतरो राम त्वत्तो अन्यो भुवि कश्चन ।
    गोप्ता कुशिक पुत्रः ते येन तप्तम् महत् तपः ॥१-५१-१५॥

    श्रूयताम् च अभिधास्यामि कौशिकस्य महात्मनः ।
    यथा बलम् यथा तत्त्वम् तत् मे निगदतः शृणु ॥१-५१-१६॥

    राजा अभूत् एष धर्मात्मा दीर्घ कालम् अरिन्दमः ।
    धर्मज्ञः कृत विद्यः च प्रजानाम् च हिते रतः ॥१-५१-१७॥

    प्रजापति सुतः तु आसीत् कुशो नाम महीपतिः ।
    कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥१-५१-१८॥

    कुशनाभ सुतः तु आसीत् गाधिः इति एव विश्रुतः ।
    गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥१-५१-१९॥

    विश्वमित्रो महातेजाः पालयामास मेदिनीम् ।
    बहु वर्ष सहस्राणि राजा राज्यम् अकारयत् ॥१-५१-२०॥

    कदाचित् तु महातेजा योजयित्वा वरूथिनीम् ।
    अक्षौहिणी परिवृतः परिचक्राम मेदिनीम् ॥१-५१-२१॥

    नगराणि च राष्ट्रानि सरितः च तथा गिरीन् ।
    आश्रमान् क्रमशो राजा विचरन् आजगाम ह ॥१-५१-२२॥
    वसिष्ठस्य आश्रम पदम् नाना पुष्प लता द्रुमम् ।
    नाना मृग गण आकीर्णम् सिद्ध चारण सेवितम् ॥१-५१-२३॥
    देव दानव गन्धर्वैः किन्नरैः उपशोभितम् ।
    प्रशांत हरिण आकीर्णम् द्विज संघ निषेवितम् ॥१-५१-२४॥
    ब्रह्म ऋषि गण संकीर्णम् देव ऋषि गण सेवितम् ।
    तपः चरण संसिद्धैः अग्नि कल्पैः महात्मभिः ॥१-५१-२५॥
    सततम् संकुलम् श्रीमत् ब्रह्म कल्पैः महात्मभिः ।
    अब् भक्षैः वायु भक्षैः च शीर्ण पर्ण अशनैः तथा ॥१-५१-२६॥
    फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः - यद्वा -
    फल मूल अशनैः दान्तैः जित दोषैः जित इन्द्रियैः ।
    ऋषिभिः वालखिल्यैः च जप होम परायणैः ॥१-५१-२७॥
    अन्यैः वैखानसैः चैव समंतात् उपशोभितम् ।

    वसिष्ठस्य आश्रम पदम् ब्रह्म लोकम् इव अपरम् ।
    ददर्श जयताम् श्रेष्ठ विश्वामित्रो महाबलः ॥१-५१-२८॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विपञ्चाशः सर्गः ॥१-५२॥

    तम् दृष्ट्वा परम प्रीतो विश्वामित्रो महाबलः ।
    प्रणतो विनयात् वीरो वसिष्ठम् जपताम् वरम् ॥१-५२-१॥

    स्वागतम् तव च इति उक्तो वसिष्ठेन महात्मना ।
    आसनम् च अस्य भगवान् वसिष्ठो व्यादिदेश ह ॥१-५२-२॥

    उपविष्टाय च तदा विश्वामित्राय धीमते ।
    यथा न्यायम् मुनि वरः फल मूलम् उपाहरत् ॥१-५२-३॥

    प्रतिगृह्य तु ताम् पूजाम् वसिष्ठात् राज सत्तमः ।
    तपो अग्नि होत्र शिष्येषु कुशलम् पर्यपृच्छत ॥१-५२-४॥
    विश्वामित्रो महातेजा वनस्पति गणे तथा ।
    सर्वत्र कुशलम् च आह वसिष्ठो राज सत्तमम् ॥१-५२-५॥

    सुख उपविष्टम् राजानम् विश्वामित्रम् महातपाः ।
    पप्रच्छ जपताम् श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः ॥१-५२-६॥

    कच्चित् ते कुशलम् राजन् कच्चित् धर्मेण रंजयन् ।
    प्रजाः पालयसे राजन् राज वृत्तेन धार्मिक ॥१-५२-७॥

    कच्चित् ते सुभृता भृत्याः कच्चित् तिष्ठन्ति शासने ।
    कच्चित् ते विजिताः सर्वे रिपवो रिपु सूदन ॥१-५२-८॥

    कच्चित् बले च कोशे च मित्रेषु च परंतप ।
    कुशलम् ते नर व्याघ्र पुत्र पौत्रे तथा अनघ ॥१-५२-९॥

    सर्वत्र कुशलम् राजा वसिष्ठम् प्रत्युदाहरत् ।
    विश्वामित्रो महातेजा वसिष्ठम् विनय अन्वितम् ॥१-५२-१०॥

    कृत्वा तौ सुचिरम् कालम् धर्मिष्ठौ ताः कथाः तदा ।
    मुदा परमया युक्तौ प्रीयेताम् तौ परस्परम् ॥१-५२-११॥

    ततो वसिष्ठो भगवान् कथा अन्ते रघुनंदन ।
    विश्वामित्रम् इदम् वाक्यम् उवाच प्रहसन् इव ॥१-५२-१२॥

    आतिथ्यम् कर्तुम् इच्छामि बलस्य अस्य महाबल ।
    तव च एव अप्रमेयस्य यथा अर्हम् संप्रतीच्छ मे ॥१-५२-१३॥

    सत्क्रियाम् तु भवान् एताम् प्रतीच्छतु मया कृताम् ।
    राजन् त्वम् अतिथि श्रेष्ठः पूजनीयः प्रयत्नतः ॥१-५२-१४॥

    एवम् उक्तो वसिष्ठेन विश्वामित्रो महामतिः ।
    कृतम् इति अब्रवीत् राजा पूजा वाक्येन मे त्वया ॥१-५२-१५॥

    फल मूलेन भगवन् विद्यते यत् तव आश्रमे ।
    पाद्येन आचमनीयेन भगवद् दर्शनेन च ॥१-५२-१६॥
    सर्वथा च महाप्राज्ञ पूजा अर्हेण सुपूजितः ।
    नमस्ते अस्तु गमिष्यामि मैत्रेण ईक्षस्व चक्षुषा ॥१-५२-१७॥

    एवम् ब्रुवन्तम् राजानम् वसिष्ठः पुनः एव हि ।
    न्यमंत्रयत धर्मात्मा पुनः पुनः उदार धीः ॥१-५२-१८॥

    बाढम् इति एव गाधेयो वसिष्ठम् प्रत्युवाच ह ।
    यथा प्रियम् भगवतः तथा अस्तु मुनि सत्तम ॥१-५२-१९॥

    एवम् उक्तः तथा तेन वसिष्ठो जपताम् वरः ।
    आजुहाव ततः प्रीतः कल्माषीम् धूत कल्मषः ॥१-५२-२०॥

    एहि एहि शबले क्षिप्रम् शृणु च अपि वचो मम ।
    सबलस्य अस्य राजर्षेः कर्तुम् व्यवसितो अस्मि अहम् ।
    भोजनेन महा अर्हेण सत्कारम् संविधत्स्व मे ॥१-५२-२१॥

    यस्य यस्य यथा कामम् षड् रसेषु अभिपूजितम् ।
    तत् सर्वम् काम धुक् दिव्ये अभिवर्ष कृते मम ॥१-५२-२२॥

    रसेन अन्नेन पानेन लेह्य चोष्येण संयुतम् ।
    अन्नानाम् निचयम् सर्वम् सृजस्व शबले त्वर ॥१-५२-२३॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्विपञ्चाशः सर्गः ॥१-५२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥

    एवम् उक्ता वसिष्ठेन शबला शत्रु सूदन ।
    विदधे कामधुक् कामान् यस्य यस्य ईप्सितम् यथा ॥१-५३-१॥

    इक्षून् मधून् तथा लाजान् मैरेयान् च वर आसवान् ।
    पानानि च महाअर्हाणि भक्ष्यान् च उच्च अवचान् तथा ॥१-५३-२॥

    उष्ण आढ्यस्य ओदनस्य अपि राशयः पर्वतोपमाः ।
    मृष्ट अन्नानि च सूपाः च दधि कुल्याः तथैव च ॥१-५३-३॥
    नाना स्वादु रसानाम् च खाण्डवनाम् - षाडबानाम् - तथैव च ।
    भाजनानि -भोजनानि - सुपूर्णानि गौडानि च सहस्रशः ॥१-५३-४॥

    सर्वम् आसीत् सुसंतुष्टम् हृष्ट पुष्ट जन आयुतम् ।
    विश्वामित्र बलम् राम वसिष्ठेन सुतर्पितम् ॥१-५३-५॥

    विश्वामित्रो अपि राजर्षिः हृष्ट पुष्टः तदा अभवत् ।
    स अन्तः पुर वरो राजा स ब्राह्मण पुरोहितः ॥१-५३-६॥

    स अमात्यो मंत्रि सहितः स भृत्यः पूजितः तदा ।
    युक्तः परम हर्षेण वसिष्ठम् इदम् अब्रवीत् ॥१-५३-७॥

    पूजितो अहम् त्वया ब्रह्मन् पूज अर्हेण सुसत्कृतः ।
    श्रूयताम् अभिधास्यामि वाक्यम् वाक्य विशारद ॥१-५३-८॥

    गवाम् शत सहस्रेण दीयताम् शबला मम ।
    रत्नम् हि भगवन् एतत् रत्न हारी च पार्थिवः ॥१-५३-९॥
    तस्मात् मे शबलाम् देहि मम एषा धर्मतो द्विज ।

    एवम् उक्तः तु भगवान् वसिष्ठो मुनि सत्तमः ॥१-५३-१०॥
    विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ।

    न अहम् शत सहस्रेण न अपि कोटि शतैः गवाम् ॥१-५३-११॥
    राजन् दास्यामि शबलाम् राशिभी रजतस्य वा ।

    न परित्यागम् अर्हा इयम् मत् सकाशात् अरिन्दम ॥१-५३-१२॥
    शाश्वती शबला मह्यम् कीर्तिर् आत्मवतो यथा ।

    अस्याम् हव्यम् च कव्यम् च प्राण यात्रा तथैव च ॥१-५३-१३॥
    आयत्तम् अग्नि होत्रम् च बलिः होमः तथैव च ।

    स्वाहा कार वषट् कारौ विद्याः च विविधाः तथा ॥१-५३-१४॥
    आयत्तम् अत्र राज ऋषे सर्वम् एतन् न संशयः ।

    सर्वस्वम् एतत् सत्येन मम तुष्टि करी तथा ॥१-५३-१५॥
    कारणैः बहुभी राजन् न दास्ये शबलाम् तव ।

    वसिष्ठेन एवम् उक्तः तु विश्वामित्रो अब्रवीत् तदा ॥१-५३-१६॥
    संरब्धतरम् अत्यर्थम् वाक्यम् वाक्य विशारदः ।

    हैरण्य कक्ष्या ग्रैवेयान् सुवर्ण अंकुश भूषितान् ॥१-५३-१७॥
    ददामि कुंजराणाम् ते सहस्राणि चतुर् दश ।

    हैरण्यानाम् रथानाम् च श्वेत अश्वानाम् चतुर् युजाम् ॥१-५३-१८॥
    ददामि ते शतानि अष्टौ किन्किणीक विभूषितान् ।

    हयानाम् देश जातानाम् कुल जानाम् महौजसाम् ।
    सहस्रम् एकम् दश च ददामि तव सुव्रत ॥१-५३-१९॥

    नाना वर्ण विभक्तानाम् वयःस्थानाम् तथैव च ।
    ददामि एकाम् गवाम् कोटिम् शबला दीयताम् मम ॥१-५३-२०॥

    यावत् इच्छसि रत्नानि हिरण्यम् वा द्विजोत्तम ।
    तावत् ददामि ते सर्वम् दीयताम् शबला मम ॥१-५३-२१॥

    एवम् उक्तः तु भगवान् विश्वामित्रेण धीमता ।
    न दास्यामि इति शबलाम् प्राह राजन् कथंचन ॥१-५३-२२॥

    एतदेव हि मे रत्नम् एतदेव हि मे धनम् ।
    एतदेव हि सर्वस्वम् एतदेव हि जीवितम् ॥१-५३-२३॥

    दर्शः च पौर्ण मासः च यज्ञाः चैव आप्त दक्षिणाः ।
    एतदेव हि मे राजन् विविधाः च क्रियाः तथा ॥१-५३-२४॥

    अतो मूलाः क्रियाः सर्वा मम राजन् न संशयः ।
    बहूना किम् प्रलापेन न दास्ये काम दोहिनीम् ॥१-५३-२५॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-५४॥

    कामधेनुम् वसिष्ठो अपि यदा न त्यजते मुनिः ।
    तदा अस्य शबलाम् राम विश्वामित्रो अन्वकर्षत ॥१-५४-१॥

    नीयमाना तु शबला राम राज्ञा महात्मना ।
    दुःखिता चिन्तयामास रुदंती शोक कर्शिता ॥१-५४-२॥

    परित्यक्ता वसिष्ठेन किम् अहम् सुमहात्मना ।
    या अहम् राज भृतैः दीना ह्रियेयम् भृश दुःखिता ॥१-५४-३॥

    किम् मया अपकृतम् तस्य महर्षेः भावित आत्मनः ।
    यन् माम् अनागसम् भक्ताम् इष्टाम् त्यजति धार्मिकः ॥१-५४-४॥

    इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः ।
    जगाम वेगेन तदा वसिष्ठम् परम ओजसम् ॥१-५४-५॥
    निर्धूय ताम् तदा भृत्यान् शतशः शत्रुसूदन ।
    जगाम अनिल वेगेन पाद मूलम् महात्मनः ॥१-५४-६॥

    शबला सा रुदन्ती च क्रोशन्ती च इदम् अब्रवीत् ।
    वसिष्ठस्य अग्रतः स्थित्वा मेघ निःस्वना ॥१-५४-७॥

    भगवन् किम् परित्यक्ता त्वया अहम् ब्रह्मणः सुत ।
    यस्मात् राज भटा माम् हि नयन्ते त्वत् सकाशतः ॥१-५४-८॥

    एवम् उक्तः तु ब्रह्मर्षिर् इदम् वचनम् अब्रवीत् ।
    शोक संतप्त हृदयाम् स्व सारम् इव दुःखिताम् ॥१-५४-९॥

    न त्वाम् त्यजामि शबले न अपि मे अपकृतम् त्वया ।
    एष त्वाम् नयते राजा बलात् मत्तः महाबलः ॥१-५४-१०॥

    न हि तुल्यम् बलम् मह्यम् राजा तु अद्य विशेषतः ।
    बली राजा क्षत्रियः च पृथिव्याः पतिः एव च ॥१-५४-११॥

    इयम् अक्षौहिणी पूर्णा गज वाजि रथ आकुला ।
    हस्ति ध्वज समाकीर्णा तेन असौ बलवत्तरः ॥१-५४-१२॥

    एवम् उक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
    वचनम् वचनज्ञा सा ब्रह्मर्षिम् अतुल प्रभम् ॥१-५४-१३॥

    न बलम् क्षत्रियस्य आहुः ब्राह्मणो बलवत्तरः ।
    ब्रह्मन् ब्रह्म बलम् दिव्यम् क्षत्रात् तु बलवत्तरम् ॥१-५४-१४॥

    अप्रमेय बलम् तुभ्यम् न त्वया बलवत्तरः ।
    विश्वामित्रो महावीर्यः तेजः तव दुरासदम् ॥१-५४-१५॥

    नियुङ्क्ष्व माम् महातेजः त्वत् ब्रह्म बल संभृताम् ।
    तस्य दर्पम् बलम् यत्नम् नाशयामि दुरात्मनः ॥१-५४-१६॥

    इति उक्तः तु तया राम वसिष्ठः सुमहायशाः ।
    सृजस्व इति तदा उवाच बलम् पर बल अर्दनम् ॥१-५४-१७॥

    तस्य तत् वचनम् श्रुत्वा सुरभिः सा असृजत् तदा ।
    तस्या हुंभा रव उत्सृष्टाः पह्लवाः शतशो नृप ॥१-५४-१८॥
    नाशयन्ति बलम् सर्वम् विश्वामित्रस्य पश्यतः ।

    स राजा परम क्रुद्धः क्रोध विस्फारित ईक्षणः ॥१-५४-१९॥
    पह्लवान् नाशयामास शस्त्रैः उच्चावचैः अपि ।

    विश्वामित्र अर्दितान् दृष्ट्वा पह्लवान् शतशः तदा ॥१-५४-२०॥
    भूय एव असृजत् घोरान् शकान् यवन मिश्रितान् ।

    तैः आसीत् संवृता भूमिः शकैः यवन मिश्रितैः ॥१-५४-२१॥
    प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसन्निभैः ।
    यद्वा -
    प्रभावद्भिः महावीर्यैः हेम किंजल्क संनिभैः ।

    दीर्घासिपट्टिशधरैर्हेमवर्णाम्बराअवृतैः ॥
    यद्वा -
    दीर्घ असि पट्टिश धरैः हेम वर्ण अंबर आवृतैः ॥१-५४-२२॥
    निर्दग्धम् तत् बलम् सर्वम् प्रदीप्तैः इव पावकैः ।

    ततो अस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।
    तैः तैः यवन कांभोजा बर्बराः च अकुली कृताः ॥१-५४-२३॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-५४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१-५५॥

    ततः तान् आकुलान् दृष्ट्वा विश्वामित्र अस्त्र मोहितान् ।
    वसिष्ठः चोदयामास काम धुक् सृज योगतः ॥१-५५-१॥

    तस्या हुंकारतो जाताः कांबोजा रवि सन्निभाः ।
    ऊधसः तु अथ संजाताः पह्लवाः शस्त्र पाणयः ॥१-५५-२॥
    योनि देशात् च यवनः शकृ देशात् शकाः तथा ।
    रोम कूपेषु म्लेच्छाः च हारीताः स किरातकाः ॥१-५५-३॥

    तैः तत् निषूदितम् सैन्यम् विश्वमित्रस्य तत् क्षणात् ।
    स पदाति गजम् स अश्वम् स रथम् रघुनंदन ॥१-५५-४॥

    दृष्ट्वा निषूदितम् सैन्यम् वसिष्ठेन महात्मना ।
    विश्वामित्र सुतानाम् तु शतम् नाना विध आयुधम् ॥१-५५-५॥
    अभ्यधावत् सुसंक्रुद्धम् वसिष्ठम् जपताम् वरम् ।
    हुम् कारेण एव तान् सर्वान् निर्ददाह महान् ऋषिः ॥१-५५-६॥

    ते स अश्व रथ पादाता वसिष्ठेन महात्मना ।
    भस्मी कृता मुहूर्तेन विश्वामित्र सुताः तदा ॥१-५५-७॥

    दृष्ट्वा विनाशितान् पुत्रान् बलम् च सुमहा यशाः ।
    स व्रीडः चिंतया आविष्टो विश्वामित्रो अभवत् तदा ॥१-५५-८॥

    समुद्र इव निर्वेगो भग्न दंष्ट्र इव उरगः ।
    उपरक्त इव आदित्यः सद्यो निष्प्रभताम् गतः ॥१-५५-९॥
    हत पुत्र बलो दीनो लून पक्ष इव द्विजः ।

    हत सर्व बल उत्साहो निर्वेदम् समपद्यत ॥१-५५-१०॥
    स पुत्रम् एकम् राज्याय पालय इति नियुज्य च ।
    पृथिवीम् क्षत्र धर्मेण वनम् एव अन्वपद्यत ॥१-५५-११॥

    स गत्वा हिमवत् पार्श्वम् किंनर उरग सेवितम् ।
    महादेव प्रसाद अर्थम् तपः तेपे महातपाः ॥१-५५-१२॥

    केनचित् तु अथ कालेन देवेशो वृषभ ध्वजः ।
    दर्शयामास वरदो विश्वामित्रम् महामुनिम् ॥१-५५-१३॥

    किम् अर्थम् तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् ।
    वरदो अस्मि वरो यः ते कांक्षितः सो अभिधीयताम् ॥१-५५-१४॥

    एवम् उक्तः तु देवेन विश्वामित्रो महातपाः ।
    प्रणिपत्य महादेवम् विश्वामित्रो अब्रवीत् इदम् ॥१-५५-१५॥

    यदि तुष्टो महादेव धनुर् वेदो मम अनघ ।
    सा अंग उप अंग उपनिषदः स रहस्यः प्रदीयताम् ॥१-५५-१६॥

    यानि देवेषु च अस्त्राणि दानवेषु महर्षिषु ।
    गंधर्व यक्ष रक्षस्सु प्रतिभांतु मम अनघ ॥१-५५-१७॥
    तव प्रसादात् भवतु देवदेव मम ईप्सितम् ।

    एवम् अस्तु इति देवेशो वाक्यम् उक्त्वा गतः तदा ॥१-५५-१८॥

    प्राप्य च अस्त्राणि देवेशात् विश्वामित्रो महाबलः ।
    दर्पेण महता युक्तो दर्पपूर्णो अभवत् तदा ॥१-५५-१९॥

    विवर्धमानो वीर्येण समुद्र इव पर्वणि ।
    हतम् मेने तदा राम वसिष्ठम् ऋषि सत्तमम् ॥१-५५-२०॥

    ततो गत्वा आश्रमपदम् मुमोच अस्त्राणि पार्थिवः ।
    यैः तत् तपो वनम् सर्वम् निर्दग्धम् च अस्त्र तेजसा ॥१-५५-२१॥

    उदीर्यमाणम् अस्त्रम् तत् विश्वामित्रस्य धीमतः ।
    दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥१-५५-२२॥

    वसिष्ठस्य च ये शिष्याः ये च वै मृग पक्षिणः ।
    विद्रवन्ति भयात् भीता नाना दिक्भ्यः सहस्रशः ॥१-५५-२३॥

    वसिष्ठस्य आश्रमपदम् शून्यम् आसीत् महात्मनः ।
    मुहूर्तम् इव निःशब्दम् आसीत् ईरिण संनिभम् ॥१-५५-२४॥

    वदतो वै वसिष्ठस्य मा भै इति मुहुर्मुहुः ।
    नाशयामि अद्य गाधेयम् नीहारम् इव भास्करः ॥१-५५-२५॥

    एवम् उक्त्वा महातेजा वसिष्ठो जपताम् वरः ।
    विश्वामित्रम् तदा वाक्यम् स रोषम् इदम् अब्रवीत् ॥१-५५-२६॥

    आश्रमम् चिर संवृद्धम् यत् विनाशितवान् असि ।
    दुराचारो हि यत् मूढ तस्मात् त्वम् न भविष्यसि ॥१-५५-२७॥

    इति उक्त्वा परम क्रुद्धो दण्डम् उद्यम्य सत्वरः ।
    विधूम इव काल अग्निः यम दण्डम् इव अपरम् ॥१-५५-२८॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥१-५५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥

    एवम् उक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
    आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठ इति च अब्रवीत् ॥१-५६-१॥

    ब्रह्मदण्डम् समुद्यम्य काल दण्डम् इव अपरम् ।
    वसिष्ठो भगवान् क्रोधात् इदम् वचनम् अब्रवीत् ॥१-५६-२॥

    क्षत्र बन्धो स्थितो अस्मि एष यद् बलम् तद् विदर्शय ।
    नाशयामि अद्य ते दर्पम् शस्त्रस्य तव गाधिज ॥१-५६-३॥

    क्व च ते क्षत्रिय बलम् क्व च ब्रह्म बलम् महत् ।
    पश्य ब्रह्म बलम् दिव्यम् मम क्षत्रिय पांसन ॥१-५६-४॥

    तस्य अस्त्रम् गाधि पुत्रस्य घोरम् आग्नेयम् उत्तमम् ।
    ब्रह्म दण्डेन तत् शांतम् अग्नेः वेग इव अंभसा ॥१-५६-५॥

    वारुणम् चैव रौद्रम् च ऐन्द्रम् पाशुपतम् तथा ।
    ऐषीकम् च अपि चिक्षेप रुषितो गाधि नंदनः ॥१-५६-६॥

    मानवम् मोहनम् चैव गांधर्वम् स्वापनम् तथा ।
    जृंभणम् मदानम् चैव संतापन विलापने ॥१-५६-७॥

    शोषणम् दारणम् चैव वज्रम् अस्त्रम् सुदुर्जयम् ।
    ब्रह्म पाशम् काल पाशम् वारुणम् पाशम् एव च ॥१-५६-८॥

    पिनाकम् अस्त्रम् च दयितम् शुष्क आर्द्रे अशनी तथा ।
    दण्ड अस्त्रम् अथ पैशाचम् क्रौन्चम् अस्त्रम् तथैव च ॥१-५६-९॥

    धर्म चक्रम् काल चक्रम् विष्णु चक्रम् तथैव च ।
    वायव्यम् मथनम् चैव अस्त्रम् हय शिरः तथा ॥१-५६-१०॥

    शक्ति द्वयम् च चिक्षेप कंकालम् मुसलम् तथा ।
    वैद्याधरम् महाअस्त्रम् च कालास्त्रम् अथ दारुणम् ॥१-५६-११॥

    त्रिशूलम् अस्त्रम् घोरम् च कापालम् अथ कंकणम् ।
    एतानि अस्त्राणि चिक्षेप सर्वाणि रघु नंदन ॥१-५६-१२॥
    वसिष्ठे जपताम् श्रेष्ठे तद् अद्भुतम् इव अभवत् ।

    तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥१-५६-१३॥
    तेषु शांतेषु ब्रह्मास्त्रम् क्षिप्तवान् गाधि नंदनः ।

    तत् अस्त्रम् उद्यतम् दृष्ट्वा देवाः स अग्नि पुरोगमाः ॥१-५६-१४॥
    देव ऋषयः च संभ्रांता गंधर्वाः स महा उरगाः ।
    त्रैलोक्यम् आसीत् संत्रस्तम् ब्रह्मास्त्रे समुदीरिते ॥१-५६-१५॥

    तत् अपि अस्त्रम् महाघोरम् ब्राह्मम् ब्राह्मेण तेजसा ।
    वसिष्ठो ग्रसते सर्वम् ब्रह्म दण्डेन राघव ॥१-५६-१६॥

    ब्रह्म अस्त्रम् ग्रसमानस्य वसिष्ठस्य महात्मनः ।
    त्रैलोक्य मोहनम् रौद्रम् रूपम् आसीत् सुदारुणम् ॥१-५६-१७॥

    रोम कूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
    मरीच्य इव निष्पेतुः अग्नेः धूम आकुल अर्चिषः ॥१-५६-१८॥

    प्राज्वलत् ब्रह्म दण्डः च वसिष्ठस्य कर उद्यतः ।
    विधूम इव काल अग्निः यम दण्ड इव अपरः ॥१-५६-१९॥

    ततो अस्तुवन् मुनि गणा वसिष्ठम् जपताम् वरम् ।
    अमोघम् ते बलम् ब्रह्मन् तेजो धारय तेजसा ॥१-५६-२०॥
    निगृहीतः त्वया ब्रह्मन् विश्वामित्रो महातपाः ।
    प्रसीद जपताम् श्रेष्ठ लोकाः सन्तु गत व्यथाः ॥१-५६-२१॥

    एवम् उक्तो महातेजाः शमम् चक्रे महातपाः ।
    विश्वामित्रो अपि निकृतो विनिःश्वस्य इदम् अब्रवीत् ॥१-५६-२२॥

    धिक् बलम् क्षत्रिय बलम् ब्रह्म तेजो बलम् बलम् ।
    एकेन ब्रह्म दण्डेन सर्व अस्त्राणि हतानि मे ॥१-५६-२३॥

    तत् एतत् समवेक्ष्य अहम् प्रसन्न इन्द्रिय मानसः ।
    तपो महत् समास्थास्ये यत् वै ब्रह्मत्व कारणम् ॥१-५६-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-५८॥

    ततः त्रिशंकोः वचनम् श्रुत्वा क्रोध समन्वितम् ।
    ऋषि पुत्र शतम् राम राजानम् इदम् अब्रवीत् ॥१-५८-१॥

    प्रत्याख्यातो असि दुर्बुद्धे गुरुणा सत्य वादिना ।
    तम् कथम् समतिक्रम्य शाखा अन्तरम् उपेयिवान् ॥१-५८-२॥

    इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः ।
    न च अतिक्रमितुम् शक्यम् वचनम् सत्य वादिनः ॥१-५८-३॥

    अशक्यम् इति स उवाच वसिष्ठो भगवान् ऋषिः ।
    तम् वयम् वै समाहर्तुम् क्रतुम् शक्ताः कथंचन ॥१-५८-४॥

    बालिशः त्वम् नर श्रेष्ठ गम्यताम् स्व पुरम् पुनः ।
    याजने भगवान् शक्तः त्रैलोक्यस्य अपि पार्थिव ॥१-५८-५॥
    अवमानम् कथम् कर्तुम् तस्य शक्षायामहे वयम् ।

    तेषाम् तद् वचनम् श्रुत्वा क्रोध पर्याकुल अक्षरम् ॥१-५८-६॥
    स राजा पुनः एव एतान् इदम् वचनम् अब्रवीत् ।

    प्रत्याख्यातो भगवता गुरु पुत्रैः तथैव हि ॥१-५८-७॥
    अन्याम् गतिम् गमिष्यामि स्वस्ति वो अस्तु तपो धनाः ।

    ऋषि पुत्राः तु तत् श्रुत्वा वाक्यम् घोर अभिसंहितम् ॥१-५८-८॥
    शेपुः परम संक्रुद्धाः चण्डालत्वम् गमिष्यसि ।

    इति उक्त्वा ते महात्मानो विविशुः स्वम् स्वम् आश्रमम् ॥१-५८-९॥
    अथ रात्र्याम् व्यतीतायाम् राजा चण्डालताम् गतः ।

    नील वस्त्र धरो नीलः परुषो ध्वस्त मूर्धजः ॥१-५८-१०॥
    चित्य माल्य अनुलेपः च आयस आभरणो अभवत् ।

    तम् दृष्ट्वा मंत्रिणः सर्वे त्यज्य चण्डाल रूपिणम् ॥१-५८-११॥
    प्राद्रवन् सहिता राम पौरा ये अस्य अनुगामिनः ।

    एको हि राजा काकुत्स्थ जगाम परम आत्मवान् ॥१-५८-१२॥
    दह्यमानो दिवा रात्रम् विश्वामित्रम् तपो धनम् ।

    विश्वामित्रः तु तम् दृष्ट्वा राजानम् विफली कृतम् ॥१-५८-१३॥
    चण्डाल रूपिणम् राम मुनिः कारुण्यम् आगतः ।

    कारुण्यात् स महातेजा वाक्यम् परम धार्मिकः ॥१-५८-१४॥
    इदम् जगाद भद्रम् ते राजानम् घोर दर्शनम् ।

    किम् आगमन कार्यम् ते राजपुत्र महाबल ॥१-५८-१५॥
    अयोध्या अधिपते वीर शापात् चण्डालताम् गतः ।

    अथ तत् वाक्यम् आकर्ण्य राजा चण्डालताम् गतः ॥१-५८-१६॥
    अब्रवीत् प्रांजलिः वाक्यम् वाक्यज्ञो वाक्य कोविदम् ।

    प्रत्याख्यातो अस्मि गुरुणा गुरु पुत्रैः तथा एव च ॥१-५८-१७॥
    अनवाप्य एव तम् कामम् मया प्राप्तो विपर्ययः ।

    स शरीरो दिवम् यायामि इति मे सौम्य दर्शन ॥१-५८-१८॥
    मया च इष्टम् क्रतु शतम् तत् च न अवाप्यते फलम् ।

    अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन ॥१-५८-१९॥
    कृच्छ्रेषु अपि गतः सौम्य क्षत्र धर्मेण ते शपे ।

    यज्ञैः बहु विधैः इष्टम् प्रजा धर्मेण पालिताः ॥१-५८-२०॥
    गुरवः च महात्मानः शील वृत्तेन तोषिताः ।

    धर्मे प्रयतमानस्य यज्ञम् च आहर्तुम् इच्छतः ॥१-५८-२१॥
    परितोषम् न गच्छन्ति गुरवो मुनिपुंगव ।

    दैवम् एव परम् मन्ये पौरुषम् तु निरर्थकम् ॥१-५८-२२॥
    दैवेन आक्रम्यते सर्वम् दैवम् हि परमा गतिः ।

    तस्य मे परम आर्तस्य प्रसादम् अभिकांक्षतः ।
    कर्तुम् अर्हसि भद्रम् ते दैव उपहत कर्मणः ॥१-५८-२३॥

    न अन्याम् गतिम् गमिष्यामि न अन्यः शरणम् अस्ति मे ।
    दैवम् पुरुष कारेण निवर्तयितुम् अर्हसि ॥१-५८-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-५८॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥

    ततः संतप्त हृदयः स्मरन् निग्रहम् आत्मनः ।
    विनिःश्वस्य विनिःश्वस्य कृत वैरो महात्मना ॥१-५७-१॥
    स दक्षिणाम् दिशम् गत्वा महिष्या सह राघव ।
    तताप परमम् घोरम् विश्वामित्रो महातपाः ॥१-५७-२॥
    फल मूल अशनो दान्तैः चचार महत् तपः ।

    अथ अस्य जज्ञिरे पुत्राः सत्य धर्म परायणाः ॥१-५७-३॥
    हविष्पन्दो मधुष्यन्दो दृढनेत्रो महारथः ।

    पूर्णे वर्ष सहस्रे तु ब्रह्मा लोक पितामहः ॥१-५७-४॥
    अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।
    जिता राजर्षि लोकाः ते तपसा कुशिक आत्मज ॥१-५७-५॥

    अनेन तपसा त्वाम् हि राज ऋषिर् इति विद्महे ।
    एवम् उक्त्वा महातेजा जगाम सह दैवतैः ॥१-५७-६॥
    त्रिविष्टपम् ब्रह्म लोकम् लोकानाम् परम ईश्वरः ।

    विश्वामित्रो अपि तत् श्रुत्वा ह्रिया किंचित् अवाङ्मुखः ॥१-५७-७॥
    दुःखेन महता आविष्टः स मन्युः इदम् अब्रवीत् ।

    तपः च सुमहत् तप्तम् राज ऋषिर् इति माम् विदुः ॥१-५७-८॥
    देवाः स ऋषि गणाः सर्वे न अस्ति मन्ये तपः फलम् ।

    एवम् निश्चित्य मनसा भूय एव महातपाः ॥१-५७-९॥
    तपः चचार काकुत्स्थ परमम् परम आत्मवान् ।

    एतस्मिन् एव काले तु सत्य वादी जित इन्द्रियः ॥१-५७-१०॥
    त्रिशंकुः इति विख्यात इक्ष्वाकु कुल वर्धनः ।

    तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव ॥१-५७-११॥
    गच्छेयम् स्व शरीरेण देवानाम् परमाम् गतिम् ।
    वसिष्ठम् स समाहूय कथयामास चिन्तितम् ॥१-५७-१२॥

    अशक्यम् इति च अपि उक्तो वसिष्ठेन महात्मना ।
    प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणाम् दिशम् ॥१-५७-१३॥
    ततः तत् कर्म सिद्धि अर्थम् पुत्रान् तस्य गतो नृपः ।

    वासिष्ठा दीर्घ तपसः तपो यत्र हि तेपिरे ॥१-५७-१४॥
    त्रिशंकुः सुमहातेजाः शतम् परम भास्वरम् ।
    वसिष्ठ पुत्रान् ददृशे तप्यमानान् यशस्विनः ॥१-५७-१५॥

    सो अभिगम्य महात्मानः सर्वान् एव गुरोः सुतान् ।
    अभिवाद्य आनुपूर्व्येण ह्रिया किंचित् अवाङ्मुखः ॥१-५७-१६॥
    अब्रवीत् स महात्मनः सर्वान् एव कृतांजलिः ।

    शरणम् वः प्रपद्ये अहम् शरण्यान् शरणागतः ॥१-५७-१७॥
    प्रत्याख्यातो अस्मि भद्रम् वो वसिष्ठेन महात्मना ।

    यष्टु कामो महायज्ञम् तत् अनुज्ञातुम् अर्थथ ॥१-५७-१८॥
    गुरु पुत्रान् अहम् सर्वान् नमस् कृत्य प्रसादये ।

    शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ॥१-५७-१९॥
    ते माम् भवन्तः सिद्धि अर्थम् याजयंतु समाहिताः ।
    स शरीरो यथा अहम् वै देव लोकम् अवाप्नुयाम् ॥१-५७-२०॥

    प्रत्याख्यातो वसिष्ठेन गतिम् अन्याम् तपो धनाः ।
    गुरु पुत्रान् ऋते सर्वान् न अहम् पश्यामि कांचन ॥१-५७-२१॥

    इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः ।
    तस्मात् अनंतरम् सर्वे भवन्तो दैवतम् मम ॥१-५७-२२॥

    इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥

    उक्त वाक्यम् तु राजानम् कृपया कुशिक आत्मजः ।
    अब्रवीत् मधुरम् वाक्यम् साक्षात् चण्डालताम् गतम् ॥१-५९-१॥

    इक्ष्वाको स्वागतम् वत्स जानामि त्वाम् सुधार्मिकम् ।
    शरणम् ते भविष्यामि मा भैषीः नृप पुंगव ॥१-५९-२॥

    अहम् आमंत्रये सर्वान् महर्षीन् पुण्य कर्मणः ।
    यज्ञ साह्य करान् राजन् ततो यक्ष्यसि निर्वृतः ॥१-५९-३॥

    गुरु शाप कृतम् रूपम् यत् इदम् त्वयि वर्तते ।
    अनेन सह रूपेण स शरीरो गमिष्यसि ॥१-५९-४॥

    हस्त प्राप्तम् अहम् मन्ये स्वर्गम् तव नरेश्वर ।
    यः त्वम् कौशिकम् आगम्य शरण्यम् शरणागतः ॥१-५९-५॥

    एवम् उक्त्वा महातेजाः पुत्रान् परम धार्मिकान् ।
    व्यादिदेश महाप्राज्ञान् यज्ञ संभार कारणात् ॥१-५९-६॥

    सर्वान् शिष्यान् समाहूय वाक्यम् एतत् उवाच ह ।
    सर्वान् ऋषि वरान् वशिष्ठान् आनयध्वम् मम आज्ञया ॥१-५९-७॥
    स शिष्यान् सुहृदः चैव स ऋत्विजः सुबहु श्रुतान् ।

    यत् अन्यो वचनम् ब्रूयात् मत् वाक्य बल चोदितः ॥१-५९-८॥
    तत् सर्वम् अखिलेन उक्तम् मम आख्येयम् अनादृतम् ।

    तस्य तत् वचनम् श्रुत्वा दिशो जग्मुः तत् आज्ञया ॥१-५९-९॥
    आजग्मुः अथ देशेभ्यः सर्वेभ्यो ब्रह्म वादिनः ।

    ते च शिष्याः समागम्य मुनिम् ज्वलित तेजसम् ॥१-५९-१०॥
    ऊचुः च वचनम् सर्वे सर्वेषाम् ब्रह्म वादिनाम् ।

    श्रुत्वा ते वचनम् सर्वे समायान्ति द्विजातयः ॥१-५९-११॥
    सर्व देशेषु च अगच्छन् वर्जयित्वा महाउदयम् ।

    वासिष्ठम् तत् शतम् सर्वम् क्रोध पर्याकुल अक्षरम् ॥१-५९-१२॥
    यथा आह वचनम् सर्वम् शृणु त्वम् मुनि पुंगव ।

    क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥१-५९-१३॥
    कथम् सदसि भोक्तारो हविः तस्य सुर ऋषयः ।

    ब्राह्मणा वा महात्मानो भुक्त्वा चण्डाल भोजनम् ॥१-५९-१४॥
    कथम् स्वर्गम् गमिष्यन्ति विश्वामित्रेण पालिताः ।

    एतत् वचनम् नैष्ठुर्यम् ऊचुः संरक्त लोचनाः ॥१-५९-१५॥
    वासिष्ठा मुनि शार्दूल सर्वे सह महोदयाः ।

    तेषाम् तत् वचनम् श्रुत्वा सर्वेषाम् मुनि पुंगवः ॥१-५९-१६॥
    क्रोध संरक्त नयनः स रोषम् इदम् अब्रवीत् ।

    यत् दूषयन्ति अदुष्टम् माम् तप उग्रम् संआस्थितम् ॥१-५९-१७॥
    भस्मी भूता दुरात्मानो भविष्यन्ति न संशयः ।

    अद्य ते काल पाशेन नीता वैवस्तव क्षयम् ॥१-५९-१८॥
    सप्त जाति शतानि एव मृतपाः सन्तु सर्वशः ।

    श्व मांस नियत आहारा मुष्टिका नाम निर्घृणाः ॥१-५९-१९॥
    विकृताः च विरूपाः च लोकान् अनुचरन्तु इमान् ।

    महोदयः च दुर्बुद्धिः माम् अदूष्यम् हि अदूषयत् ॥१-५९-२०॥
    दूषितः सर्व लोकेषु निषादत्वम् गमिष्यति ।

    प्राण अतिपात निरतो निरनुक्रोशताम् गतः ॥१-५९-२१॥
    दीर्घ कालम् मम क्रोधात् दुर्गतिम् वर्तयिष्यति ।

    एतावत् उक्त्वा वचनम् विश्वामित्रो महातपाः ।
    विरराम महातेजा ऋषि मध्ये महामुनिः ॥१-५९-२२॥

    इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥

    तपो बल हतान् ज्ञात्वा वासिष्ठान् स महोदयान् ।
    ऋषि मध्ये महातेजा विह्वामित्रो अभ्यभाषत ॥१-६०-१॥

    अयम् इक्ष्वाकु दायादः त्रिशंकुः इति विश्रुतः ।
    धर्मिष्ठः च वदान्यः च माम् चैव शरणम् गतः ॥१-६०-२॥
    स्वेन अनेन शरीरेण देव लोक जिगीषया ।

    यथा अयम् स्व शरीरेण देव लोकम् गमिष्यति ॥१-६०-३॥
    तथा प्रवर्त्यताम् यज्ञो भवद्भिः च मया सह ।

    विश्वामित्र वचः श्रुत्वा सर्व एव महर्षयः ॥१-६०-४॥
    ऊचुः समेताः सहसा धर्मज्ञा धर्म संहितम् ।

    अयम् कुशिक दायादो मुनिः परम कोपनः ॥१-६०-५॥
    यत् आह वचनम् सम्यक् एतत् कार्यम् न संशयः ।
    अग्नि कल्पो हि भगवान् शापम् दास्यति रोषितः ॥१-६०-६॥

    तस्मात् प्रवर्त्यताम् यज्ञः स शरीरो यथा दिवम् ।
    गच्छेत् इक्ष्वाकु दायादो विश्वामित्रस्य तेजसा ॥१-६०-७॥
    ततः प्रवर्त्यताम् यज्ञः सर्वे समधितिष्ठत ।

    एवम् उक्त्वा महर्षयः संजह्रुः ताः क्रियाः तदा ॥१-६०-८॥
    याजकः च महातेजा विश्वामित्रो अभवत् क्रतौ ।

    ऋत्विजः च आनुपूर्व्येण मंत्रवत् मंत्र कोविदाः ॥१-६०-९॥
    चक्रुः सर्वाणि कर्माणि यथा कल्पम् यथा विधि ।

    ततः कालेन महता विश्वामित्रो महातपाः ॥१-६०-१०॥
    चकार आवाहनम् तत्र भाग अर्थम् सर्व देवताः ।

    न अभ्यागमन् तदा भाग अर्थम् सर्व देवताः ॥१-६०-११॥
    ततः कोप समाविष्टो विश्वमित्रो महामुनिः ।
    स्रुवम् उद्यम्य स क्रोधः त्रिशंकुम् इदम् अब्रवीत् ॥१-६०-१२॥

    पश्य मे तपसो वीर्यम् स्व आर्जितस्य नर ईश्वर ।
    एष त्वाम् स्व शरीरेण नयामि स्वर्गम् ओजसा ॥१-६०-१३॥
    दुष्प्रापम् स्व शरीरेण दिवम् गच्छ नर अधिप ।

    स्वार्जितम् किंचित् अपि अस्ति मया हि तपसः फलम् ॥१-६०-१४॥
    राजन् त्वम् तेजसा तस्य स शरीरो दिवम् व्रज ।

    उक्त वाक्ये मुनौ तस्मिन् स शरीरो नर ईश्वरः ॥१-६०-१५॥
    दिवम् जगाम काकुत्स्थ मुनीनाम् पश्यताम् तदा ।

    स्वर्ग लोकम् गतम् दृष्ट्वा त्रिशंकुम् पाक शासनः ॥१-६०-१६॥
    सह सर्वैः सुर गणैः इदम् वचनम् अब्रवीत् ।

    त्रिशंको गच्छ भूयः त्वम् न असि स्वर्ग कृत आलयः ॥१-६०-१७॥
    गुरु शाप हतो मूढ पत भूमिम् अवाग् शिराः ।

    एवम् उक्तो महेन्द्रेण त्रिशंकुः अपतत् पुनः ॥१-६०-१८॥
    विक्रोशमानः त्राहि इति विश्वामित्रम् तपो धनम् ।

    तत् श्रुत्वा वचनम् तस्य क्रोशमानस्य कौशिकः ॥१-६०-१९॥
    रोषम् आहारयत् तीव्रम् तिष्ठ तिष्ठ इति च अब्रवीत् ।

    ऋषि मध्ये स तेजस्वी प्रजापतिः इव अपरः ॥१-६०-२०॥
    सृजन् दक्षिण मार्गस्थान् सप्त ऋषीन् अपरान् पुनः ।
    नक्षत्र वंश परंपरम् असृजत् क्रोध मूर्छितः ॥१-६०-२१॥
    दक्षिणाम् दिशम् आस्थाय मुनि मध्ये महायशाः ।

    सृष्ट्वा नक्षत्र वंशम् च क्रोधेन कलुषी कृतः ॥१-६०-२२॥
    अन्यम् इंद्रम् करिष्यामि लोको वा स्यात् अनिंद्रकः ।
    दैवतानि अपि स क्रोधात् स्रष्टुम् समुपचक्रमे ॥१-६०-२३॥

    ततः परम संभ्रान्ताः स ऋषि संघाः सुर असुराः ।
    विश्वामित्रम् महात्मानम् ऊचुः स अनुनयम् वचः ॥१-६०-२४॥

    अयम् राजा महाभाग गुरु शाप परिक्षतः ।
    स शरीरो दिवम् यातुम् न अर्हति एव तपो धन ॥१-६०-२५॥

    तेषाम् तत् वचनम् श्रुत्वा देवानाम् मुनि पुंगवः ।
    अब्रवीत् सु महत् वाक्यम् कौशिकः सर्व देवताः ॥१-६०-२६॥

    स शरीरस्य भद्रम् वः त्रिहन्कोः अस्य भूपतेः ।
    आरोहणम् प्रतिज्ञातम् न अनृतम् कर्तुम् उत्सहे ॥१-६०-२७॥

    स्वर्गो अस्तु स शरीरस्य त्रिशंकोः अस्य शाश्वतः ।
    नक्षत्राणि च सर्वाणि मामकानि ध्रुवाणि अथ ॥१-६०-२८॥
    यावत् लोका धरिष्यन्ति तिष्ठन्ति एतानि सर्वशः ।
    यत् कृतानि सुराः सर्वे तत् अनुज्ञातुम् अर्हथ ॥१-६०-२९॥

    एवम् उक्ताः सुराः सर्वे प्रति ऊचुः मुनि पुंगवम् ।
    एवम् भवतु भद्रम् ते तिष्ठन्तु एतानि सर्वशः ॥१-६०-३०॥
    गगने तानि अनेकानि वैश्वानर पथात् बहिः ।
    नक्षत्राणि मुनि श्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ॥१-६०-३१॥
    अवाग् शिराः त्रिशंकुः च तिष्ठतु अमर संनिभः ।

    अनुयास्यन्ति च एतानि ज्योतीन्षि नृप सत्तमम् ॥१-६०-३२॥
    कृतार्थम् कीर्तिमन्तम् च स्वर्ग लोक गतम् यथा ।

    विश्वामित्रः तु धर्मात्मा सर्व देवैः अभिष्टुतः ॥१-६०-३३॥
    ऋषि मध्ये महातेजा बाढम् इति आह देवताः ।

    ततो देवा महात्मानो ऋषयः च तपो धनाः ।
    जग्मुः यथा आगतम् सर्वे यज्ञस्य अन्ते नरोत्तम ॥१-६०-३४॥

    इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥

    विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तान् ऋषीन् ।
    अब्रवीत् नरशार्दूल सर्वान् तान् वन वासिनः ॥१-६१-१॥

    महाविघ्नः प्रवृत्तो अयम् दक्षिणाम् आस्थितो दिशम् ।
    दिशम् अन्याम् प्रपत्स्यामः तत्र तप्स्यामहे तपः ॥१-६१-२॥

    पश्चिमायाम् विशालायाम् पुष्करेषु महात्मनः ।
    सुखम् तपः चरिष्यामः परम् तत् हि तपो वनम् ॥१-६१-३॥

    एवम् उक्त्वा महातेजाः पुष्करेषु महामुनिः ।
    तप उग्रम् दुराधर्षम् तेपे मूल फल अशनः ॥१-६१-४॥

    एतस्मिन् एव काले तु अयोध्या अधिपतिः महान् ।
    अंबरीष इति ख्यातो यष्टुम् समुपचक्रमे ॥१-६१-५॥

    तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह ।
    प्रणष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत् ॥१-६१-६॥

    पशुः अभ्याहृतः राजन् प्रणष्टः तव दुर्नयात् ।
    अरक्षितारम् राजानम् घ्नन्ति दोषा नरेश्वर ॥१-६१-७॥

    प्रायः चित्तम् महत् हि एतत् नरम् वा पुरुषर्षभ ।
    आनयस्व पशुम् शीघ्रम् यावत् कर्म प्रवर्तते ॥१-६१-८॥

    उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ ।
    अन्वियेष महाबुद्धिः पशुम् गोभिः सहस्रशः ॥१-६१-९॥

    देशान् जनपदान् तान् तान् नगराणि वनानि च ।
    आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥१-६१-१०॥
    स पुत्र सहितम् तात स भार्यम् रघुनंदन ।
    भृगुतुंगे समासीनम् ऋचीकम् संददर्श ह ॥१-६१-११॥

    तम् उवाच महातेजाः प्रणम्य अभिप्रसाद्य च ।
    महर्षिम् तपसा दीप्तम् राजर्षिः अमित प्रभः ॥१-६१-१२॥
    पृष्ट्वा सर्वत्र कुशलम् ऋचीकम् तम् इदम् वचः ।

    गवाम् शत सहस्रेण विक्रीणीषे सुतम् यदि ॥१-६१-१३॥
    पशोः अर्थे महाभाग कृत कृत्यो अस्मि भार्गव ।

    सर्वे परिगता देशा यज्ञियम् न लभे पशुम् ॥१-६१-१४॥
    दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम ।

    एवम् उक्तो महातेजा ऋचीकः तु अब्रवीत् वचः ॥१-६१-१५॥
    न अहम् ज्येष्ठम् नर श्रेष्ठ विक्रीणीयाम् कथंचन ।

    ऋचीकस्य वचः श्रुत्वा तेषाम् माता महात्मनाम् ॥१-६१-१६॥
    उवाच नर शार्दूलम् अंबरीषम् इदम् वचः ।

    अविक्रेयम् सुतम् ज्येष्ठम् भगवान् आह भार्गवः ॥१-६१-१७॥
    मम अपि दयितम् विद्धि कनिष्ठम् शुनकम् प्रभो ।
    तस्मात् कनीयसम् पुत्रम् न दास्ये तव पार्थिव ॥१-६१-१८॥

    प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।
    मातॄणाम् च कनीयांसः तस्मात् रक्षे कनीयसम् ॥१-६१-१९॥

    उक्त वाक्ये मुनौ तस्मिन् मुनि पत्न्याम् तथैव च ।
    शुनःशेपः स्वयम् राम मध्यमो वाक्यम् अब्रवीत् ॥१-६१-२०॥

    पिता ज्येष्ठम् अविक्रेयम् माता च आह कनीयसम् ।
    विक्रेतम् मध्यमम् मन्ये राजपुत्र नयस्व माम् ॥१-६१-२१॥

    अथ राजा महाबाहो वाक्य अन्ते ब्रह्म वादिनः ।
    हिरण्यस्य सुवर्णस्य कोटिभी रत्न राशिभिः ॥१-६१-२२॥
    गवाम् शत सहस्रेण शुनःशेपम् नरेश्वरः ।
    गृहीत्वा परम प्रीतो जगाम रघुनंदन ॥१-६१-२३॥

    अंबरीषः तु राजर्षी रथम् आरोप्य सत्वरः ।
    शुनःशेपम् महातेजा जगाम आशु महायशाः ॥१-६१-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥

    शुनःशेपम् नरश्रेष्ठ गृहीत्वा तु महायशाः ।
    व्यश्रामत् पुष्करे राजा मध्याह्ने रघुनंदन ॥१-६२-१॥

    तस्य विश्रममाणस्य शुनःशेपो महायशाः ।
    पुष्करम् ज्येष्ठम् आगम्य विश्वामित्रम् ददर्श ह ॥१-६२-२॥
    तप्यन्तम् ऋषिभिः सार्थम् मातुलम् परम आतुरः ।

    विषण्ण वदनो दीनः तृष्णया च श्रमेण च ॥१-६२-३॥
    पपात अन्के मुने राम वाक्यम् च इदम् उवाच ह ।

    न मे अस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ॥१-६२-४॥
    त्रातुम् अर्हसि माम् सौम्य धर्मेण मुनिपुंगव ।

    त्राता त्वम् हि नरश्रेष्ठ सर्वेषाम् त्वम् हि भावनः ॥१-६२-५॥
    राजा च कृतकार्यः स्यात् अहम् दीर्घ आयुः अव्ययः ।
    स्वर्ग लोकम् उपाश्नीयाम् तपः तप्त्वा हि अनुत्तमम् ॥१-६२-६॥

    स मे नाथो हि अनाथस्य भव भव्येन चेतसा ।
    पिता इव पुत्रम् धर्माअत्मन् त्रातुम् अर्हसि किल्बिषात् ॥१-६२-७॥

    तस्य तत् वचनम् श्रुत्वा विश्वामित्रो महातपाः ।
    सान्त्वयित्वा बहु विधम् पुत्रान् इदम् उवाच ह ॥१-६२-८॥

    यत् कृते पितरः पुत्रान् जनयन्ति शुभ अर्थिनः ।
    पर लोक हित अर्थाय तस्य कालो अयम् आगतः ॥१-६२-९॥

    अयम् मुनि सुतो बालो मत्तः शरणम् इच्छति ।
    अस्य जीवित मात्रेण प्रियम् कुरुत पुत्रकाः ॥१-६२-१०॥

    सर्वे सुकृत कर्माणः सर्वे धर्म परायणाः ।
    पशु भूता नरेन्द्रस्य तृप्तिम् अग्नेः प्रयच्छत ॥१-६२-११॥

    नाथनान् च शुनःशेपो यज्ञः च अविघ्नतो भवेत् ।
    देवताः तर्पिताः च स्युः मम च अपि कृतम् वचः ॥१-६२-१२॥

    मुनेः तु वचनम् श्रुत्वा मधुष्यन्द आदयः सुताः ।
    स अभिमानम् नरश्रेष्ठ स लीलम् इदम् अब्रुवन् ॥१-६२-१३॥

    कथम् आत्म सुतान् हित्वा त्रायसे अन्य सुतम् विभो ।
    अकार्यम् इव पश्यामः श्व मांसम् इव भोजने ॥१-६२-१४॥

    तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् मुनिपुंगवः ।
    क्रोध संरक्त नयनो व्याहर्तुम् उपचक्रमे ॥१-६२-१५॥

    निःसाध्वसम् इदम् प्रोक्तम् धर्मात् अपि विगर्हितम् ।
    अतिक्रम्य तु मत् वाक्यम् दारुणम् रोम हर्षणम् ॥१-६२-१६॥

    श्व मांस भोजिनः सर्वे वासिष्ठा इव जातिषु ।
    पूर्णम् वर्ष सहस्रम् तु पृथिव्याम् अनुवत्स्यथ ॥१-६२-१७॥

    कृत्वा शाप समायुक्तान् पुत्रान् मुनिवरः तदा ।
    शुनःशेपम् उवाच आर्तम् कृत्वा रक्षाम् निरामयाम् ॥१-६२-१८॥

    पवित्र पाशैर् बद्धो रक्त माल्य अनुलेपनः ।
    वैष्णवम् यूपम् आसाद्य वाग्भिः अग्निम् उदाहर ॥१-६२-१९॥

    इमे च गाथे द्वे दिव्ये गायेथा मुनि पुत्रक ।
    अंबरीषस्य यज्ञे अस्मिन् ततः सिद्धिम् अवाप्स्यसि ॥१-६२-२०॥

    शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः ।
    त्वरया राज सिंहम् तम् अंबरीषम् उवाच ह ॥१-६२-२१॥

    राज सिंह महाबुद्धे शीघ्रम् गच्छावहे वयम् ।
    निवर्तयस्व राजेन्द्र दीक्षाम् च समुदाहर ॥१-६२-२२॥

    तत् वाक्यम् ऋषि पुत्रस्य श्रुत्वा हर्ष समन्वितः ।
    जगाम नृपतिः शीघ्रम् यज्ञ वाटम् अतन्द्रितः ॥१-६२-२३॥

    सदस्य अनुमते राजा पवित्र कृत लक्षणम् ।
    पशुम् रक्त अंबरम् कृत्वा यूपे तम् समबन्धयत् ॥१-६२-२४॥

    स बद्धो वाग्भिः अग्र्याभिः अभितुष्टाव वै सुरौ ।
    इन्द्रम् इन्द्र अनुजम् चैव यथावत् मुनि पुत्रकः ॥१-६२-२५॥

    ततः प्रीतः सहस्र अक्षो रहस्य स्तुति तोषितः ।
    दीर्घम् आयुः तदा प्रादात् शुनःशेपाय राघव ॥१-६२-२६॥

    स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।
    फलम् बहु गुणम् राम सहस्राक्ष प्रसादजम् ॥१-६२-२७॥

    विश्वामित्रो अपि धर्मात्मा भूयः तेपे महातपाः ।
    पुष्करेषु नरश्रेष्ठ दश वर्ष शतानि च ॥१-६२-२८॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥

    पूर्णे वर्ष सहस्रे तु व्रत स्नातम् महामुनिम् ।
    अभ्यागच्चन् सुराः सर्वे तपः फल चिकीर्षवः ॥१-६३-१॥

    अब्रवीत् सु महातेजा ब्रह्मा सु रुचिरम् वचः ।
    ऋषिः त्वम् असि भद्रम् ते स्व अर्जितैः कर्मभिः शुभैः ॥१-६३-२॥

    तम् एवम् उक्त्वा देवेशः त्रिदिवम् पुनः अभ्यगात् ।
    विश्वामित्रो महातेजा भूयः तेपे महत् तपः ॥१-६३-३॥

    ततः कालेन महता मेनका परम अप्सराः ।
    पुष्करेषु नर श्रेष्ठ स्नातुम् समुपचक्रमे ॥१-६३-४॥

    ताम् ददर्श महातेजा मेनकाम् कुशिक आत्मजः ।
    रूपेण अप्रतिमाम् तत्र विद्युतम् जलदे यथा ॥१-६३-५॥

    दृष्ट्वा कन्दर्प वशगो मुनिः ताम् इदम् अब्रवीत् ।
    अप्सरः स्वागतम् ते अस्तु वस च इह मम आश्रमे ॥१-६३-६॥
    अनुगृह्णीष्व भद्रम् ते मदनेन सु मोहितम् ।

    इति उक्ता सा वरारोहा तत्र वासम् अथ अकरोत् ॥१-६३-७॥
    तपसो हि महाविघ्नो विश्वामित्रम् उपागतम् ।
    तस्याम् वसन्त्याम् वर्षाणि पंच पंच च राघव ॥१-६३-८॥
    विश्वामित्र आश्रमे सौम्य सुखेन व्यतिचक्रमुः ।

    अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥१-६३-९॥
    स व्रीड इव संवृत्तः चिन्ता शोक परायणः ।
    बुद्धिर् मुनेः समुत्पन्ना स अमर्षा रघुनंदन ॥१-६३-१०॥

    सर्वम् सुराणाम् कर्म एतत् तपो अपहरणम् महत् ।
    अहो रात्रा अपदेशेन गताः संवत्सरा दश ॥१-६३-११॥
    काम मोह अभिभूतस्य विघ्नो अयम् प्रत्युपस्थितः ।

    स विनिःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥१-६३-१२॥
    भीताम् अप्सरसम् दृष्ट्वा वेपन्तीम् प्रांजलिम् स्थिताम् ।
    मेनकाम् मधुरैः वाक्यैः विसृज्य कुशिक आत्मजः ॥१-६३-१३॥
    उत्तरम् पर्वतम् राम विश्वामित्रो जगाम ह ।

    स कृत्वा नैष्ठिकीम् बुद्धिम् जेतु कामो महायशाः ॥१-६३-१४॥
    कौशिकी तीरम् आसाद्य तपः तेपे दुरासदम् ।

    तस्य वर्ष सहस्राणि घोरम् तप उपासतः ॥१-६३-१५॥
    उत्तरे पर्वते राम देवतानाम् अभूत् भयम् ।

    अमंत्रयन् समागम्य सर्वे स ऋषि गणाः सुराः ॥१-६३-१६॥
    महर्षि शब्दम् लभताम् साधु अयम् कुशिक आत्मजः ।

    देवतानाम् वचः श्रुत्वा सर्व लोक पितामहः ॥१-६३-१७॥
    अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।

    महर्षे स्वागतम् वत्स तपसा उग्रेण तोषितः ॥१-६३-१८॥
    महत्त्वम् ऋषि मुख्यत्वम् ददामि तव कौशिक ।

    ब्रह्मणः स वचः श्रुत्वा विश्वामित्रः तपो धनः ॥१-६३-१९॥
    प्रांजलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ।

    ब्रह्मर्षि शब्दम् अतुलम् स्व अर्जितैः कर्मभिः शुभैः ॥१-६३-२०॥
    यदि मे भगवान् आह ततो अहम् विजित इन्द्रियः ।

    तम् उवाच ततो ब्रह्मा न तावत् त्वम् जित इन्द्रियः ॥१-६३-२१॥
    यतस्व मुनि शार्दूल इति उक्त्वा त्रिदिवम् गतः ।

    विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥१-६३-२२॥
    ऊर्ध्व बाहुः निरालंबो वायु भक्षः तपः चरन् ।

    धर्मे पंच तपा भूत्वा वर्षासु आकाश संश्रयः ॥१-६३-२३॥
    शिशिरे सलिले शायी रात्रि अहानि तपो धनः ।
    एवम् वर्ष सहस्रम् हि तपो घोरम् उपागमत् ॥१-६३-२४॥

    तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ।
    संतापः सुमहान् आसीत् सुराणाम् वासवस्य च ॥१-६३-२५॥

    रंभाम् अप्सरसम् शक्रः सह सर्वैः मरुत् गणैः ।
    उवाच आत्म हितम् वाक्यम् अहितम् कौशिकस्य च ॥१-६३-२६॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥

     - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥

    सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया ।
    लोभनं कौशिकस्येह काममोहसमन्वितम् ॥१-६४-१॥
    तथोक्ता साप्सरा राम सहस्राक्षेण धीमता ।
    व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम् ॥१-६४-२॥
    अयं सुरपते घोरो विश्वामित्रो महामुनिः ।
    क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः ।
    ततो हि मे भयं देव प्रसादं कर्तुमर्हसि ॥१-६४-३॥
    तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ।
    मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम् ॥१-६४-४॥
    कोकिलो हृदयग्राही माधवे रुचिरद्रुमे ।
    अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः ॥१-६४-५॥
    त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।
    तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ॥१-६४-६॥
    सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ।
    लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥१-६४-७॥
    कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।
    संप्रहृष्टेन मनसा तत एनामुदैक्षत ॥१-६४-८॥
    अथ तस्य च शब्देन गीतेनाप्रतिमेन च ।
    दर्शनेन च रम्भाया मुनिः संदेहमागतः ॥१-६४-९॥
    सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुंगवः ।
    रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः ॥१-६४-१०॥
    यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् ।
    दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥१-६४-११॥
    ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः ।
    उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ॥१-६४-१२॥
    एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ।
    अशक्नुवन् धारयितुं कोपं संतापमागतः ॥१-६४-१३॥
    तस्य शापेन महता रम्भा शैली तदाभवत् ।
    वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥१-६४-१४॥
    कोपेन स महातेजास्तपोऽपहरणे कृते ।
    इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ॥१-६४-१५॥

    बभूव अस्य मनः चिंता तपो अपहरणे कृते ।
    न एव क्रोधम् गमिष्यामि न च वक्ष्ये कथंचन ॥१-६४-१७॥

    अथवा न उच्छासिष्यामि संवत्स्र शतानि अपि ।
    अहम् हि शोषयिष्यामि आत्मानम् विजितेन्द्रियः ॥१-६४-१८॥

    तावत् यावत् हि मे प्राप्तम् ब्राह्मण्यम् तपसा आर्जितम् ।
    अनुच्छ्वसन् अभुंजाः तिष्ठेयम् शाश्वती समाः ॥१-६४-१९॥
    न हि मे तप्यमानस्य क्षयम् यास्यन्ति मूर्तयः ।

    एवम् वेअर्ष शस्रस्य दीक्षाम् स मुनिपुंगवः ।
    चकार प्रतिमाम् लोके प्रतिज्ञाम् रघुनंदन ॥१-६४-२०॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥

    अथ हैमवतीम् राम दिशम् त्यक्त्वा महामुनिः ।
    पूर्वाम् दिशम् अनुप्राप्य तपः तेपे सुदारुणम् ॥१-६५-१॥

    मौनम् वर्ष सहस्रस्य कृत्वा व्रतम् अनुत्तमम् ।
    चकार अप्रतिमम् राम तपः परम दुष्करम् ॥१-६५-२॥

    पूर्णे वर्ष सहस्रे तु काष्ठ भूतम् महामुनिम् ।
    विघ्नैः बहुभिः आधूतम् क्रोधो न अंतरम् आविशत् ॥१-६५-३॥
    सः कृत्वा निश्चयम् राम तप आतिष्टत् अव्ययम् ।

    तस्य वर्ष सहस्रस्य व्रते पूर्णे महाव्रतः ॥१-६५-४॥
    भोक्तुम् आरब्धवान् अन्नम् तस्मिन् काले रघूत्तम ।
    इन्द्रो द्विजातिः भूत्वा तम् सिद्ध अन्नम् अयाचत् ॥१-६५-५॥

    तस्मैः दत्त्वा तदा सिद्धम् सर्वम् विप्राय निश्चितः ।
    निःषेषिते अन्ने भगवान् अभुक्त्वा इव महातपाः ॥१-६५-६॥
    न किंचित् अवदत् विप्रम् मौन व्रतम् उपास्थितः ।
    तथा एव आसीत् पुनः मौनम् अनुच्छ्वासम् चकार ह ॥१-६५-७॥

    अथ वर्ष सहस्रम् च न उच्छ्वसन् मुनिपुंगवः ।
    तस्य अनुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ॥१-६५-८॥
    त्रै लोक्यम् येन संभ्रांतम् आतापितम् इव अभवत् ।

    ततो देवर्षि गन्धर्वाः पन्नग उरग राक्षसाः ॥१-६५-९॥
    मोहिता तपसा तस्य तेजसा मंदरश्मयः ।
    कश्मल उपहताः सर्वे पितामहम् अथ अब्रुवन् ॥१-६५-१०॥

    बहुभिः कारणैः देव विश्वामित्रो महामुनिः ।
    लोभितः क्रोधितः चैव तपसा च अभिवर्धते ॥१-६५-११॥

    न हि अस्य वृजिनम् किंचित् दृश्यते सूक्ष्मम् अपि अथ ।
    न दीयते यदि तु अस्य मनसा यत् अभीप्सितम् ॥१-६५-१२॥
    विनाशयति त्रैलोक्यम् तपसा स चर अचरम् ।

    व्याकुलाः च दिशः सर्वा न च किंचित् प्रकाशते ॥१-६५-१३॥
    सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।

    प्रकंपते च वसुधा वायुः वाति इह संकुलः ॥१-६५-१४॥
    ब्रह्मन् नप्रतिजानीमो नास्तिको जायते जनः ।

    सम्मूढम् इव त्रैलोक्यम् संप्रक्षुभित मानसम् ॥१-६५-१५॥
    भास्करो निष्प्रभः चैव महर्षेः तस्य तेजसा ।

    बुद्धिम् न कुरुते यावत् नाशे देव महामुनिः ॥१-६५-१६॥
    तावत् प्रसादो भगवान् अग्नि रूपो महाद्युतिः ।

    काल अग्निना यथा पूर्वम् त्रैलोक्यम् दह्यते अखिलम् ॥१-६५-१७॥
    देव राज्यम् चिकीर्षेत दीयताम् अस्य यत् मतम् ।

    ततः सुर गणाः सर्वे पितामह पुरोगमाः ॥१-६५-१८॥
    विश्वामित्रम् महात्मानम् वाक्यम् मधुरम् अब्रुवन् ।

    ब्रह्मर्षे स्वागतम् ते अस्तु तपसा स्म सु तोषिताः ॥१-६५-१९॥
    ब्राह्मण्यम् तपसा उग्रेण प्राप्तवान् असि कौशिक ।

    दीर्घम् आयुः च ते ब्रह्मन् ददामि स मरुद् गणः ॥१-६५-२०॥
    स्वस्ति प्राप्नुहि भद्रम् ते गच्छ सौम्य यथा सुखम् ।

    पितामह वचः श्रुत्वा सर्वेषाम् त्रिदिव ओकसाम् ॥१-६५-२१॥
    कृत्वा प्रणामम् मुदितो व्याजहार महामुनिः ।

    ब्राह्मण्यम् यदि मे प्राप्तम् दीर्घम् आयुः तथैव च ॥१-६५-२२॥
    आऊं कारो अथ वषट् कारो वेदाः च वरयन्तु माम् ।

    क्षत्र वेदविदाम् श्रेष्ठो ब्रह्म वेदविदाम् अपि ॥१-६५-२३॥
    ब्रह्म पुत्रो वसिष्ठो माम् एवम् वदतु देवताः ।
    यदि अयम् परमः कामः कृतो यान्तु सुरर्षभाः ॥१-६५-२४॥

    ततः प्रसादितो देवैः वसिष्ठो जपताम् वरः ।
    सख्यम् चकार ब्रह्मर्षिः एवम् अस्तु इति च अब्रवीत् ॥१-६५-२५॥

    ब्रह्मर्षिः त्वम् न संदेहः सर्वम् संपद्यते तव ।
    इति उक्त्वा देवताः च अपि सर्वा जग्मुः यथा आगतम् ॥१-६५-२६॥

    विश्वामित्रो अपि धर्मात्मा लब्ध्वा ब्राह्मण्यम् उत्तमम् ।
    पूजयामास ब्रह्मर्षिम् वसिष्ठम् जपताम् वरम् ॥१-६५-२७॥

    कृत कामो महीम् सर्वाम् चचार तपसि स्थितः ।
    एवम् तु अनेन ब्राह्मण्यम् प्राप्तम् राम महात्मना ॥१-६५-२८॥

    एष राम मुनि श्रेष्ठ एष विग्रहवान् तपः ।
    एष धर्मः परो नित्यम् वीर्यस्य एष परायणम् ॥१-६५-२९॥

    एवम् उक्त्वा महातेजा विरराम द्विजोत्तमः ।
    शतानंद वचः श्रुत्वा राम लक्ष्मण संनिधौ ॥१-६५-३०॥
    जनकः प्रांजलिः वाक्यम् उवाच कुशिकाअत्मजम् ।

    धन्यो अस्मि अनुगृहीतो अस्मि यस्य मे मुनिपुंगव ॥१-६५-३१॥
    यज्ञम् काकुत्स्थ सहितः प्राप्तवान् असि कौशिक ।

    पावितो अहम् त्वया ब्रह्मन् दर्शनेन महामुने ॥१-६५-३२॥
    गुणा बहु विधाः प्राप्ताः तव संदर्शनात् मया ।

    विस्तरेण च वै ब्रह्मन् कीर्त्यमानम् महत्तपः ॥१-६५-३३॥
    श्रुतम् मया महातेजो रामेण च महात्मना ।

    सदस्यैः प्राप्य च सदः श्रुताः ते बहवो गुणाः ॥१-६५-३४॥
    अप्रमेयम् तपः तुभ्यम् अप्रमेयम् च ते बलम् ।
    अप्रमेया गुणाः चैव नित्यम् ते कुशिकात्मज ॥१-६५-३५॥

    तृप्तिः आश्चर्य भूतानाम् कथानाम् न अस्ति मे विभो ।
    कर्म कालो मुनि श्रेष्ठ लम्बते रवि मण्डलम् ॥१-६५-३६॥

    श्वः प्रभाते महातेजो द्रष्टुम् अर्हसि माम् पुनः ।
    स्वागतम् जपताम् श्रेष्ठ माम् अनुज्ञातुम् अर्हसि ॥१-६५-३७॥

    एवम् उक्तो मुनिवरः प्रशस्य पुरुषर्षभम् ।
    विससर्ज आशु जनकम् प्रीतम् प्रीतिमान् तदाअ ॥१-६५-३८॥

    एवम् उक्त्वा मुनि श्रेष्ठम् वैदेहो मिथिला अधिपः ।
    प्रदक्षिणम् चकार आशु स उपाध्यायः स बांधवः ॥१-६५-३९॥

    विश्वामित्रो अपि धर्मात्मा सह रामः स लक्ष्मणः ।
    स्वम् वासम् अभिचक्राम पूज्यमानो महर्षिभिः ॥१-६५-४०॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चषष्ठितमः सर्गः ॥१-६५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥

    ततः प्रभाते विमले कृत कर्मा नराधिपः ।
    विश्वामित्रम् महात्मानम् आजुहाव स राघवम् ॥१-६६-१॥

    तम् अर्चयित्वा धर्माअत्मा शास्त्र दृष्टेन कर्मणा ।
    राघवौ च महात्मानौ तदा वाक्यम् उवाच ह ॥१-६६-२॥

    भगवन् स्वागतम् ते अस्तु किम् करोमि तव अनघ ।
    भवान् आज्ञापयतु माम् आज्ञाप्यो भवता हि अहम् ॥१-६६-३॥

    एवम् उक्तः स धर्मात्मा जनकेन महात्मना ।
    प्रत्युवाच मुनिर् वीरम् वाक्यम् वाक्य विशारदः ॥१-६६-४॥

    पुत्रौ दशरथस्य इमौ क्षत्रियौ लोक विश्रुतौ ।
    द्रष्टु कामौ धनुः श्रेष्ठम् यत् एतत् त्वयि तिष्ठति ॥१-६६-५॥

    एतत् दर्शय भद्रम् ते कृत कामौ नृप आत्मजौ ।
    दर्शनात् अस्य धनुषो यथा इष्टम् प्रतियास्यतः ॥१-६६-६॥

    एवम् उक्तः तु जनकः प्रत्युवाच महामुनिम् ।
    श्रूयताम् अस्य धनुषो यत् अर्थम् इह तिष्ठति ॥१-६६-७॥

    देवरात इति ख्यातो निमेः ज्येष्ठो मही पतिः ।
    न्यासो अयम् तस्य भगवन् हस्ते दत्तो महात्मना ॥१-६६-८॥

    दक्ष यज्ञ वधे पूर्वम् धनुः आयम्य वीर्यवान् ।
    रुद्रः तु त्रिदशान् रोषात् स लीलम् इदम् अब्रवीत् ॥१-६६-९॥

    यस्मात् भाग अर्थिनो भागान् न अकल्पयत मे सुराः ।
    वर अंगानि महाअर्हाणि धनुषा शातयामि वः ॥१-६६-१०॥

    ततो विमनसः सर्वे देवा वै मुनिपुंगव ।
    प्रसादयन्ति देवेशम् तेषाम् प्रीतो अभवत् भवः ॥१-६६-११॥

    प्रीति युक्तः तु सर्वेषाम् ददौ तेषाम् महात्मनाम् ।
    तत् एतत् देवदेवस्य धनू रत्नम् महात्मनः ॥१-६६-१२॥
    न्यासभूतम् तदा न्यस्तम् अस्माकम् पूर्वजे विभो ।

    अथ मे कृषतः क्षेत्रम् लांगलात् उत्थिता मम ॥१-६६-१३॥
    क्षेत्रम् शोधयता लब्ध्वा नाम्ना सीता इति विश्रुता ।

    भू तलात् उत्थिता सा तु व्यवर्धत मम आत्मजा ॥१-६६-१४॥
    वीर्य शुल्का इति मे कन्या स्थापिता इयम् अयोनिजा ।

    भूतलात् उत्थिताम् ताम् तु वर्धमानाम् मम आत्मजाम् ॥१-६६-१५॥
    वरयामासुः आगम्य राजानो मुनिपुंगव ।

    तेषाम् वरयताम् कन्याम् सर्वेषाम् पृथिवीक्षिताम् ॥१-६६-१६॥
    वीर्य शुल्का इति भगवन् न ददामि सुताम् अहम् ।

    ततः सर्वे नृपतयः समेत्य मुनिपुंगव ॥१-६६-१७॥
    मिथिलाम् अभ्युपागम्य वीर्यम् जिज्ञासवः तदा ।

    तेषाम् जिज्ञासमानानाम् शैवम् धनुः उपाहृतम् ॥१-६६-१८॥
    न शेकुः ग्रहणे तस्य धनुषः तोलने अपि वा ।

    तेषाम् वीर्यवताम् वीर्यम् अल्पम् ज्ञात्वा महामुने ॥१-६६-१९॥
    प्रत्याख्याता नृपतयः तन् निबोध तपोधन ।

    ततः परम कोपेन राजानो मुनिपुंगव ॥१-६६-२०॥
    अरुन्धन् मिथिलाम् सर्वे वीर्य संदेहम् आगताः ।

    आत्मानम् अवधूतम् ते विज्ञाय मुनिपुंगव ॥१-६६-२१॥
    रोषेण महता आविष्टाः पीडयन् मिथिलाम् पुरीम् ।

    ततः संवत्सरे पूर्णे क्षयम् यातानि सर्वशः ॥१-६६-२२॥
    साधनानि मुनिश्रेष्ठ ततो अहम् भृश दुःखितः ।

    ततो देव गणान् सर्वान् तपसा अहम् प्रसादयम् ॥१-६६-२३॥
    ददुः च परम प्रीताः चतुरंग बलम् सुराः ।

    ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ॥१-६६-२४॥
    अवीर्या वीर्य संदिग्धा स अमात्याः पाप कारिणः ।

    तत् एतत् मुनिशार्दूल धनुः परम भास्वरम् ॥१-६६-२५॥
    राम लक्ष्मणयोः च अपि दर्शयिष्यामि सुव्रत ।

    यदि अस्य धनुषो रामः कुर्यात् आरोपणम् मुने ।
    सुताम् अयोनिजाम् सीताम् दद्याम् दाशरथेः अहम् ॥१-६६-२६॥


    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्षष्ठितमः सर्गः ॥१-६६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥

    जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
    धनुर् दर्शय रामाय इति ह उवाच पार्थिवम् ॥१-६७-१॥

    ततः स राजा जनकः सचिवान् व्यादिदेश ह ।
    धनुर् आनीयताम् दिव्यम् गन्ध माल्य अनुलेपितम् ॥१-६७-२॥

    जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरम् ।
    तत् धनुः पुरतः कृत्वा निर्जग्मुः अमित औजसः ॥१-६७-३॥
    नृणाम् शतानि पंचाशत् व्यायतानाम् महात्मनाम् ।
    मंजूषाम् अष्ट चक्राम् ताम् समूहुः ते कथंचन ॥१-६७-४॥

    ताम् आदाय तु मंजूषाम् आयसीम् यत्र तत् धनुः ।
    सुरोपमम् ते जनकम् ऊचुः नृपति मन्त्रिणः ॥१-६७-५॥

    इदम् धनुर् वरम् राजन् पूजितम् सर्व राजभिः ।
    मिथिला अधिप राज इन्द्र दर्शनीयम् यत् इच्छसि ॥१-६७-६॥

    तेषाम् नृपो वचः श्रुत्वा कृत अंजलिः अभाषत ।
    विश्वामित्रम् महात्मानम् तौ उभौ राम लक्ष्मणौ ॥१-६७-७॥

    इदम् धनुर् वरम् ब्रह्मन् जनकैः अभिपूजितम् ।
    राजभिः च महा वीर्यैः अशक्तैः पूरितम् तदा ॥१-६७-८॥

    न एतत् सुर गणाः सर्वे स असुरा न च राक्षसाः ।
    गंधर्व यक्ष प्रवराः स किन्नर महोरगाः ॥१-६७-९॥
    क्व गतिः मानुषाणाम् च धनुषो अस्य प्रपूरणे ।
    आरोपणे समायोगे वेपने तोलने अपि वा ॥१-६७-१०॥

    तत् एतत् धनुषाम् श्रेष्ठम् आनीतम् मुनिपुंगव ।
    दर्शय एतत् महाभाग अनयोः राज पुत्रयोः ॥१-६७-११॥

    विश्वामित्रः स रामः तु श्रुत्वा जनक भाषितम् ।
    वत्स राम धनुः पश्य इति राघवम् अब्रवीत् ॥१-६७-१२॥

    महर्षेः वचनात् रामो यत्र तिष्ठति तत् धनुः ।
    मंजूषाम् ताम् अपावृत्य दृष्ट्वा धनुः अथ अब्रवीत् ॥१-६७-१३॥

    इदम् धनुर्वरम् ब्रह्मन् संस्पृशामि इह पाणिना ।
    यत्नवान् च भविष्यामि तोलने पूरणे अपि वा ॥१-६७-१४॥

    बाढम् इति एव तम् राजा मुनिः च समभाषत ।
    लीलया स धनुर् मध्ये जग्राह वचनात् मुनेः ॥१-६७-१५॥

    पश्यताम् नृ सहस्राणाम् बहूनाम् रघुनंदनः ।
    आरोपयत् स धर्मात्मा स लीलम् इव तत् धनुः ॥१-६७-१६॥

    आरोपयित्वा मौर्वीम् च पूरयामास वीर्यवान् ।
    तत् बभंज धनुर् मध्ये नरश्रेष्ठो महायशाः ॥१-६७-१७॥

    तस्य शब्दो महान् आसीत् निर्घात सम निःस्वनः ।
    भूमि कंपः च सुमहान् पर्वतस्य इव दीर्यतः ॥१-६७-१८॥

    निपेतुः च नराः सर्वे तेन शब्देन मोहिताः ।
    व्रजयित्वा मुनि वरम् राजानम् तौ च राघवौ ॥१-६७-१९॥

    प्रति आश्वस्तो जने तस्मिन् राजा विगत साध्वसः ।
    उवाच प्रांजलिः वाक्यम् वाक्यज्ञो मुनिपुंगवम् ॥१-६७-२०॥

    भगवन् दृष्ट वीर्यो मे रामो दशरथ आत्मजः ।
    अति अद्भुतम् अचिंत्यम् च अतर्कितम् इदम् मया ॥१-६७-२१॥

    जनकानाम् कुले कीर्तिम् आहरिष्यति मे सुता ।
    सीता भर्तारम् आसाद्य रामम् दशरथ आत्मजम् ॥१-६७-२२॥

    मम सत्या प्रतिज्ञा सा वीर्य शुल्का इति कौशिक ।
    सीता प्राणैः बहुमता देया रामाय मे सुता ॥१-६७-२३॥

    भवतो अनुमते ब्रह्मन् शीघ्रम् गच्छंतु मंत्रिणः ।
    मम कौशिक भद्रम् ते अयोध्याम् त्वरिता रथैः ॥१-६७-२४॥

    राजानम् प्रश्रितैः वाक्यैः आनयंतु पुरम् मम ।
    प्रदानम् वीर्य शुक्लायाः कथयंतु च सर्वशः ॥१-६७-२५॥

    मुनि गुप्तौ च काकुत्स्थौ कथयंतु नृपाय वै ।
    प्रीति युक्तम् तु राजानम् आनयंतु सु शीघ्र गाः ॥१-६७-२६॥

    कौशिकः च तथा इति आह राजा च आभाष्य मंत्रिणः ।
    अयोध्याम् प्रेषयामास धर्मात्मा कृत शासनान् ।
    यथा वृत्तम् समाख्यातुम् आनेतुम् च नृपम् तथा ॥१-६७-२७॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥

    जनकेन समादिष्टा दूताः ते क्लान्त वाहनाः ।
    त्रि रात्रम् उषिता मार्गे ते अयोध्याम् प्राविशन् पुरीम् ॥१-६८-१॥

    ते राज वचनात् गत्वा राजवेश्म प्रवेशिताः ।
    ददृशुः देव संकाशम् वृद्धम् दशरथम् नृपम् ॥१-६८-२॥

    बद्ध अंजलि पुटाः सर्वे दूता विगत साध्वसाः ।
    राजानम् प्रश्रितम् वाक्यम् अब्रुवन् मधुर अक्षरम् ॥१-६८-३॥

    मैथिलो जनको राजा स अग्नि होत्र पुरस्कृतः ।
    मुहुर् मुहुर् मधुरया स्नेह संरक्तया गिरा ॥१-६८-४॥
    कुशलम् च अव्ययम् चैव स उपाध्याय पुरोहितम् ।
    जनकः त्वाम् महाराज पृच्छते स पुरः सरम् ॥१-६८-५॥

    पृष्ट्वा कुशलम् अव्यग्रम् वैदेहो मिथिलाधिपः ।
    कौशिक अनुमते वाक्यम् भवन्तम् इदम् अब्रवीत् ॥१-६८-६॥

    पूर्वम् प्रतिज्ञा विदिता वीर्य शुल्का मम आत्मजा ।
    राजानः च कृत अमर्षा निर्वीर्या विमुखी कृताः ॥१-६८-७॥

    सा इयम् मम सुता राजन् विश्वामित्र पुरस्कृतैः ।
    यदृच्छया आगतैः वीरैः निर्जिता तव पुत्रकैः ॥१-६८-८॥

    तत् च रत्नम् धनुर् दिव्यम् मध्ये भग्नम् महात्मना ।
    रामेण हि महाबाहो महत्याम् जन संसदि ॥१-६८-९॥

    अस्मै देया मया सीता वीर्य शुल्का महात्मने ।
    प्रतिज्ञाम् तर्तुम् इच्छामि तत् अनुज्ञातुम् अर्हसि ॥१-६८-१०॥

    स उपाध्यायो महाराज पुरोहित पुरस्कृतः ।
    शीघ्रम् आगच्छ भद्रम् ते द्रष्टुम् अर्हसि राघवौ ॥१-६८-११॥

    प्रतिज्ञाम् मम राजेन्द्र निर्वर्तयितुम् अर्हसि ।
    पुत्रयोः उभयोः एव प्रीतिम् त्वम् अपि लप्स्यसे ॥१-६८-१२॥

    एवम् विदेह अधिपतिः मधुरम् वाक्यम् अब्रवीत् ।
    विश्वामित्र अभ्यनुज्ञातः शताअनन्द मते स्थितः ॥१-६८-१३॥

    दूत वाक्यम् तु तत् श्रुत्वा राजा परम हर्षितः ।
    वसिष्ठम् वामदेवम् च मंत्रिणः च एवम् अब्रवीत् ॥१-६८-१४॥

    गुप्तः कुशिक पुत्रेण कौसल्य आनन्द वर्धनः ।
    लक्ष्मणेन सह भ्रात्रा विदेहेषु वसति असौ ॥१-६८-१५॥

    दृष्ट वीर्यः तु काकुत्स्थो जनकेन महात्मना ।
    संप्रदानम् सुतायाः तु राघवे कर्तुम् इच्छति ॥१-६८-१६॥

    यदि वो रोचते वृत्तम् जनकस्य महात्मनः ।
    पुरीम् गच्छामहे शीघ्रम् मा भूत् कालस्य पर्ययः ॥१-६८-१७॥

    मंत्रिणो बाढम् इति आहुः सह सर्वैः महर्षिभिः ।
    सु प्रीतः च अब्रवीत् राजा श्वः यात्रा इति च मंत्रिणः ॥१-६८-१८॥

    मंत्रिणः तु नरेन्द्रस्य रात्रिम् परम सत्कृताः ।
    ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः ॥१-६८-१९॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥

    ततो रात्र्याम् व्यतीतायाम् स उपाध्यायः स बान्धवः ।
    राजा दशरथो हृष्टः सुमंत्रम् इदम् अब्रवीत् ॥१-६९-१॥

    अद्य सर्वे धन अध्यक्षा धनम् आदाय पुष्कलम् ।
    व्रजंति अग्रे सु विहिता नाना रत्न समन्विताः ॥१-६९-२॥

    चतुरंग बलम् च अपि शीघ्रम् निर्यातु सर्वशः ।
    मम आज्ञा समकालम् च यानम् युग्मम् अनुत्तमम् ॥१-६९-३॥

    वसिष्ठो वामदेवः च जाबालिः अथ काश्यपः ।
    मार्कण्डेयः च दीर्घायुः ऋषिः कात्यायनः तथा ॥१-६९-४॥
    एते द्विजाः प्रयान्तु अग्रे स्यंदनम् योजयस्व मे ।
    यथा काल अत्ययो न स्यात् दूता हि त्वरयन्ति माम् ॥१-६९-५॥

    वचनात् च नरेन्द्रस्य सेना च चतुरंगिणी ।
    राजानम् ऋषिभिः सार्धम् व्रजंतम् पृष्ठतो अन्वगात् ॥१-६९-६॥

    गत्वा चतुर् अहम् मार्गम् विदेहान् अभ्युपेयिवान् ।
    राजा तु जनकः श्रीमान् श्रुत्वा पूजाम् अकल्पयत् ॥१-६९-७॥

    ततो राजानम् आसाद्य वृद्धम् दशरथम् नृपम् ।
    जनको मुदितो राजा हर्षम् च परमम् ययौ ॥१-६९-८॥

    उवाच वचनम् श्रेष्ठो नरश्रेष्ठम् मुदा अन्वितम् ।
    स्वागतम् ते नरश्रेष्ठः दिष्ट्या प्राप्तो असि राघव ॥१-६९-९॥
    पुत्रयोः उभयोः प्रीतिम् लप्स्यसे वीर्य निर्जिताम् ।

    दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः ॥१-६९-१०॥
    सह सर्वैः द्विज श्रेष्ठैः देवैः इव शतक्रतुः ।

    दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितम् कुलम् ॥१-६९-११॥
    राघवैः सह संबंधात् वीर्य श्रेष्ठैः महात्मभिः ।

    श्वः प्रभाते नरेन्द्र त्वम् सम्वर्तयितुम् अर्हसि ॥१-६९-१२॥
    यज्ञस्य अन्ते नरश्रेष्ठ विवाहम् ऋषि सत्तमैः ।

    तस्य तत् वचनम् श्रुत्वा ऋषि मध्ये नराधिपः ॥१-६९-१३॥
    वाक्यम् वाक्यविदाम् श्रेष्ठः प्रत्युवाच महीपतिम् ।

    प्रतिग्रहो दातृ वशः श्रुतम् एतत् मया पुरा ॥१-६९-१४॥
    यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् ।

    तत् धर्मिष्ठम् यशस्यम् च वचनम् सत्य वादिनः ॥१-६९-१५॥
    श्रुत्वा विदेह अधिपतिः परम् विस्मयम् आगतः ।

    ततः सर्वे मुनि गणाः परस्पर समागमे ॥१-६९-१६॥
    हर्षेण महता युक्ताः ताम् निशाम् अवसन् सुखम् ।

    अथ रामो महातेजा लक्ष्मणेन समम् ययौ ॥१-६९-१७॥
    विश्वामित्रम् पुरस्कृत्य पितुः पादौ उपस्पृशन् ।

    राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ॥१-६९-१८॥
    उवास परम प्रीतो जनकेन सुपूजितः ।

    जनको अपि महातेजाः क्रिया धर्मेण तत्त्ववित् ।
    यज्ञस्य च सुताभ्याम् च कृत्वा रात्रिम् उवास ह ॥१-६९-१९॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनसप्ततितमः सर्गः ॥१-६९॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥

    ततः प्रभाते जनकः कृत कर्मा महर्षिभिः ।
    उवाच वाक्यम् वाक्यज्ञः शतानंदम् पुरोहितम् ॥१-७०-१॥

    भ्राता मम महातेजा यवीयान् अतिधार्मिकः ।
    कुशध्वज इति ख्यातः पुरीम् अध्यवसत् शुभाम् ॥१-७०-२॥
    वार्या फलक पर्यन्ताम् पिबन् इक्षुमतीम् नदीम् ।
    सांकाश्याम् पुण्य संकाशाम् विमानम् इव पुष्पकम् ॥१-७०-३॥

    तम् अहम् द्रष्टुम् इच्छामि यज्ञ गोप्ता स मे मतः ।
    प्रीतिम् सो अपि महातेजा इमाम् भोक्ता मया सह ॥१-७०-४॥

    एवम् उक्तो तु वचने शतानंदस्य संनिधौ ।
    आगताः केचिद् अव्यग्रा जनकः तान् समादिशत् ॥१-७०-५॥

    शासनात् तु नरेन्द्रस्य प्रययुः शीघ्र वाजिभिः ।
    समानेतुम् नरव्याघ्रम् विष्णुम् इन्द्र आज्ञया यथा ॥१-७०-६॥

    संकास्याम् ते समागम्य ददृशुः च कुश्ध्वजम् ।
    न्यवेदयन् यथा वृत्तम् जनकस्य च चिन्तितम् ॥१-७०-७॥

    तद् वृत्तम् नृपतिः श्रुत्वा दूत श्रेष्ठैः महा जवैः ।
    आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः ॥१-७०-८॥

    स ददर्श महात्मानम् जनकम् धर्म वत्सलम् ।
    सो अभिवाद्य शतानंदम् जनकम् च अति धार्मिकम् ॥१-७०-९॥
    राज अर्हम् परमम् दिव्यम् आसनम् च अध्यरोहत ।

    उपविष्टौ उभौ तौ तु भ्रातरौ अमित ओजसौ ॥१-७०-१०॥
    प्रेषयामासतुः वीरौ मन्त्रि श्रेष्ठम् सुदामनम् ।

    गच्छ मंत्रि पते शीघ्रम् इक्ष्वाकम् अमित प्रभम् ॥१-७०-११॥
    आत्मजैः सह दुर्धर्षम् आनयस्व स मंत्रिणम् ।

    औपकार्याम् स गत्वा तु रघूणाम् कुल वर्धनम् ॥१-७०-१२॥
    ददर्श शिरसा च एनम् अभिवाद्य इदम् अब्रवीत् ।

    अयोध्या अधिपते वीर वैदेहो मिथिला अधिपः ॥१-७०-१३॥
    स त्वाम् द्रष्टुम् व्यवसितः स उपाध्याय पुरोहितम् ।

    मंत्रि श्रेष्ठ वचः श्रुत्वा राजा स ऋषि गणः तदा ॥१-७०-१४॥
    स बन्धुः अगमत् तत्र जनको यत्र वर्तते ।

    राजा च मंत्रि सहितः स उपाध्यायः स बांधवः ॥१-७०-१५॥
    वाक्यम् वाक्य विदाम् श्रेष्ठो वैदेहम् इदम् अब्रवीत् ।

    विदितम् ते महाराज इक्ष्वाकु कुल दैवतम् ॥१-७०-१६॥
    वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवान् ऋषिः ।

    विश्वामित्र अभ्यनुज्ञातः सह सर्वैः महर्षिभिः ॥१-७०-१७॥
    एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथा क्रमम् ।
    तूष्णीम् भूते दशरथे वसिष्ठो भगवान् ऋषिः ॥१-७०-१८॥
    उवाच वाक्यम् वाक्यज्ञो वैदेहम् स पुरोधसाम् ।

    अव्यक्त प्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥१-७०-१९॥
    तस्मात् मरीचिः संजज्ञे मरीचेः कश्यपः सुतः ।
    विवस्वान् कश्यपात् जज्ञे मनुर् वैवस्वतः स्मृतः ॥१-७०-२०॥

    मनुः प्रजापतिः पूर्वम् इक्ष्वाकुः च मनोः सुतः ।
    तम् इक्ष्वाकुम् अयोध्यायाम् राजानम् विद्धि पूर्वकम् ॥१-७०-२१॥

    इक्ष्वाकोः तु सुतः श्रीमान् कुक्षिः इति एव विश्रुतः ।
    कुक्षेः अथ आत्मजः श्रीमान् विकुक्षिः उपपद्यत ॥१-७०-२२॥

    विकुक्षेः तु महातेजा बाणः पुत्रः प्रतापवान् ।
    बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥१-७०-२३॥

    अनरण्यात् पृथुः जज्ञे त्रिशंकुः तु पृथोः सुतः ।
    त्रिशंकोः अभवत् पुत्रो धुन्धुमारः महायशाः ॥१-७०-२४॥

    धुन्धुमारात् महातेजा युवनाश्वो महारथः ।
    युवनाश्व सुतः असीत् मान्धाता पृथिवी पतिः ॥१-७०-२५॥

    मान्धातुः तु सुतः श्रीमान् सुसन्धिः उदपद्यत ।
    सुसंधेः अपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित् ॥१-७०-२६॥

    यशस्वी ध्रुवसंधेः तु भरतो नाम नामतः ।
    भरतात् तु महातेजा असितो नाम जायत ॥१-७०-२७॥

    यस्य एते प्रति राजन उदपत्यन्त शात्रवः ।
    हैहय तालजंघाः च शूराः च शशबिंद्वः ॥१-७०-२८॥

    तान् च स प्रति युद्ध्यन् वै युद्धे राजा प्रवासितः ।
    हिमवन्तम् उपागम्य भार्याभ्याम् सहितः तदा ॥१-७०-२९॥

    असितो अल्प बलो राजा काल धर्मम् उपेयिवान् ।
    द्वे च अस्य भार्ये गर्भिण्यै बभूवतुः इति श्रुति ॥१-७०-३०॥
    एका गर्भ विनाश अर्थम् सपत्नै सगरम् ददौ ।

    ततः शैलवरे रम्ये बभूव अभिरतो मुनिः ॥१-७०-३१॥
    भार्गव च्यवनो नाम हिमवंतम् उपाश्रितः ।

    तत्र च एका महाभागा भार्गवम् देव वर्चसम् ॥१-७०-३२॥
    ववन्दे पद्म पत्राक्षी कांक्षन्ती सुतम् उत्तमम् ।

    तम् ऋषिम् सा अभ्युपगम्य कालिन्दी च अभ्यवादत ॥१-७०-३३॥
    स ताम् अभ्यवदत् विप्रः पुत्र ईप्सुम् पुत्र जन्मनि ।

    तव कुक्षौ महाभागे सु पुत्रः सु महाबलः ॥१-७०-३४॥
    महावीर्यो महातेजा अचिरात् संजनिष्यति ।
    गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥१-७०-३५॥

    च्यवनम् च नमस्कृत्य राजपुत्री पतिव्रता ।
    पत्या विरहिता तस्मात् पुत्रम् देवी व्यजायत ॥१-७०-३६॥

    सपत्न्या तु गरः तस्यैः दत्तो गर्भ जिघांसया ।
    सह तेन गरेण एव संजातः सगरोइ अभवत् ॥१-७०-३७॥

    सगरस्य अस्य असमंजः तु असमंजात् अथ अंशुमान् ।
    दिलीपो अंशुमतः पुत्रो दिलीपस्य भगीरथः ॥१-७०-३८॥

    भगीरथात् ककुत्स्थः च ककुत्स्थस्य रघुः तथा ।
    रघोः तु पुत्रः तेजस्वी प्रवृद्धः पुरुषादकः ॥१-७०-३९॥
    कल्माषपादो हि अभवत् तस्मात् जातः तु शङ्खणः ।

    सुदर्शनः शंखणस्य अग्निवर्णः सुदर्शनात् ॥१-७०-४०॥
    शीघ्रगः तु अग्निवर्णस्य शीघ्रगस्य मरुः सुतः ।
    मरोः प्रशुश्रुकः तु आसीत् अंबरीषः प्रशुश्रुकात् ॥१-७०-४१॥

    अंबरीषस्य पुत्रो अभूत् नहुषः च महीपतिः ।
    नहुषस्य ययातिः तु नाभागः तु ययाति जः ॥१-७०-४२॥

    नाभागस्य भभूव अज अजात् दशरथो अभवत् ।
    अस्मात् दशरथात् जातौ भ्रातरौ राम लक्ष्मणौ ॥१-७०-४३॥

    आदि वंश विशुद्धानाम् राज्ञाम् परम धर्मिणाम् ।
    इक्ष्वाकु कुल जातानाम् वीराणाम् सत्य वादिनाम् ॥१-७०-४४॥
    राम लक्ष्मणयोः अर्थे त्वत् सुते वरये नृप ।
    सदृशाभ्याम् नरश्रेष्ठ सदृशे दातुम् अर्हसि ॥१-७०-४५॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्ततितमः सर्गः ॥१-७०॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥

    एवम् ब्रुवाणम् जनकः प्रत्युवाच कृतांजलिः ।
    श्रोतुम् अर्हसि भद्रम् ते कुलम् नः परिकीर्तितम् ॥१-७१-१॥

    प्रदाने हि मुनि श्रेष्ठ कुलम् निरवशेषतः ।
    वक्तव्यम् कुल जातेन तन् निबोध महामुने ॥१-७१-२॥

    राजा अभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा ।
    निमिः परम धर्मात्मा सर्व सत्त्ववताम् वरः ॥१-७१-३॥

    तस्य पुत्रो मिथिः नाम जनको मिथि पुत्रकः ।
    प्रथमो जनको नाम जनकात् अपि उदावसुः ॥१-७१-४॥

    उदावसोः तु धर्मात्मा जातो वै नन्दिवर्धनः ।
    नन्दिवर्धन पुत्रः तु सुकेतुः नाम नामतः ॥१-७१-५॥

    सुकेतोः अपि धर्मात्मा देवरातो महाबलः ।
    देवरातस्य राजर्षेः बृहद्रथ इति स्मृउतः ॥१-७१-६॥

    बृहद्रथस्य शूरो अभूत् महावीरः प्रतापवान् ।
    महावीरस्य धृतिमान् सुधृतिः सत्य विक्रमः ॥१-७१-७॥

    सुधृतेः अपि धर्मात्मा धृष्टकेतुः सु धार्मिकः ।
    धृष्टकेतोः च राजर्षेः हर्यश्व इति विश्रुतः ॥१-७१-८॥

    हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः ।
    प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥१-७१-९॥

    पुत्रः कीर्तिरथस्य अपि देवमीढ इति स्मृतः ।
    देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥१-७१-१०॥

    महीध्रक सुतो राजा कीर्तिरातो महाबलः ।
    कीर्ति रातस्य राजऋषेः महारोमा व्यजायत ॥१-७१-११॥

    महारोम्णः तु धर्मात्मा स्वर्णरोमा व्यजायत ।
    स्वर्णरोम्णः तु राजर्षेः ह्रस्वरोमा व्यजायत ॥१-७१-१२॥

    तस्य पुत्र द्वयम् जज्ञे धर्मज्ञस्य महात्मनः ।
    ज्येष्ठो अहम् अनुजो भ्राता मम वीरः कुशध्वज ॥१-७१-१३॥

    माम् तु ज्येष्ठम् पिता राज्ये सो अभिषिच्य नराधिप ।
    कुशध्वजम् समावेश्य भारम् मयि वनम् गतः ॥१-७१-१४॥

    वृद्धे पितरि स्वर् याते धर्मेण धुरम् आवहम् ।
    भ्रातरम् देव संकाशम् स्नेहात् पश्यन् कुशध्वजम् ॥१-७१-१५॥

    कस्यचित् तु अथ कालस्य सांकाश्यात् अगमत् पुरात् ।
    सुधन्वा वीर्यवान् राजा मिथिलाम् अवरोधकः ॥१-७१-१६॥

    स च मे प्रेषयामास शैवम् धनुः अनुत्तमम् ।
    सीता कन्या च पद्माक्षी मह्यम् वै दीयताम् इति ॥१-७१-१७॥

    तस्य अप्रदानात् ब्रह्मर्षे युद्धम् आसीत् मया सह ।
    स हतो अभिमुखो राजा सुधन्वा तु मया रणे ॥१-७१-१८॥

    निहत्य तम् मुनिश्रेष्ठ सुधन्वानम् नराधिपम् ।
    सांकाश्ये भ्रातरम् शूरम् अभ्यषिंचम् कुशध्वजम् ॥१-७१-१९॥

    कनीयान् एष मे भ्राता अहम् ज्येष्ठो महामुने ।
    ददामि परम प्रीतो वध्वौ ते मुनिपुंगव ॥१-७१-२०॥
    सीताम् रामाय भद्रम् ते ऊर्मिलाम् लक्ष्मणाय वै ।

    वीर्य शुल्काम् मम सुताम् सीताम् सुर सुत उपमाम् ॥१-७१-२१॥
    द्वितीयाम् ऊर्मिलाम् चैव त्रिः वदामि न संशयः ।
    ददामि परम प्रीतो वध्वौ ते मुनिपुंगव ॥१-७१-२२॥

    राम लक्ष्मणयो राजन् गो दानम् कारयस्व ह ।
    पितृ कार्यम् च भद्रम् ते ततो वैवाहिकम् कुरु ॥१-७१-२३॥

    मघा हि अद्य महाबाहो तृतीये दिवसे प्रभो ।
    फल्गुन्याम् उत्तरे राजन् तस्मिन् वैवाहिकम् कुरु ।
    राम लक्ष्मणयोः अर्थे दानम् कार्यम् सुखोदयम् ॥१-७१-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकसप्ततितमः सर्गः ॥१-७१॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥

    तम् उक्तवंतम् वैदेहम् विश्वामित्रो महामुनिः ।
    उवाच वचनम् वीरम् वसिष्ठ सहितो नृपम् ॥१-७२-१॥

    अचिंत्यानि अप्रमेयाणि कुलानि नरपुंगव ।
    इक्ष्वाकूणाम् विदेहानाम् न एषाम् तुल्यो अस्ति कश्चन ॥१-७२-२॥

    सदृशो धर्म संबन्धः सदृशो रूप संपदा ।
    राम लक्ष्मणयो राजन् सीता च ऊर्मिलया सह ॥१-७२-३॥

    वक्तव्यम् च नर श्रेष्ठ श्रूयताम् वचनम् मम ।
    भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ॥१-७२-४॥

    अस्य धर्मात्मनो राजन् रूपेण अप्रतिमम् भुवि ।
    सुता द्वयम् नरश्रेष्ठ पत्नि अर्थम् वरयामहे ॥१-७२-५॥

    भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।
    वरयेम सुते राजन् तयोः अर्थे महात्मनोः ॥१-७२-६॥

    पुत्रा दशरथस्य इमे रूप यौवन शालिनः ।
    लोक पाल समाः सर्वे देव तुल्य पराक्रमाः ॥१-७२-७॥

    उभयोः अपि राजेन्द्र संबन्धेन अनुबध्यताम् ।
    इक्ष्वाकु कुलम् अव्यग्रम् भवतः पुण्य कर्मणः ॥१-७२-८॥

    विश्वामित्र वचः श्रुत्वा वसिष्ठस्य मते तदा ।
    जनकः प्रांजलिः वाक्यम् उवाच मुनिपुंगवौ ॥१-७२-९॥

    कुलम् धन्यम् इदम् मन्ये येषाम् तौ मुनिपुंगवौ ।
    सदृशम् कुल संबन्धम् यत् आज्ञापयथः स्वयम् ॥१-७२-१०॥

    एवम् भवतु भद्रम् वः कुशध्वज सुते इमे ।
    पत्न्यौ भजेताम् सहितौ शत्रुघ्न भरतौ उभौ ॥१-७२-११॥

    एक अह्ना राज पुत्रीणाम् चतसॄणाम् महामुने ।
    पाणीन् गृह्णन्तु चत्वारो राज पुत्रा महाबलाः ॥१-७२-१२॥

    उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्याम् मनीषिणः ।
    वैवाहिकम् प्रशंसन्ति भगो यत्र प्रजापतिः ॥१-७२-१३॥

    एवम् उक्त्वा वचः सौम्यम् प्रत्युत्थाय कृतांजलिः ।
    उभौ मुनि वरौ राजा जनको वाक्यम् अब्रवीत् ॥१-७२-१४॥

    परो धर्मः कृतो मह्यम् शिष्यो अस्मि भवतोः सदा ।
    इमानि आसन मुख्यानि आस्यताम् मुनिपुंगवौ ॥१-७२-१५॥

    यथा दशरथस्य इयम् तथा अयोध्या पुरी मम ।
    प्रभुत्वे न अस्ति सन्देहो यथा अर्हम् कर्तुम् अर्हथः ॥१-७२-१६॥

    तथा ब्रुवति वैदेहे जनके रघु नंदनः ।
    राजा दशरथो हृष्टः प्रत्युवाच मही पतिम् ॥१-७२-१७॥

    युवाम् असंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ ।
    ऋषयो राज संघाः च भवद्भ्याम् अभिपूजिताः ॥१-७२-१८॥

    स्वस्ति प्राप्नुहि भद्रम् ते गमिष्यामः स्वम् आलयम् ।
    श्राद्ध कर्माणि विधिवत् विधास्य इति च अब्रवीत् ॥१-७२-१९॥

    तम् आपृष्ट्वा नर पतिम् राजा दशरथः तदा ।
    मुनीन्द्रौ तौ पुरस्कृत्य जगाम आशु महायशाः ॥१-७२-२०॥

    स गत्वा निलयम् राजा श्राद्धम् कृत्वा विधानतः ।
    प्रभाते काल्यम् उत्थाय चक्रे गो दानम् उत्तमम् ॥१-७२-२१॥

    गवाम् शत सहस्रम् च ब्राह्मणेभ्यो नराधिपः ।
    एक एकशो ददौ राजा पुत्रान् उद्धिश्य धर्मतः ॥१-७२-२२॥

    सुवर्ण शृंगयः संपन्नाः स वत्साः काम्स्य दोहनाः ।
    गवाम् शत सहस्राणि चत्वारि पुरुष ऋषभः ॥१-७२-२३॥
    वित्तम् अन्यत् च सु बहु द्विजेभ्यो रघु नंदनः ।
    ददौ गो दानम् उद्दिश्य पुत्राणाम् पुत्र वत्सलः ॥१-७२-२४॥

    स सुतैः कृत गो दानैः वृतः सः नृपतिः तदा ।
    लोक पालैः इव आभाति वृतः सौम्यः प्रजापतिः ॥१-७२-२५॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्विसप्ततितमः सर्गः ॥१-७२॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥

    यस्मिन् तु दिवसे राजा चक्रे गो दानम् उत्तमम् ।
    तस्मिन् तु दिवसे शूरो युधाजित् समुपेयिवान् ॥१-७३-१॥

    पुत्रः केकय राजस्य साक्षात् भरत मातुलः ।
    दृष्ट्वा पृष्ट्वा च कुशलम् राजानम् इदम् अब्रवीत् ॥१-७३-२॥

    केकय अधिपती राजा स्नेहात् कुशलम् अब्रवीत् ।
    येषाम् कुशलकामो असि तेषाम् संप्रति अनामयम् ॥१-७३-३॥

    स्वस्रीयम् मम राजेन्द्र द्रष्टु कामो महीपतिः ।
    तत् अर्थम् उपयातो अहम् अयोध्याम् रघुनंदन ॥१-७३-४॥

    श्रुत्वा तु अहम् अयोध्यायाम् विवाह अर्थम् तव आत्मजान् ।
    मिथिलाम् उपयातान् तु त्वया सह महीपते ॥१-७३-५॥
    त्वरया अभुपयातो अहम् द्रष्टु कामः स्वसुः सुतम् ।

    अथ राजा दशरथः प्रिय अतिथिम् उपस्थितम् ॥१-७३-६॥
    दृष्ट्वा परम सत्कारैः पूजार्हम् समपूजयत् ।

    ततः ताम् उषितो रात्रिम् सह पुत्रैः महात्मभिः ॥१-७३-७॥
    प्रभाते पुनः उत्थाय कृत्वा कर्माणि तत्त्ववित् ।
    ऋषीन् तदा पुरस्कृत्य यज्ञ वाटम् उपागमत् ॥१-७३-८॥

    युक्ते मुहूर्ते विजये सर्व आभरण भूषितैः ।
    भ्रातृभिः सहितो रामः कृत कौतुक मंगलः ॥१-७३-९॥
    वसिष्ठम् पुरतः कृत्वा महर्षीन् अपरान् अपि ।

    वशिष्टःओ भगवान् एत्य वैदेहम् इदम् अब्रवीत् ॥१-७३-१०॥
    राजा दशरथो राजन् कृत कौतुक मन्गलैः ।
    पुत्रैः नर वर श्रेष्ठ दातारम् अभिकांक्षते ॥१-७३-११॥

    दातृ प्रतिग्रहीतृभ्याम् सर्व अर्थाः संभवन्ति हि ।
    स्वधर्मम् प्रतिपद्यस्व कृत्वा वैवाह्यम् उत्तमम् ॥१-७३-१२॥

    इति उक्तः परम उदारो वसिष्ठेन महात्मना ।
    प्रत्युवाच महातेजा वाक्यम् परम धर्मवित् ॥१-७३-१३॥

    कः स्थितः प्रतिहारो मे कस्य आज्ञा संप्रतीक्ष्यते ।
    स्व गृहे को विचारो अस्ति यथा राज्यम् इदम् तव ॥१-७३-१४॥

    कृत कौतुक सर्वस्वा वेदि मूलम् उपागताः ।
    मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेः इव अर्चिषः ॥१-७३-१५॥

    सद्यो अहम् त्वत् प्रतीक्षो अस्मि वेद्याम् अस्याम् प्रतिषितः ।
    अविघ्नम् कुरुताम् राजा किम् अर्थम् हि विलम्ब्यते ॥१-७३-१६॥

    तत् वाक्यम् जनकेन उक्तम् श्रुत्वा दशरथः तदा ।
    प्रवेशयामास सुतान् सर्वान् ऋषि गणान् अपि ॥१-७३-१७॥

    ततो राजा विदेहानाम् वशिष्ठम् इदम् अब्रवीत् ।
    कारयस्व ऋषे सर्वान् ऋषिभिः सह धार्मिक ॥१-७३-१८॥
    रामस्य लोक रामस्य क्रियाम् वैवाहिकीम् प्रभो ।

    तथा इति उक्त्वा तु जनकम् वशिष्टःओ भगवान् ऋषिः ॥१-७३-१९॥
    विश्वामित्रम् पुरस्कृत्य शतानंदम् च धार्मिकम् ।
    प्रपा मध्ये तु विधिवत् वेदीम् कृत्वा महातपाः ॥१-७३-२०॥
    अलम् चकार ताम् वेदीम् गन्ध पुष्पैः समंततः ।
    सुवर्ण पालिकाभिः च चित्र कुम्भैः च स अंकुरैः ॥१-७३-२१॥
    अंकुर आढ्यैः शरावैः च धूप पात्रैः स धूपकैः ।
    शंख पात्रैः श्रुवैः स्रुग्भिः पात्रैः अर्घ्यादि पूजितैः ॥१-७३-२२॥
    लाज पूर्णैः च पात्रीभिः रक्षितैः अपि संस्कृतैः ।

    दर्भैः समैः समास्तीर्य विधिवत् मंत्र पुरस्कृतम् ॥१-७३-२३॥
    अग्निम् आधाय तम् वेद्याम् विधि मंत्र पूर्वकम् ।
    जुहाव अग्नौ महातेजा वशिष्ठो मुनिपुंगव ॥१-७३-२४॥

    ततः सीताम् समानीय सर्व आभरण भुषिताम् ।
    समक्षम् अग्नेः संस्थाप्य राघव अभिमुखे तदा ॥१-७३-२५॥
    अब्रवीत् जनको राजा कौसल्य आनंद वर्धनम् ।

    इयम् सीता मम सुता सह धर्म चरी तव ॥१-७३-२६॥
    प्रतीच्छ च एनाम् भद्रम् ते पाणिम् गृह्णीष्व पाणिना ।

    पतिव्रता महभागा छाय इव अनुगता सदा ॥१-७३-२७॥
    इति उक्त्वा प्राक्षिपत् राजा मंत्र पूतम् जलम् तदा ।

    साधु साधु इति देवानाम् ऋषीणाम् वदताम् तदा ॥१-७३-२८॥
    देव दुंदुभि निर्घोषः पुष्प वर्षम् महान् अभूत् ।

    एवम् दत्त्वा सुताम् सीताम् मंत्र उदक पुरस्कृताम् ॥१-७३-२९॥
    अब्रवीत् जनको राजा हर्षेण अभिपरिप्लुत ।

    लक्ष्मण आगच्छ भद्रम् ते ऊर्मिलाम् उद्यताम् मया ॥१-७३-३०॥
    प्रतीच्छ पाणिम् गृह्णीष्व मा भूत् कालस्य पर्ययः ।

    तम् एवम् उक्त्वा जनको भरतम् च अभ्यभाषत ॥१-७३-३१॥
    गृहाण पाणिम् माण्डव्याः पाणिना रघुनंदन ।

    शत्रुघ्नम् च अपि धर्माअत्मा अब्रवीत् मिथिलेश्वरः ॥१-७३-३२॥
    श्रुतकीर्तेः महाबाहो पाणिम् गृह्णीष्व पाणिना ।

    सर्वे भवन्तः सौम्याः च सर्वे सुचरित व्रताः ॥१-७३-३३॥
    पत्नीभिः सन्तु काकुत्स्था मा भूत् कालस्य पर्ययः ।

    जनकस्य वचः श्रुत्वा पाणीन् पाणिभिः अस्पृशन् ॥१-७३-३४॥
    चत्वारः ते चतसॄणाम् वसिष्ठस्य मते स्थिताः ।

    अग्निम् प्रदक्षिणम् कृत्वा वेदिम् राजानम् एव च ॥१-७३-३५॥
    ऋषीन् चैव महात्मानः सह भार्या रघु उद्वहाः ।
    यथा उक्तेन तथा चक्रुः विवाहम् विधि पूर्वकम् ॥१-७३-३६॥

    पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ।
    दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिःस्वनैः ॥
    यद्वा -
    पुष्प वृष्टिः महति आसीत् अंतरिक्षात् सु भास्वरा ।
    दिव्य दुन्दुभि निर्घोषैः गीत वादित्र निःस्वनैः ॥१-७३-३७॥
    ननृतुः च अप्सरः संघा गन्धर्वाः च जगुः कलम् ।
    विवाहे रघु मुख्यानाम् तद् अद्भुतम् अदृश्यत ॥१-७३-३८॥

    ईदृशे वर्तमाने तु तूर्य उद्घुष्ट निनादिते ।
    त्रिः अग्निम् ते परिक्रम्य ऊहुः भार्या महौजसः ॥१-७३-३९॥

    अथ उपकार्याम् जग्मुः ते स दारा रघुनंदनाः ।
    राजा अपि अनुययौ पश्यन् स ऋषि संघः स बान्धवः ॥१-७३-४०॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे त्रिसप्ततितमः सर्गः ॥१-७३॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥

    अथ रात्र्याम् व्यतीतायाम् विश्वामित्रो महामुनिः ।
    आपृष्ट्वा तौ च राजानौ जगाम उत्तर पर्वतम् ॥१-७४-१॥

    विश्वामित्रो गते राजा वैदेहम् मिथिला अधिपम् ।
    आपृष्ट्व इव जगाम आशु राजा दशरथः पुरीम् ॥१-७४-२॥

    अथ राजा विदेहानाम् ददौ कन्या धनम् बहु ।
    गवाम् शत सहस्राणि बहूनि मिथिलेश्वरः ॥१-७४-३॥
    कंबलानाम् च मुख्यानाम् क्षौमान् कोटि अंबराणि च ।
    हस्ति अश्व रथ पादातम् दिव्य रूपम् स्वलंकृतम् ॥१-७४-४॥
    ददौ कन्या शतम् तासाम् दासी दासम् अनुत्तमम् ।

    हिरण्यस्य सुवर्णस्य मुक्तानाम् विद्रुमस्य च ॥१-७४-५॥
    ददौ राजा सुसंहृष्टः कन्या धनम् अनुत्तमम् ।

    दत्त्वा बहु विधम् राजा समनुज्ञाप्य पार्थिवम् ॥१-७४-६॥
    प्रविवेश स्व निलयम् मिथिलाम् मिथिलेश्वरः ।

    राजा अपि अयोध्या अधिपतिः सह पुत्रैः महात्मभिः ॥१-७४-७॥
    ऋषीन् सर्वान् पुरस्कृत्य जगाम स बल अनुगः ।

    गच्छंतम् तु नरव्याघ्रम् स ऋषि संघम् स राघवम् ॥१-७४-८॥
    घोराः तु पक्षिणो वाचो व्याहरन्ति समंततः ।

    भौमाः चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥१-७४-९॥
    तान् दृष्ट्वा राज शार्दूलो वसिष्ठम् पर्यपृच्छत ।

    असौम्याः पक्षिणो घोरा मृगाः च अपि प्रदक्षिणाः ॥१-७४-१०॥
    किम् इदम् हृदय उत्कम्पि मनो मम विषीदति ।

    राज्ञो दशरथस्य एतत् श्रुत्वा वाक्यम् महान् ऋषिः ॥१-७४-११॥
    उवाच मधुराम् वाणीम् श्रूयताम् अस्य यत् फलम् ।

    उपस्थितम् भयम् घोरम् दिव्यम् पक्षि मुखात् च्युतम् ॥१-७४-१२॥
    मृगाः प्रशमयन्ति एते संतापः त्यज्यताम् अयम् ।

    तेषाम् संवदताम् तत्र वायुः प्रादुर् बभूव ह ॥१-७४-१३॥
    कम्पयन् मेदिनीम् सर्वाम् पातयन् च महान् द्रुमान् ।

    तमसा संवृतः सूर्यः सर्वे न वेदिषुर् दिशः ॥१-७४-१४॥
    भस्मना च आवृतम् सर्वम् सम्मूढम् इव तत् बलम् ।

    वसिष्ठ ऋषयः च अन्ये राजा च ससुतः तदा ॥१-७४-१५॥
    स संज्ञा इव तत्र आसन् सर्वम् अन्यत् विचेतनम् ।

    तस्मिन् तमसि घोरे तु भस्म छन्न इव सा चमूः ॥१-७४-१६॥
    ददर्श भीम संकाशम् जटा मण्डल धारिणम् ।
    भार्गवम् जमदग्ने अयम् राजा राज विमर्दनम् ॥१-७४-१७॥
    कैलासम् इव दुर्धर्षम् काल अग्निम् इव दुःसहम् ।
    ज्वलंतम् इव तेजोभिः दुर् निरीक्ष्यम् पृथक् जनैः ॥१-७४-१८॥
    स्कन्धे च आसज्य परशुम् धनुः विद्युत् गण उपमम् ।
    प्रगृह्य शरम् उग्रम् च त्रि पुर घ्नम् यथा शिवम् ॥१-७४-१९॥

    तम् दृष्ट्वा भीम संकाशम् ज्वलंतम् इव पावकम् ।
    वसिष्ठ प्रमुखा विप्रा जप होम परायणाः ॥१-७४-२०॥
    संगता मुनयः सर्वे संजजल्पुः अथो मिथः ।

    कच्चित् पितृ वध अमर्षी क्षत्रम् न उत्सादयिष्यति ॥१-७४-२१॥
    पूर्वम् क्षत्र वधम् कृत्वा गत मन्युः गत ज्वरः ।
    क्षत्रस्य उत्सादनम् भूयो न खलु अस्य चिकीर्षितम् ॥१-७४-२२॥

    एवम् उक्त्वा अर्घ्यम् आदाय भार्गवम् भीम दर्शनम् ।
    ऋषयो राम राम इति मधुरम् वाक्यम् अब्रुवन् ॥१-७४-२३॥

    प्रतिगृह्य तु ताम् पूजाम् ऋषि दत्ताम् प्रतापवान् ।
    रामम् दाशरथिम् रामो जामदग्न्यो अभ्यभाषत ॥१-७४-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥

     - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-७५॥

    राम दाशरथे वीर वीर्यम् ते श्रूयते अद्भुतम् ।
    धनुषो भेदनम् चैव निखिलेन मया श्रुतम् ॥१-७५-१॥

    तत् अद्भुतम् अचिंत्यम् च भेदनम् धनुषः तथा ।
    तत् श्रुत्वा अहम् अनुप्राप्तो धनुर् गृह्य अपरम् शुभम् ॥१-७५-२॥

    तत् इदम् घोर संकाशम् जामदग्न्यम् महत् धनुः ।
    पूरयस्व शरेण एव स्व बलम् दर्शयस्व च ॥१-७५-३॥

    तत् अहम् ते बलम् दृष्ट्वा धनुषो अपि अस्य पूरणे ।
    द्वंद्व युद्धम् प्रदास्यामि वीर्य श्लाघ्यम् अहम् तव ॥१-७५-४॥

    तस्य तत् वचनम् श्रुत्वा राजा दशरथः तदा ।
    विषण्ण वदनो दीनः प्रांजलिः वाक्यम् अब्रवीत् ॥१-७५-५॥

    क्षत्र रोषात् प्रशांतः त्वम् ब्राह्मणः च महातपाः ।
    बालानाम् मम पुत्राणाम् अभयम् दातुम् अर्हसि ॥१-७५-६॥

    भार्गवाणाम् कुले जातः स्वाध्याय व्रत शालिनाम् ।
    सहस्राक्षे प्रतिज्ञाय शस्त्रम् प्रक्ष्द् इप्तवान् असि ॥१-७५-७॥

    स त्वम् धर्म परो भूत्वा काश्यपाय वसुंधराम् ।
    दत्त्वा वनम् उपागम्य महेन्द्र कृत केतनः ॥१-७५-८॥

    मम सर्व विनाशाय संप्राप्तः त्वम् महामुने ।
    न च एकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥१-७५-९॥

    ब्रुवति एवम् दशरथे जामदग्न्यः प्रतापवान् ।
    अनादृत्य तु तत् वाक्यम् रामम् एव अभ्यभाषत ॥१-७५-१०॥

    इमे द्वे धनुषी श्रेष्ठे दिव्ये लोक अभिपूजिते ।
    दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥१-७५-११॥

    अनिसृष्टम् सुरैः एकम् त्र्यम्बकाय युयुत्सवे ।
    त्रिपुर घ्नम् नरश्रेष्ठ भग्नम् काकुत्स्थ यत् त्वया ॥१-७५-१२॥

    इदम् द्वितीयम् दुर्धर्षम् विष्णोर् दत्तम् सुरोत्तमैः ।
    तत् इदम् वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-१३॥
    समान सारम् काकुत्स्थ रौद्रेण धनुषा तु इदम् ।

    तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् ॥१-७५-१४॥
    शिति कण्ठस्य विष्णोः च बल अबल निरीक्षया ।
    अभिप्रायम् तु विज्ञाय देवतानाम् पितामहः ॥१-७५-१५॥
    विरोधम् जनयामास तयोः सत्यवताम् वरः ।

    विरोधे तु महत् युद्धम् अभवत् रोम हर्षणम् ॥१-७५-१६॥
    शिति कण्ठस्य विष्णोः च परस्पर जय एषिणोः ।

    तदा तु जृम्भितम् शैवम् धनुः भीम पराक्रमम् ॥१-७५-१७॥
    हुम् कारेण महादेवः स्तम्भितो अथ त्रिलोचनः ।

    देवैः तदा समागम्य स ऋषि सन्घैः स चारणैः ॥१-७५-१८॥
    याचितौ प्रशमम् तत्र जग्मतुः तौ सुर उत्तमौ ।

    जृम्भितम् तत् धनुः दृष्ट्वा शैवम् विष्णु पराक्रमैः ॥१-७५-१९॥
    अधिकम् मेनिरे विष्णुम् देवाः स ऋषि गणाः तदा ।

    धनू रुद्रः तु संक्रुद्धो विदेहेषु महायशाः ॥१-७५-२०॥
    देवरातस्य राज ऋषेः ददौ हस्ते स सायकम् ।

    इदम् च वैष्णवम् राम धनुः पर पुरम् जयम् ॥१-७५-२१॥
    ऋचीके भार्गवे प्रादात् विष्णुः स न्यासम् उत्तमम् ।

    ऋचीकः तु महातेजाः पुत्रस्य अप्रतिकर्मणः ॥१-७५-२२॥
    पितुः मम ददौ दिव्यम् जमदग्नेः महात्मनः ।

    न्यस्त शस्त्रे पितरि मे तपो बल समन्विते ॥१-७५-२३॥
    अर्जुनो विदधे मृत्युम् प्राकृताम् बुद्धिम् आस्थितः ।

    वधम् अप्रतिरूपम् तु पितुः श्रुत्वा सु दारुणम् ।
    क्षत्रम् उत्सादयन् रोषात् जातम् जातम् अनेकशः ॥१-७५-२४॥
    पृथिवीम् च अखिलाम् प्राप्य काश्यपाय महात्मने ।
    यज्ञस्य अन्ते तदा राम दक्षिणाम् पुण्य कर्मणे ॥१-७५-२५॥
    दत्त्वा महेन्द्र निलयः तपो बल समन्वितः ।

    श्रुत्वा तु धनुषो भेदम् ततो अहम् द्रुतम् आगतः ॥१-७५-२६॥
    तत् एवम् वैष्णवम् राम पितृ पैतामहम् महत् ।
    क्षत्र धर्मम् पुरस् कृत्य गृह्णीष्व धनुर् उत्तमम् ॥१-७५-२७॥

    योजयस्व धनुः श्रेष्ठे शरम् पर पुरम् जयम् ।
    यदि शक्तः असि काकुत्स्थ द्वन्द्वम् दास्यामि ते ततः ॥१-७५-२८॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-७५॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥

    श्रुत्वा तत् जामदग्न्यस्य वाक्यम् दाशरथिः तदा ।
    गौरवात् यंत्रित कथः पितू रामम् अथ अब्रवीत् ॥१-७६-१॥

    कृतवान् अस्मि यत् कर्म श्रुतवान् असि भार्गव ।
    अनुरुन्ध्यामहे ब्रह्मन् पितुर् आनृण्यम् आस्थितः ॥१-७६-२॥

    वीर्य हीनम् इव अशक्तम् क्षत्र धर्मेण भार्गव ।
    अवजानासि मे तेजः पश्य मे अद्य पराक्रमम् ॥१-७६-३॥

    इति उक्त्वा राघवः क्रुद्धो भार्गवस्य वर आयुधम् ।
    शरम् च प्रतिजग्राह हस्तात् लघु पराक्रमः ॥१-७६-४॥

    आरोप्य स धनू रामः शरम् सज्यम् चकार ह ।
    जामदग्न्यम् ततो रामम् रामः क्रुद्धो अब्रवीत् इदम् ॥१-७६-५॥

    ब्राह्मणो असि इति पूज्यो मे विश्वामित्र कृतेन च ।
    तस्मात् शक्तो न ते राम मोक्तुम् प्राण हरम् शरम् ॥१-७६-६॥

    इमाम् वा त्वत् गतिम् राम तपो बल समार्जितान् ।
    लोकान् अप्रतिमान् वा अपि हनिष्यामि यत् इच्छसि ॥१-७६-७॥

    न हि अयम् वैष्णवो दिव्यः शरः पर पुरंजयः ।
    मोघः पतति वीर्येण बल दर्प विनाशनः ॥१-७६-८॥

    वर आयुध धरम् रामम् द्रष्टुम् स ऋषि गणाः सुराः ।
    पितामहम् पुरस्कृत्य समेताः तत्र सर्वशः ॥१-७६-९॥

    गंधर्व अप्सरसः चैव सिद्ध चारण किन्नराः ।
    यक्ष राक्षस नागाः च तत् द्रष्टुम् महत् अद्भुतम् ॥१-७६-१०॥

    जडी कृते तदा लोके रामे वर धनुर् धरे ।
    निर्वीर्यो जामदग्न्यो असौ रमो रामम् उदैक्षत ॥१-७६-११॥

    तेजोभिः हत वीर्यत्वात् जामदग्न्यो जडी कृतः ।
    रामम् कमल पत्र अक्षम् मन्दम् मन्दम् उवाच ह ॥१-७६-१२॥

    काश्यपाय मया दत्ता यदा पूर्वम् वसुंधरा ।
    विषये मे न वस्तव्यम् इति माम् काश्यपो अब्रवीत् ॥१-७६-१३॥

    सो अहम् गुरु वचः कुर्वन् पृथिव्याम् न वसे निशाम् ।
    तदा प्रभृति काकुत्स्थ कृता मे काश्यपस्य ह ॥१-७६-१४॥

    तम् इमाम् मत् गतिम् वीर हन्तुम् न अर्हसि राघव ।
    मनो जवम् गमिष्यामि महेन्द्रम् पर्वत उत्तमम् ॥१-७६-१५॥

    लोकाः तु अप्रतिमा राम निर्जिताः तपसा मया ।
    जहि तान् शर मुख्येन मा भूत् कालस्य पर्ययः ॥१-७६-१६॥

    अक्षय्यम् मधु हन्तारम् जानामि त्वाम् सुरेश्वरम् ।
    धनुषो अस्य परामर्शात् स्वस्ति ते अस्तु परंतप ॥१-७६-१७॥

    एते सुर गणाः सर्वे निरीक्षन्ते समागताः ।
    त्वाम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् आहवे ॥१-७६-१८॥

    न च इयम् तव काकुत्स्थ व्रीडा भवितुम् अर्हति ।
    त्वया त्रैलोक्य नाथेन यत् अहम् विमुखी कृतः ॥१-७६-१९॥

    शरम् अप्रतिमम् राम मोक्तुम् अर्हसि सु व्रत ।
    शर मोक्षे गमिष्यामि महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२०॥

    तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।
    रामो दाशरथिः श्रीमान् चिक्षेप शरम् उत्तमम् ॥१-७६-२१॥

    स हतान् दृश्य रामेण स्वान् लोकान् तपसा आर्जितान् ।
    जामदग्न्यो जगाम आशु महेन्द्रम् पर्वतोत्तमम् ॥१-७६-२२॥

    ततो वि तिमिराः सर्वा दिशा च उपदिशः तथा ।
    सुराः स ऋषि गणाः रामम् प्रशशंसुः उदायुधम् ॥१-७६-२३॥

    रामम् दाशरथिम् रामो जामदग्न्यः प्रशस्य च ।
    ततः प्रदक्षिणी कृत्य जगाम आत्म गतिम् प्रभुः ॥१-७६-२४॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥

    - o -

    श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥

    गते रामे प्रशांत आत्मा रामो दाशरथिः धनुः ।
    वरुणाय अप्रमेयाय ददौ हस्ते महायशाः ॥१-७७-१॥

    अभिवाद्य ततो रामो वसिष्ठ प्रमुखान् ऋषीन् ।
    पितरम् विह्वलम् दृष्ट्वा प्रोवाच रघुनंदनः ॥१-७७-२॥

    जामदग्न्यो गतो रामः प्रयातु चतुर् अन्गिणी ।
    अयोध्या अभिमुखी सेना त्वया नाथेन पालिता ॥१-७७-३॥

    रामस्य वचनम् श्रुत्वा राजा दशरथः सुतम् ।
    बाहुभ्याम् सम्परिष्वज्य मूर्ध्नि उपाघ्राय राघवम् ॥१-७७-४॥

    गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।
    पुनर्जातम् तदा मेने पुत्रम् आत्मानम् एव च ॥१-७७-५॥

    चोदयामास ताम् सेनाम् जगाम आशु ततः पुरीम् ।
    पताका ध्वजिनीम् रम्याम् तूर्य उद् घुष्ट निनादिताम् ॥१-७७-६॥

    सिक्त राज पथा रम्याम् प्रकीर्ण कुसुम उत्कराम् ।
    राज प्रवेश सुमुखैः पौरैः मंगल पाणिभिः ॥१-७७-७॥

    सम्पूर्णाम् प्राविशत् राजा जन ओघैः समलम्कृताम् ।
    पौरैः प्रति उद्गतो दूरम् द्विजैः च पुर वासिभिः ॥१-७७-८॥

    पुत्रैः अनुगतः श्रीमान् श्रीमद्भिः च महायशाः ।
    प्रविवेश गृहम् राजा हिमवत् सदृशम् प्रियम् ॥१-७७-९॥

    ननन्द स्वजनैः राजा गृहे कामैः सुपूजितः ।
    कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा ॥१-७७-१०॥

    वधू प्रतिग्रहे युक्ता याः च अन्या राज योषितः ।
    ततः सीताम् महाभागाम् ऊर्मिलाम् च यशस्विनीम् ॥१-७७-११॥

    कुशध्वज सुते च उभे जगृहुः नृप योषितः ।
    मंगल आलापनैः होमैः शोभिताः क्षौम वाससः ॥१-७७-१२॥

    देवत आयतनानि आशु सर्वाः ताः प्रत्यपूजयन् ।
    अभिवाद्य अभिवाद्यान् च सर्वा राज सुताः तदा ॥१-७७-१३॥

    रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः ।
    कृत दाराः कृत अस्त्राः च स धनाः स सुहृत् जनाः ॥१-७७-१४॥

    शुश्रूषमाणाः पितरम् वर्तयन्ति नरर्षभाः ।
    कस्यचित् अथ कालस्य राजा दशरधः सुतम् ॥१-७७-१५॥

    भरतम् कैकेयी पुत्रम् अब्रवीत् रघुनंदन ।
    अयम् केकय राजस्य पुत्रो वसति पुत्रक ॥१-७७-१६॥

    त्वाम् नेतुम् आगतो वीरो युधाजित् मातुलः तव ।
    श्रुत्वा दशरथस्य एतत् भरतः कैकेयि सुतः ॥१-७७-१७॥

    गमनाय अभिचक्राम शत्रुघ्न सहितः तदा ।
    आपृच्छ्य पितरम् शूरो रामम् च अक्लिष्ट कर्मणम् ॥१-७७-१८॥

    मातॄः च अपि नरश्रेष्ट शत्रुघ्न सहितो ययौ ।
    युधाजित् प्राप्य भरतम् स शत्रुघ्नम् प्रहर्षितः ॥१-७७-१९॥

    स्व पुरम् प्रविवेशत् वीरः पिता तस्य तुतोष ह ।
    गते च भरते रामो लक्ष्मणः च महाबलः ॥१-७७-२०॥

    पितरम् देव संकाशम् पूजयामासतुः तदा ।
    पितुः आज्ञाम् पुरस्कृत्य पौर कार्याणि सर्वशः ॥१-७७-२१॥

    चकार रामः सर्वाणि प्रियाणि च हितानि च ।
    मातृभ्यो मातृ कार्याणि कृत्वा परम यंत्रितः ॥१-७७-२२॥

    गुरूणाम् गुरु कार्याणि काले काले अन्ववैक्षत ।
    एवम् दशरथः प्रीतो ब्राह्मणा नैगमाः तथा ॥१-७७-२३॥

    रामस्य शील वृत्तेन सर्वम् विषय वासिनः ।
    तेषाम् अति यशा लोके रामः सत्य पराक्रमः ॥१-७७-२४॥

    स्वयम्भूः इव भूतानाम् बभूव गुणवत्तरः ।
    रामः च सीतया सार्धम् विजहार बहून् ऋतून् ॥१-७७-२५॥

    मनस्वी तद् गतमानस्य तस्या हृदि समर्पितः ।
    प्रिया तु सीता रामस्य दाराः पितृ कृता इति ॥१-७७-२६॥

    गुणात् रूप गुणात् च अपि प्रीतिः भूयो अभिवर्धते ।
    तस्याः च भर्ता द्विगुणम् हृदये परिवर्तते ॥१-७७-२७॥

    अन्तर् गतम् अपि व्यक्तम् आख्याति हृदयम् हृदा ।
    तस्य भूयो विशेषेण मैथिली जनक आत्मजा ।
    देवताभिः समा रूपे सीता श्रीः इव रूपिणी ॥१-७७-२८॥

    तया स राज ऋषि सुतो अभिकामयासमेयिवान् उत्तम राज कन्यया ।
    अतीव रामः शुशुभे मुदा अन्वितोविभुः श्रिया विष्णुः इव अमर ईश्वरः ॥१-७७-२९॥

    इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥

    - x -

    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal