॥ अष्टपदी ॥
॥ श्री गोपालक ध्यानम् ॥
यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिन्दीवरम् ।
यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नश्यामळमाविरस्तु हृदये कृष्णाभिधानं महः ॥ १ ॥
॥ श्री जयदेव ध्यानम् ॥
राधामनोरमरमावररासलील-गानामृतैकभणितं कविराजराजम् ।
श्रीमाधवार्च्चनविधवनुरागसद्म-पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥ २ ॥
श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् ॥
लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ ३ ॥
॥ प्रथमः सर्गः ॥
॥ सामोददामोदरः ॥
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १ ॥
वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती ।
श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबन्धम् ॥ २ ॥
यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ ३ ॥
वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ ४ ॥
॥ गीतम् १ ॥
प्रलयपयोधिजले धृतवानसि वेदम् ।
विहितवहित्रचरित्रमखेदम् ॥
केशव धृतमीनशरीर जय जगदीश हरे ॥ १ ॥
क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
धरणिधरणकिणचक्रगरिष्ठे ॥
केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥
वसति दशनशिखरे धरणी तव लग्ना ।
शशिनि कलङ्ककलेव निमग्ना ॥
केशव धृतसूकररूप जय जगदीश हरे ॥ ३ ॥
तव करकमलवरे नखमद्भुतशृङ्गम् ।
दलितहिरण्यकशिपुतनुभृङ्गम् ॥
केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४ ॥
छलयसि विक्रमणे बलिमद्भुतवामन ।
पदनखनीरजनितजनपावन ॥
केशव धृतवामनरूप जय जगदीश हरे ॥ ५ ॥
क्षत्रियरुधिरमये जगदपगतपापम् ।
स्नपयसि पयसि शमितभवतापम् ॥
केशव धृतभृघुपतिरूप जय जगदीश हरे ॥ ६ ॥
वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।
दशमुखमौलिबलिं रमणीयं ॥
केशव धृतरामशरीर जय जगदीश हरे ॥ ७ ॥
वहसि वपुषि विशदे वसनं जलदाभम् ।
हलहतिभीतिमिलितयमुनाभम् ॥
केशव धृतहलधररूप जय जगदीश हरे ॥ ८ ॥
निन्दसि यज्ञविधेरहह श्रुतिजातम् ।
सदयहृदयदर्शितपशुघातम् ॥
केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९ ॥
म्लेच्छनिवहनिधने कलयसि करवालम् ।
धूमकेतुमिव किमपि करालम् ॥
केशव धृतकल्किशरीर जय जगदीश हरे ॥ १० ॥
श्रीजयदेवकवेरिदमुदितमुदारम् ।
शृणु सुखदं शुभदं भवसारम् ॥
केशव धृतदशविधरूप जय जगदीश हरे ॥ ११ ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ ५ ॥
॥ गीतम् २ ॥
श्रितकमलाकुचमण्डल! धृतकुण्डल! ।
कलितललितवनमाल! जय, जय, देव! हरे! ॥ १ ॥
दिनमणीमण्डलमण्डन! भवखण्डन! ।
मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ २ ॥
कालियविषधरगञ्जन! जनरञ्जन! ।
यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ ३ ॥
मधुमुरनरकविनाशन! गरुडासन! ।
सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ ४ ॥
अमलकमलदललोचन! भवमोचन्! ।
त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ ५ ॥
जनकसुताकृतभूषण! जितदूषण! ।
समरशमितदशखण्ठ! जय, जय, देव! हरे! ॥ ६ ॥
अभिनवजलधरसुन्दर! धृतमन्दर! ।
श्रीमुखचन्द्रचकोर! जय, जय, देव! हरे! ॥ ७ ॥
श्रीजयदेवकवेरिदं कुरुते मुदम् ।
मङ्गलमुज्ज्वलगीतं; जय, जय, देव! हरे! ॥ ८ ॥
पद्मापयोधरतटीपरिरम्भलग्न-काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेद-स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ ६ ॥
वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ ७ ॥
॥ गीतम् ३ ॥
ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥
विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ १ ॥
उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ २ ॥
मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ ३ ॥
मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।
मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ ४ ॥
विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ ५ ॥
माधविकापरिमलललिते नवमालिकजातिसुगन्धौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ ६ ॥
स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।
बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ ७ ॥
श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ ८ ॥
दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैर्वासयन् काननानि ।
इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ ८ ॥
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ९ ॥
अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्मनोहारिविलासलालसम् ।
मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥ १० ॥
॥ गीतम् ४ ॥
चन्दनचर्चितनीलकलेबरपीतवसनवनमाली ।
केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥
हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ १ ॥
पीनपयोधरभारभरेण हरिं परिरम्य सरागम् ।
गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ २ ॥
कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ ३ ॥
कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ ४ ॥
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले ॥ ५ ॥
करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥ ६ ॥
श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥ ७ ॥
श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् ।
वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ ८ ॥
विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर-श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ ११ ॥
अद्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-दुन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः ॥ १२ ॥
रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति-व्याजादुद्भटचुम्बितस्मितमनोहरी हरिः पातु वः ॥ १३ ॥
॥ इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥
॥ द्वितीयः सर्गः ॥
॥ अक्लेशकेशवः ॥
विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः ।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ १४ ॥
॥ गीतम् ५ ॥
संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।
चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥
रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ १ ॥
चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ २ ॥
गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।
बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ ३ ॥
विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् ।
करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ ४ ॥
जलदपटलवलदिन्दुविनन्दकचन्दनतिलकललाटम् ।
पीनपयोधरपरिसरमर्दननिर्दयहृदयकवाटम् ॥ ५ ॥
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।
पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ ६ ॥
विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।
मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ ७ ॥
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥ ८ ॥
गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १५ ॥
॥ गीतम् ६ ॥
निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।
चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥
सखि हे केशिमथनमुदारम् रमय मया सह मदनमनोरथभावितया सविकारम् ॥ १ ॥
प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।
मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम् ॥ २ ॥
किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ ३ ॥
अलसनिमीलितलोचनया पुलकावलिललितकपोलम् ।
श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ ४ ॥
कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् ।
श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ ५ ॥
चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् ।
मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ ६ ॥
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ ७ ॥
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।
सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ ८ ॥
हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी-वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।
मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १६ ॥
दुरालोकस्तोकस्तबकनवकाशोकलतिका-विकासः कासारोपवनपवनोऽपि व्यथयति ।
अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ १७ ॥
॥ इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥
॥ तृतीयः सर्गः ॥
॥ मुग्धमधुसूदनः ॥
कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १८ ॥
इतस्ततस्तामनुसृत्य राधिका-मनङ्गबाणव्रणखिन्नमानसः ।
कृतानुतापः स कलिन्दनन्दिनी-तटान्तकुञ्जे विषसाद माधवः ॥ १९ ॥
॥ गीतम् ७ ॥
मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
सापराधतया मयापि न वारितातिभयेन ॥
हरि हरि हतादरतया गता सा कुपितेव ॥ १ ॥
किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं मम जीवनेन गृहेण ॥ २ ॥
चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ ३ ॥
तामहं हृदि संगतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ ४ ॥
तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ ५ ॥
दृश्यते पुरतो गतागतमेव मे विदधासि ।
किं पुरेव ससंभ्रमं परिरम्भणं न ददासि ॥ ६ ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ ७ ॥
वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ ८ ॥
हृदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ २० ॥
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ २१ ॥
भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवान् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ २२ ॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ २३ ॥
भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि बाणाः गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवतायाम् अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २४ ॥
[एषः श्लोकः केषुचन संस्करणेषु विद्यते]
तिर्यक्कण्ठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्-
दीप्तिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः ।
संमुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा-
सारे कन्दलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (२५) ॥
॥ इति श्रीगीतगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥
॥ चतुर्थः सर्गः ॥
॥ स्निग्धमधुसूदनः ॥
यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ २५ ॥
॥ गीतम् ८ ॥
निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥
सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ १ ॥
अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २ ॥
कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३ ॥
वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४ ॥
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५ ॥
प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६ ॥
ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७ ॥
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८ ॥
आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २६ ॥
॥ गीतम् ९ ॥
स्तनविनिहितमपि हारमुदारम् ।
सा मनुते कृशतनुरतिभारम् ॥
राधिका विरहे तव केशव ॥ १ ॥
सरसमसृणमपि मलयजपङ्कम् ।
पश्यति विषमिव वपुषि सशङ्कम् ॥ २ ॥
श्वसितपवनमनुपमपरिणाहम् ।
मदनदहनमिव वहति सदाहम् ॥ ३ ॥
दिशि दिशि किरति सजलकणजालम् ।
नयननलिनमिव विगलितनालम् ॥ ४ ॥
नयनविषयमपि किसलयतल्पम् ।
कलयति विहितहुताशविकल्पम् ॥ ५ ॥
त्यजति न पाणितलेन कपोलम् ।
बालशशिनमिव सायमलोलम् ॥ ६ ॥
हरिरिति हरिरिति जपति सकामम् ।
विरहविहितमरणेन निकामम् ॥ ७ ॥
श्रीजयदेवभणितमिति गीतम् ।
सुखयतु केशवपदमुपुनीतम् ॥ ८ ॥
सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ २७ ॥
स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ २८ ॥
कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २९ ॥
क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।
श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३० ॥
॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥
॥ पञ्चमः सर्गः ॥
॥ साकांक्षपुण्डरीकाक्षः ॥
अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ ३१ ॥
॥ गीतम् १० ॥
वहति मलयसमीरे मदनमुपनिधाय ।
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
तव विरहे वनमाली सखि सीदति ॥ १ ॥
दहति शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति ॥ २ ॥
ध्वनति मधुपसमूहे श्रवणमपिदधाति ।
मनसि चलितविरहे निशि निशि रुजमुपयाति ॥ ३ ॥
वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम ॥ ४ ॥
रणति पिकसमवाये प्रतिदिशमनुयाति ।
हसति मनुजनिचये विरहमपलपति नेति ॥ ५ ॥
स्फुरति कलरवरावे स्मरति मणितमेव।
तवरतिसुखविभवे गणयति सुगुणमतीव ॥ ६ ॥
त्वदभिधशुभदमासं वदति नरि शृणोति ।
तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ ७ ॥
भणति कविजयदेवे विरहविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ ८ ॥
पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ३२ ॥
॥ गीतम् ११ ॥
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ १ ॥
नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् ।
बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २ ॥
पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ ३ ॥
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषुलोलम् ।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४ ॥
उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
तटिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५ ॥
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६ ॥
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७ ॥
श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८ ॥
विकिरति मुहुः श्वासान्दिशः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३३ ॥
त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ३४ ॥
आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ३५ ॥
सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ३६ ॥
राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः।
स्वच्छन्दं व्रजसुब्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमकेतुरवतु त्वाम् देवकीनन्दनः॥ ३६ + १ ॥
॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥
॥ षष्ठः सर्गः ॥
॥ कुण्ठवैकुण्ठः ॥
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ ३७ ॥
॥ गीतम् १२ ॥
पश्यति दिशि दिशि रहसि भवन्तम् ।
तदधरमधुरमधूनि पिबन्तम् ॥
नाथ हरे जगन्नाथ हरे सीदति राधा वासगृहे - ध्रुवम् ॥ १ ॥
त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ २ ॥
विहितविशदबिसकिसलयवलया ।
जीवति परमिह तव रतिकलया ॥ ३ ॥
मुहुरवलोकितमण्डनलीला ।
मधुरिपुरहमिति भावनशीला ॥ ४ ॥
त्वरितमुपैति न कथमभिसारम् ।
हरिरिति वदति सखीमनुवारम् ॥ ५ ॥
श्लिष्यति चुम्बति जलधरकल्पम् ।
हरिरुपगत इति तिमिरमनल्पम् ॥ ६ ॥
भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा ॥ ७ ॥
श्रीजयदेवकवेरिदमुदितम् ।
रसिकजनं तनुतामतिमुदितम् ॥ ८ ॥
विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ ३८ ॥
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ३९ ॥
किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रात र्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्।
रधायावचनम् तदध्वगमुखान्नंदान्तिकेगोपतो गोविन्दस्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ ४० ॥
॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्ठः सर्गः ॥
॥ सप्तमः सर्गः ॥
॥ नागरनारायणः ॥
अत्रान्तरे च कुलटाकुलवर्त्मपात-संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै-र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४० ॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४१ ॥
॥ गीतं १३ ॥
कथितसमयेऽपि हरिरहह न ययौ वनम् ।
मम विफलमिदममलरूपमपि यौवनम् ॥
यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ १ ॥
यदनुगमनाय निशि गहनमपि शीलितम् ।
तेन मम हृदयमिदमसमशरकीलितम् ॥ २ ॥
मम मरणमेव वरमतिवितथकेतना ।
किमिह विषहामि विरहानलचेतना ॥ ३ ॥
मामहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४ ॥
अहह कलयामि वलयादिमणीभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥ ५ ॥
कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६ ॥
अहमिह निवसामि नगणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ ७ ॥
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥ ८ ॥
तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४२ ॥
अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ४३ ॥
॥ गीतम् १४ ॥
स्मरसमरोचितविरचितवेशा ।
गलितकुसुमदरविलुलितकेशा ॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १ ॥
हरिपरिरम्भणवलितविकारा ।
कुचकलशोपरि तरलितहारा ॥ २ ॥
विचलदलकललिताननचन्द्रा ।
तदधरपानरभसकृततन्द्रा ॥ ३ ॥
चञ्चलकुण्डलदलितकपोला ।
मुखरितरसनजघनगलितलोला ॥ ४ ॥
दयितविलोकितलज्जितहसिता ।
बहुविधकूजितरतिरसरसिता ॥ ५ ॥
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदनङ्गा ॥ ६ ॥
श्रमजलकणभरसुभगशरीरा ।
परिपतितोरसि रतिरणधीरा ॥ ७ ॥
श्रीजयदेवभणितहरिरमितम् ।
कलिकलुषं जनयतु परिशमितम् ॥ ८ ॥
विरहपाण्डुमुरारिमुखाम्बुज-द्युतिरियं तिरयन्नपि चेतनाम् ।
विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ ४४ ॥
॥ गीतम् १५ ॥
समुदितमदने रमणीवदने चुम्बनवलिताधरे ।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ १ ॥
घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ २ ॥
घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ ३ ॥
जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ ४ ॥
रतिगृहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ ५ ॥
चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ ६ ॥
रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ ७ ॥
इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ ८ ॥
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ४५ ॥
॥ गीतम् १६ ॥
अनिलतरलकुवलयनयनेन ।
तपति न सा किसलयशयनेन ॥
सखि या रमिता वनमालिना ॥ १ ॥
विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेन ॥ २ ॥
अमृतमधुरमृदुतरवचनेन ।
ज्वलति न सा मलयजपवनेन ॥ ३ ॥
स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥ ४ ॥
सजलजलदसमुदयरुचिरेण ।
दलति न सा हृदि चिरविरहेण ॥ ५ ॥
कनकनिकषरुचिशुचिवसनेन ।
श्वसति न सा परिजनहसनेन ॥ ६ ॥
सकलभुवनजनवरतरुणेन ।
वहति न सा रुजमतिकरुणेन ॥ ७ ॥
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ॥ ८ ॥
मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ ४६ ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ४७ ॥
बाधां विधेहि मलयानिल पञ्चबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गै-रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ४८ ॥
प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीतांबरम्
रधायाश्कितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥ (कस्मिंश्चन पाठान्तरे इदं पद्यं विद्यते)
॥ इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥
॥ अष्टमः सर्गः ॥
॥ विलक्ष्यलक्ष्मीपतिः ॥
अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ ४९ ॥
॥ गीतम् १७ ॥
रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥
हरिहरि याहि माधव याहि केशव मा वद कैतववादं तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ५० ॥
कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ २ ॥
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।
मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ ३ ॥
चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ ४ ॥
दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।
कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ ५ ॥
बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ ६ ॥
भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।
प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ ७ ॥
श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।
शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ ८ ॥
तदेवं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ ५० ॥
॥ इति गीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥
॥ नवमः सर्गः ॥
॥ मन्दमुकुन्दः ॥
तामथ मन्मथखिन्नां रतिरसभिन्नां विषादसम्पन्नाम् ।
अनुचिन्तितहरिचरितां कलहान्तरितमुवाच सखी ॥ ५१ ॥
॥ गीतम् १८ ॥
हरिरभिसरति वहति मधुपवने ।
किमपरमधिकसुखं सखि भुवने ॥
माधवे मा कुरु मानिनि मानमये ॥ १ ॥
तालफलादपि गुरुमतिसरसम् ।
किं विफलीकुरुषे कुचकलशम् ॥ २ ॥
कति न कथितमिदमनुपदमचिरम् ।
मा परिहर हरिमतिशयरुचिरम् ॥ ३ ॥
किमिति विषीदसि रोदिषि विकला ।
विहसति युवतिसभा तव सकला ॥ ४ ॥
सजलनलिनीदलशीतलशयने ।
हरिमवलोक्य सफलय् नयने ॥ ५ ॥
जनयसि मनसि किमिति गुरुखेदम् ।
शृणु मम वचनमनीहितभेदम् ॥ ६ ॥
हरिरुपयातु वदतु बहुमधुरम् ।
किमिति करोषि हृदयमतिविधुरम् ॥ ७ ॥
श्रीजयदेवभणितमतिललितम् ।
सुखयतु रसिकजनं हरिचरितम् ॥ ८ ॥
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
युक्तं तद्विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ५२ ॥
॥ इति गीतगोविन्दे कलहान्तरितावर्णने मन्दमुकुन्दो नाम नवमः सर्गः ॥
॥ दशमः सर्गः ॥
॥ चतुरचतुर्भुजः ॥
अत्रान्तरे मसृणरोषवशामसीम्-निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच ॥ ५३ ॥
॥ गीतम् १९ ॥
वदसि यदि किंचिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।
स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयतु लोचनचकोरम् ॥
प्रिये चारुशीले मुञ्च मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ १ ॥
सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् ।
घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् ॥ २ ॥
त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् ।
भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ ३ ॥
नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् ।
कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥ ४ ॥
स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् ।
रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥ ५ ॥
स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् ।
भण मसृणवाणि करवाणि पदपङ्कजं सरसलसदलक्तकरागम् ॥ ६ ॥
स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् ।
ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ ७ ॥
इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् ।
जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ ८ ॥
परिहर कृतातङ्के शङ्कां त्वया सततं घन-स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥ ५४ ॥
मुग्धे विधेहि मयि निर्दयदन्तदंश-दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।
चण्डि त्वमेव मुदमञ्च न पञ्चबाण-चण्डालकाण्डदलनादसवः प्रयान्तु ॥ ५५ ॥
व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ ५६ ॥
बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्चवि-र्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ५७ ॥
दृशौ तव मदालसे वदनमिन्दुसंदीपकं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् ।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ ५८ ॥
॥ इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥
॥ एकादशः सर्गः ॥
॥ सानन्ददामोदरः ॥
सुचिरमनुनयने प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्जशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥ ५९ ॥
॥ गीतम् २० ॥
विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥
मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ १ ॥
घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।
मुखरितमणीमञ्जीरमुपैहि विधेहि मरालविकारम् ॥ २ ॥
शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् ।
कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥ ३ ॥
अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् ।
प्रेरणमिव करभोरु करोति गतिं प्रतिमुञ्च विलम्बम् ॥ ४ ॥
स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।
पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ ५ ॥
अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।
चण्डि रसितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ ६ ॥
स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् ।
चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ ७ ॥
श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।
हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ ८ ॥
सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रम्यते सखि समागत्येति चिन्ताकुलः ।
स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः ॥ ६० ॥
अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापात्रकम् ।
धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सदृशां प्रत्यङ्गमालिङ्गति ॥ ६१ ॥
काश्मीरगौरवपुषामभिसारिकाणाम् आबद्धरेखमभितो रुचिमञ्जरीभिः ।
एतत्तमालदलनीलतमं तमिश्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ ६२ ॥
हारावलीतरलकाञ्चनकाञ्चिदाम-केयूरकङ्कणमणिद्युतिदीपितस्य ।
द्वारे निकुञ्जनिलयस्यहरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाह राधाम् ॥ ६३ ॥
॥ गीतम् २१ ॥
मञ्जुतरकुञ्जतलकेलिसदने ।
विलस रतिरभसहसितवदने ॥
प्रविश राधे माधवसमीपमिह ॥ १ ॥
नवभवदशोकदलशयनसारे ।
विलस कुचकलशतरलहारे ॥ २ ॥
कुसुमचयरचितशुचिवासगेहे ।
विलस कुसुमसुकुमारदेहे ॥ ३ ॥
चलमलयवनपवनसुरभिशीते ।
विलस रसवलितललितगीते ॥ ४ ॥
मधुमुदितमधुपकुलकलितरावे ।
विलस मदनरससरसभावे ॥ ५ ॥
मधुतरलपिकनिकरनिनदमुखरे ।
विलस दशनरुचिरुचिरशिखरे ॥ ६ ॥
वितत बहुवल्लिनवपल्लवघने ।
विलस चिरमलसपीनजघने ॥ ७ ॥
विहितपद्मावतीसुखसमाजे ।
भणति जयदेवकविराजे ॥ ८ ॥
त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पेण तु पातुमिच्छति सुधासंबाधबिम्बाधरम् ।
अस्याङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ ६४ ॥
सा ससाध्वससानन्दं गोविन्दे लोललोचना ।
सिञ्जानमञ्जुमञ्जीरं प्रविवेश निवेशनम् ॥ ६५ ॥
॥ गीतम् २२ ॥
राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।
जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥
हरिमेकरसं चिरमभिलषितविलासं सा ददार्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् ॥ १ ॥
हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥ २ ॥
श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।
नीलनलिनमिव पीतपरागपतलभरवलयितमूलम् ॥ ३ ॥
तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।
स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ ४ ॥
वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।
स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ ५ ॥
शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।
तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ ६ ॥
विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।
मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ ७ ॥
श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ ८ ॥
अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ ६६ ॥
भवन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित-स्मितं याते गेहाद्बहिरवहितालीपरिजने ।
प्रियास्यं पश्यन्त्याः स्मरशरसमाकूलसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ६७ ॥
॥ इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नामैकादशः सर्गः ॥
॥ द्वादशः सर्गः ॥
॥ सुप्रीतपीताम्बरः ॥
गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर-स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-प्रसवशयने निक्षिप्ताक्षीमुवाच हरः ॥ ६८ ॥
॥ गीतम् २३ ॥
किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ १ ॥
करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ २ ॥
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ ३ ॥
प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ ४ ॥
अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ ५ ॥
शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिदानम् ।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ ६ ॥
मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ ७ ॥
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥ ८ ॥
मारङ्के रतिकेलिसंकुलरणारम्भे तया साहस-प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।
निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ ६९ ॥
अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।
निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ ७० ॥
॥ गीतम् २४ ॥
कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ।
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ १ ॥
अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।
त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥ २ ॥
नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले ।
मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥ ३ ॥
भ्रमरचयं रचहयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ ४ ॥
मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥ ५ ॥
मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ ६ ॥
सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ ७ ॥
श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखण्डने ॥ ८ ॥
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ ७१ ॥
यद्गान्ध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।
तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ ७२ ॥
श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ७३ ॥
॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥
॥ इति गीतगोविन्दं समाप्तम् ॥
No comments