Header Ads

Shubhapallaba online English Portal
  • Latest Post

    सूर्यः


    सूर्यः आकाशे प्रकाशते । सूर्यस्य प्रकाशेन जीवाः आनन्दिताः भवन्ति । प्रातः सूर्यस्य उदयः भवति । सायं सूर्यः अस्तं याति । सूर्यः शीतम् अन्धकारं च हरति । सः उष्णतां प्रकाशं च ददाति । हिमकाले जनाः आतपं सेवन्ते । ग्रीष्मसमये आतपः तीव्रः भवति । सूर्यस्य प्रखरम् उष्णं जनाः न सहन्ते । सूर्यस्य आतपः भूमेः जलं वाष्परुपेण शोषयति । मेघरूपेण पृथिव्यां निपातयति । शस्यं पुष्यति । सूर्यः कमलं विविधानि कुसुमानि च विकाशयति । बालसूर्यस्य किरणाः रोगान् हरन्ति। संप्रति विज्ञानक्षेत्रे सौरशक्तेः उपयोग: भवति ।

    अत्यन्तम् उपकारकः अयं सूर्यः । कृतज्ञाः वयं त प्रणमामः ।

    (From School Text Book)

    No comments

    Post Top Ad

    Shubhapallaba free eMagazine and online web Portal

    Post Bottom Ad

    Shubhapallaba Hindi Portal