गीतगोविन्दम् सप्तमः सर्गः - नागरनारायणः
अत्रान्तरे च कुलटाकुलवर्त्मपात-संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै-र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४० ॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४१ ॥
कथितसमयेऽपि हरिरहह न ययौ वनम् ।
मम विफलमिदममलरूपमपि यौवनम् ॥
यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ १ ॥
यदनुगमनाय निशि गहनमपि शीलितम् ।
तेन मम हृदयमिदमसमशरकीलितम् ॥ २ ॥
मम मरणमेव वरमतिवितथकेतना ।
किमिह विषहामि विरहानलचेतना ॥ ३ ॥
मामहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४ ॥
अहह कलयामि वलयादिमणीभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥ ५ ॥
कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६ ॥
अहमिह निवसामि नगणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ ७ ॥
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥ ८ ॥
तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४२ ॥
अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ४३ ॥
स्मरसमरोचितविरचितवेशा ।
गलितकुसुमदरविलुलितकेशा ॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १ ॥
हरिपरिरम्भणवलितविकारा ।
कुचकलशोपरि तरलितहारा ॥ २ ॥
विचलदलकललिताननचन्द्रा ।
तदधरपानरभसकृततन्द्रा ॥ ३ ॥
चञ्चलकुण्डलदलितकपोला ।
मुखरितरसनजघनगलितलोला ॥ ४ ॥
दयितविलोकितलज्जितहसिता ।
बहुविधकूजितरतिरसरसिता ॥ ५ ॥
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदनङ्गा ॥ ६ ॥
श्रमजलकणभरसुभगशरीरा ।
परिपतितोरसि रतिरणधीरा ॥ ७ ॥
श्रीजयदेवभणितहरिरमितम् ।
कलिकलुषं जनयतु परिशमितम् ॥ ८ ॥
विरहपाण्डुमुरारिमुखाम्बुज-द्युतिरियं तिरयन्नपि चेतनाम् ।
विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ ४४ ॥
समुदितमदने रमणीवदने चुम्बनवलिताधरे ।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ १ ॥
घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ २ ॥
घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ ३ ॥
जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ ४ ॥
रतिगृहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ ५ ॥
चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ ६ ॥
रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ ७ ॥
इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ ८ ॥
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ४५ ॥
अनिलतरलकुवलयनयनेन ।
तपति न सा किसलयशयनेन ॥
सखि या रमिता वनमालिना ॥ १ ॥
विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेन ॥ २ ॥
अमृतमधुरमृदुतरवचनेन ।
ज्वलति न सा मलयजपवनेन ॥ ३ ॥
स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥ ४ ॥
सजलजलदसमुदयरुचिरेण ।
दलति न सा हृदि चिरविरहेण ॥ ५ ॥
कनकनिकषरुचिशुचिवसनेन ।
श्वसति न सा परिजनहसनेन ॥ ६ ॥
सकलभुवनजनवरतरुणेन ।
वहति न सा रुजमतिकरुणेन ॥ ७ ॥
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ॥ ८ ॥
मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ ४६ ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ४७ ॥
बाधां विधेहि मलयानिल पञ्चबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गै-रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ४८ ॥
प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीतांबरम्
रधायाश्कितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥ (कस्मिंश्चन पाठान्तरे इदं पद्यं विद्यते)
No comments